सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 360, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 360

३१० अश्ववैद्यके [६७ अध्यायः ।
सप्ताहमेकं¹ द्विगुणं त्रिगुणं वा यथाविधि ।
प्रयोगोऽस्य स्मृतः सम्यग् यथाशास्त्रं तपोधनैः ॥ २२ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे रसोन-
कल्पे षट्षष्टितमोऽध्यायः ।
अथ सप्तषष्टितमोऽध्यायः ।
गुग्गुलुकल्पः ।
स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः² ।
शोभनो गुग्गुलुः प्रोक्तः सुगन्धिर्यश्च पिच्छिलः ॥ १ ॥
शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वसमन्वितः³ ।
पुराणः सतु विज्ञेयो नैव देयस्तु वाजिनः⁴ ॥ २ ॥
विधिरस्य⁵ द्विधा प्रोक्तः पूर्ध्वशास्त्रविशारदैः ।
एकः पाने⁶ प्रयोगेण द्वितीयो भोजनेन तु ॥ ३ ॥
१ । एतद् द्विगुणं प्रदद्याच्च यथाविधिम् । गः ।
२ । निभोपमः । गः ।
३ । वर्णान्यत्वमुपागतः । गः ।
४ । वाजिनाम् । गः ।
५ । विधिश्चास्य । गः ।
६ । एकं पानप्रयोगेण । गः ।