अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 354, कुल 522 में से
संदर्भ में पढ़ें३२६ अश्ववैद्यके . [५४ अध्यायः।
मूलाध्मातानिमेषाक्षः कृच्छ्रगामी च जायते ।
कृच्छ्राच्च कम्पते श्वासाध्मातश्च मूनमेहनः ॥ १० ॥
श्लेष्मा न पिच्छिलः सान्द्रः फेनिलः पाण्डुरस्तथा।
गलशुण्डा गले यस्य शोफो वा कठिनो भृशम् ॥ ११ ॥
रुद्धो गलग्रहो वापि मन्या वापि सुदूषिता।
श्लेष्मा विविधवर्णश्च सान्द्रोऽतिपूतिगन्धवान् ॥ १२ ॥
क्षयज्ञः काशते वापि हरेर्यस्य प्रवर्त्तते।
अतिसारेण क्षीणस्य यस्य शोथः प्रजायते ॥ १३ ॥
पश्चात्तु मूत्ररोगश्च जायतेऽश्वस्य दारुणः।
न संह्वयोति यो मेढ्रं वक्षःशोभाविवर्जितः ॥ १४ ॥
गुर्वङ्गोऽतिशयं भूय आत्मानमभिवीक्षते।
भग्नग्रीवश्च यो वाहो ब्रध्नैर्यस्य विमुच्यते ॥ १५ ॥
विस्तीर्णा श्रोणिका यस्य श्वासः स्वेदश्च मुष्करुक्।
वाह्वोरभ्यन्तरे यस्य द्रोणिका भिद्यतेऽपि च ॥ १६ ॥
मण्डूकायाञ्च कीर्णायां नित्यस्रावी तक्षो भवेत्।
खुरश्च यस्य वाहस्य खिन्नश्चैव प्रजायते ॥ १७ ॥
सर्व्वे पूर्व्वोदिता ह्येते नैव साध्याः प्रकीर्त्तिताः।
तथापि जीवमानस्य कुर्य्याद्वैद्यः प्रतिक्रियाम् ॥ १८ ॥
प्रदीप्ताग्निर्भवेद्यस्तु प्रसन्नं रूपमीक्षते।
बहुपानरतो वाजी साध्यरोगः स उच्यते ॥ १६ ॥