अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 352, कुल 522 में से
संदर्भ में पढ़ें३२२ अश्ववैद्यके [६४ अध्यायः ।
ग्रासमध्यगतं१ वाहा ये भक्षन्ति सुदारुणम् ।
तेषां शोषश्च मूर्च्छा च भ्रमः श्वासश्च२ जायते ॥ ३ ॥
तेषु गव्यं घृतं पाने अभ्यङ्गश्च प्रशस्यते ।
सर्पदष्टचिकित्सायां कीर्त्तितं यच्च भेषजम् ॥ ४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे षट्पदी-
भक्षचिकित्सिते त्रिषष्टितमोऽध्यायः ॥
अथ चतुःषष्टितमोऽध्यायः ।
साध्यासाध्यविवेकः ।
अत ऊर्द्धं प्रवक्ष्यामि साध्यासाध्यविनिश्चयम् ।
एकः प्रशाम्यते व्याधिः पुनरन्यः३ प्रकुप्यति ॥
पुनरन्यः४ पुनश्चान्यो यस्य तं परिवर्जयेत् ॥ १ ॥
व्याधिनाल्पस्य५ वाहस्य प्रकृतिं याति६ सर्व्वदा ।
यः स्वभावं७ परित्यज्य दुश्चिकित्स्यः स उच्यते ॥ २ ॥
१ । पुनरित्येकस्य प्रशमनं अन्यस्य च प्रकोप इत्यर्थः ।
२ । अस्य श्लोकस्य द्वितीयपाठो न सङ्गच्छते ।
१ । ग्रासमध्यगता वाहा भक्षयन्ति । गः ।
२ । शोधः । गः । ५ । विपरीतस्य । खः ।
३ । अन्यश्चैव । गः । ६ । प्रकृतिर्याच । खः ।
४ । पुनश्चान्यः । गः । ७ । स्ववाहन्तु । खः ।