सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 364, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 364

२२४ | अश्ववैद्यके | [५८ अध्यायः ।
गुडूची१कल्कयोगेन शतावर्याश्वगन्धयोः ।
मूलकल्कः प्रदातव्यः कुक्कुट्याश्च२ विशेषतः ॥ ३ ॥
पलानि पञ्च वाहस्य उत्तमस्य प्रदापयेत् ।
मध्यमं३ पलचत्वारि अधमस्य पलत्रयम् ॥ ४ ॥
चौषधी४ न च दातव्या एषां श्लेष्मान्विते हये ।
वातिके पैत्तिके वापि विहिता शास्त्रवेदिभिः५ ॥ ५ ॥
हरीतक्यामलाकल्कः प्रावृट्काले विधौ६ स्मृतः ।
तेनात्र नो विनिर्दिष्टः पुनरुक्ताभिशङ्कया ॥ ६ ॥
एवं विरिक्तं शुद्धाङ्गं कृत्वा यत्नेन वाजिनम् ।
दद्याद् गोमूत्रसंयुक्तां सतैलाञ्च हरीतकीम् ।
नित्यं त्रिसप्तकं यावत् पलपञ्चप्रमाणतः ॥ ७ ॥
सौवर्चलं तथा हिङ्गु पुष्करं विड्दाडिमम् ।
ग्रन्थिकं मेथिकाञ्चैषां भिषक् पिण्डञ्च कारयेत् ॥ ८ ॥
रक्तपित्तं ज्वरं हन्ति कासं श्वासं तथा घृणिम् ।
विद्रधिं क्षयरोगञ्च नाशयेद्वाजिनां ध्रुवम् ॥ ९ ॥

  • । कुकुटी शाल्मलीवृक्षः । सुकर्णी इन्द्रवारुणी ।
    १ । गुडूचीकल्कजं नस्यं कुर्य्यादश्वगन्धायाः । खः ।
    २ । सुकर्ण्या । गः ।
    ३ । मध्यमस्याथ चत्वारि जघन्यस्य । गः ।
    ४ । चौषधञ्च प्रदातव्य एषां श्लेष्मा निघातयेत् । खः ।
    ५ । हिता शास्त्रार्थशास्त्रिभिः । खः ।
    ६ । विशेषतः । खः ।