सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 356, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 356

३२६ अश्ववैद्यके [६६ अध्यायः ।
पित्तप्रकृतिकश्चापि भवेत् खेदश्च जायते ।
श्लेष्मसुसंहताङ्गश्च क्षुत्तृट्संहरणे क्षमः ॥ ३ ॥
सङ्कीर्णप्रकृतिष्वपि¹ विद्यात् सङ्कीर्णलक्षणम् ।
प्रकृतिं सम्यगालोक्य भिषग्वातादिकामिमाम् ॥ ४ ॥
यथादोषं ततः कुर्य्याच्चिकित्सां शास्त्रसम्मताम् ।
वातश्लेष्म तथा पित्तं ज्ञात्वा कर्म्म प्रचक्रमेत् ॥ ५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे प्रकृति-
ज्ञाने पञ्चषष्टितमोऽध्यायः ॥
अथ षट्षष्टितमोऽध्यायः ।
रसोनकल्पः ।
रसोनस्य प्रवक्ष्यामि कल्पं² शास्त्रानुसारतः ।
³सम्पूर्णरसवीर्य्योऽसौ मासे संगृह्य फाल्गुने ।
गृहीत्वा स्थापयेत्तत्र यवस्थो⁴ नैव नश्यति ॥ १ ॥
ततस्तस्य प्रयोगन्तु कुर्य्यान्मात्राप्रमाणतः ।
३ । प्रथमपादद्वयं ख-पुस्तके नास्ति ।
५ । अस्य तृतीयचतुर्थपादौ ख-पुस्तके न स्तः ।
१ । खापि । खः । ४ । यत्रासौ । गः ।
२ । कल्कं । गः ।
३ । सम्पूर्णरसवीर्य्याभ्यां मासे ग्राह्यो तु फाल्गुने । गः ।