सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

१३ अध्यायः ।] शिशिरपोषणविधिः । १४७
आरम्भात् पञ्चरात्रन्तु पयःपानं न दापयेत् ।
ततः सकृत् प्रदातव्यं यावद्वौ सप्तकौ गतौ ॥ ७२ ॥
तृतीये सप्तमे¹ चैव वाहयेच्च तुरङ्गमम् ।
चतुर्थे च यथाशक्यं² वाहयेच्च विचक्षणः ॥ ७३ ॥
पुष्पिताः फलिताश्चैव प्रशस्ताः सर्व्वदैव तु ।
ये च पुष्टिप्रदा³ हृद्या बलारोग्यविवर्द्धनाः ॥ ७४ ॥
७४ । पुष्पिताः फलिताश्च माषा इत्यर्थः ॥ शिशिरपोषणे
नकुलः—“ततः शिशिरमासाद्य दद्यात्तैलं हि वाजिनां । पलान्यष्टौ
प्रमाणेन भवेद् यावद्द्विसप्तकं ॥ यवोत्थं यवसं पश्चात् दद्याद्विंश-
त्यहानि च । यवाभावे च चणकान् दद्यादार्द्राम्बरान् सदा ॥
तदभावे मसूरांश्च शुष्कार्द्रान् तैलसंयुतान् । यवसञ्चापि यत्
प्रोक्तं ब्रविष्ये तदहं यदा ॥ औषधानान्तु सर्वेषां काथ्यतां तस्य
कर्मणां ॥ तैलानाञ्च घृतानाञ्च यवसं यवसं परम् ॥ पर्व्वतानां
यथामेरुरायुधानाञ्च वज्रकम् । तथा सर्व्वोपचाराणां सप्तेः श्रेष्ठतमा
यवाः । यथोदितः सहस्त्रांशुर्निःशेषं तिमिरं हरेत् । तथा शरीरजान्
दोषान् यवाः सर्व्वान् हरन्ति च ॥ उपचारक्रियाः सर्व्वाः पञ्चर्त्तुजनिता
ह्यये । कृताः सर्व्वेण भोज्येन सप्तेस्तु सुकृताय वै । यद्यस्य यवा दत्ताः
शिशिरे समुपस्थिते । क्रिया अपि कृताः सर्व्वाः पञ्चर्त्तुजनिता ह्यये ॥
पञ्चर्त्तुजनिताश्चाथ क्रिया व्यर्थास्तुरङ्गमे ॥ एवं ज्ञात्वा विदग्धेन यवा
१ । सप्तके । गः॥ ३ । येवा पुष्टिप्रदह्याश्च । गः ॥
२ । यथाशक्त्या । खः ॥

१४८ अश्ववैद्यके [१३ अध्यायः ।
वसन्तपोषणविधिः ।
वसन्ते वाहयेदश्वान् भोजनं नैव दापयेत् ।
खादने भक्षितास्तेषां संस्कृताः केवला यवाः ॥ ७५ ॥
त्र्यहाद् द्वाहाच्च दातव्यं लवणञ्च सुमाचया१ ।
घासः शुष्को जलं वारमेकं द्वौ वा हितं स्मृतम् ॥ ७६ ॥
व्योषव्योमविडङ्गैश्च सक्षौद्रैः सैन्धवान्वितैः ।
प्रतिपानं हितं दृष्टं वसन्ते मदिरायुतम् ॥ ७७ ॥
हेमन्ते शिशिरे विद्वान् वसन्ते च तुरङ्गमान् ।
आतपे दिवसं सर्व्वं स्थापयेद्वाजिशास्त्रवित् ॥ ७८ ॥
˙देयाः प्रयत्नतः॥ प्राप्तक्षीरा विशेषेण शिशिरे समुपस्थिते। शुष्का
अपि यवा देयाः सर्व्वकालञ्च वाजिनाम्॥ प्राणदास्ते यतो ज्ञेयाः सर्व्व-
व्याधिविनाशनाः। योऽन्योऽशनार्थं वाहनां प्रधानो यव दृष्यते ॥
तदभावे यवान् दद्यान्मकुष्ठान् तैलसंयुतान् । भोजने तुरगेन्द्राणां
परां पुष्टिमभीप्सता ॥ मकुष्ठभोजनादाजी पुष्टिं गच्छति लौकिकीं ॥
अप्राप्तौ तु मुकुष्ठानां मुद्गा देया विवेकिभिः । सतैलास्तेऽपि
कुर्व्वन्ति पुष्टिं बलविवर्द्धिनीम् ॥ अन्नाभावे प्रदातव्यं घृतं वा यदि
वा पयः। शस्यं वा मांसमेवाथ पुष्ट्यर्थं वाजिनां सदा ॥ शस्याभावे तु
शुष्कं वा यवसं यस्य वाजिनः” इत्यादि । “भक्षिताः” खाने भर्जिता
इति युक्तम् ॥
१ । वसुमाचया। ख ॥

१३ अध्यायः।] ग्रीष्मपोषणविधिः। १४६
स्थानं छायान्वितं शस्तं ग्रीष्मे व्यायामवर्जिते¹
चिःस्नानपानं घासश्च सान्द्रो यश्चापि वारिजः ॥ ७९ ॥
अतीव घर्म्मतप्तानां शारदं कारयेद्विधिम्।
क्षीरयुक्तं शतावर्या मूलं पाने च शस्यते ॥ ८० ॥
दुर्बलानां प्रदातव्यं सार्द्धं माषरसेन तु² ।
यवभक्तं युतं दध्ना वाहानां स्वल्पसैन्धवम् ॥ ८१ ॥
कुक्कुटीमूलकल्कश्च क्षीरेणालोडितस्तथा ।
ग्रीष्मकाले हितो दृष्टो वाजिनां हितकांक्षिभिः ॥ ८२ ॥
७९। नकुलोऽत्र दूर्व्वां ददाति। “ग्रीष्मकाले तु संप्राप्ते दूर्व्वा-
भोज्यं प्रशस्यते। वाजिनामिह सर्वेषां घर्म्मतापोपशान्तये” इति ॥
ग्रीष्मे चिःस्नानपानं स्याच्चिरं तस्यावगाहनम्”। इत्यग्निपुराणम् ॥
घासस्य दश तुलेति अहोरात्रेण यवस्य तुलादशेति ज्ञेयम् ।
८० । शतावर्या मूलकल्कपलं । क्षीरस्य प्रस्थः ॥
८१। अत्र चतुराढकमितस्य यवस्य भक्तं देयम् । “निस्तुषाणां
प्रदातव्या यवानां चतुराढकी” इत्यग्निपुराणम् ॥ अत्र पानं सर्पिः-
प्रभृति । माषरसेनेत्यत्र मांसरसेनेति साधुः ॥
८२ । कुक्कुटीमुलकल्कः शाल्मलीमूलकल्कः ॥
१ । व्यायामवर्जितं । गः ॥ २ । सार्द्धं मांसरसेन तु ।

१५० अश्ववैद्यके [१३ अध्यायः ।
प्रियङ्गुपिप्पलीलोध्रमधुकं विश्वभेषजम् ।
निदाघे प्रतिपानं स्यात् सीधुना मधुना युतम् ॥ ८३ ॥
सर्व्वर्त्तुपोषकविधिः
देशे देशे च घासानां नामान्यत्वं प्रजायते ।
तेन घासा मया नैव नामभिः परिकीर्त्तिताः ॥ ८४ ॥
औदकं दापयेद्धासं ग्रीष्मे शरदि वाजिनाम् ।
कालेऽन्यस्मिन् हितो हृष्टः शुष्को रोगविवर्जितः ॥ ८५ ॥
सर्व्वेषु चैव रोगेषु तथा कालेषु षट्सपि ।
दूर्व्वा नित्यं हिता हृष्टा वाजिपुष्टिविवर्द्धिनी¹ ॥ ८६ ॥
माषावत्संप्रयुञ्जीत स्वस्थानां सर्व्वकालिकम्² ।
तैलं कालानुरूपोक्तं³ पञ्चषड्दिवसान्तरे ॥ ८७ ॥
८३। प्रियङ्गवादीनां चूर्णं मिलित्वा पलं । सीधुनः प्रस्थः । मधुनश्च
कुड़वः । उक्तञ्चाग्नेये,—"प्रियङ्गुपिप्पलीलोध्रयष्ट्याह्वैः समहौषधैः ।
निदाघे सगुड़ा देया मदिरा प्रतिपानके"—इति। अत्र नकुलः,—
"घृतपानं विशेषेण सुच्छायासु निबन्धनम् । रक्तस्रावञ्च गात्रेषु ग्रासं
वा घृतसंयुतम्॥ घृतं काशस्य मध्यगं सर्व्वदोषप्रशान्तये"—इति ॥
८७। तैलमिति तैलस्य प्रस्थार्द्धं पञ्चषड्दिवसानन्तरं देयम् ।
परन्तु स्नेहपीतस्य "गुर्व्वभिष्यन्दिभक्तानि व्यायामं स्नानमातपम् ।
१। वाजिनां पुष्टिवर्द्धिनी। गः॥
२। स्वस्थाने सर्व्वकालिकान्। गः॥
३। तैलैः कालानुरूपोक्तैः। गः॥

१३ अध्यायः ।] सर्व्वर्त्तुपोषणविधिः । १५१
व्योषजीरकसिन्धूत्थविड्सौवर्चलानलैः ।
हरिद्राद्वयपूतीकवोज१शिग्रुकुठेरकैः ॥ ८८ ॥
गोमूत्रपिष्टैः पिण्डन्तु२ प्रातर्वाजिषु दापयेत् ।
मन्दाग्निदीपनं श्रेष्ठं वलतेजोविवर्द्धनम् ॥ ८९ ॥
अथवा सुरया साद्धं प्रतिपानेषु३ योजितः ।
कायाग्निदीपनश्चाशु४ पिण्डोऽयं मुनिभाषितः ॥ ९० ॥
सर्व्वदैव तुरङ्गाणां हितमेतत् प्रकीर्त्तितम् ।
कण्डूयनं सुखं चाग्र्यं५ तेषां प्रोक्तं मनीषिभिः ॥ ९१ ॥
संग्रामादिषु कालेषु तं स्मरन्ति हयोत्तमाः६ ।
तस्मात् कार्य्यं७ प्रयत्नेन तेषां कण्डूयनं८ बुधैः ॥ ९२ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे सर्व्वर्त्तू-
पचारे त्रयोदशोऽध्यायः ॥ १३ ॥
वायुवर्ज्जञ्च वाहस्य जेच्छपीतस्य वर्जितम्” इति वचनाद् एतत् सर्वं
निषिद्धम्॥
८८-९२। व्योषादीनां मिलित्वा पादहीनं पलं ग्राह्यं । सिन्धूत्थं
सैन्धवं। विडं कृष्णलवणं। अनलश्चित्रकमूलं। हरिद्राद्वयं हरिद्रा
दारुहरिद्रा च। पूतीकः (नाटाकरञ्ज) । शिग्रुः शोभाञ्जनत्वक्।
कुठेरकः श्वेततुलसी (वावइतुलसी) ।
१ । भार्ङ्गी । खः ॥ ५ । चाङ्गे । ङः ॥
२ । पिण्डोन्तु । खः ॥ ६ । हृष्टा यतः । खः ॥
३ । प्रतिपानेन । गः ॥ ७ । कार्ये । गः ॥
४ । कायाग्निदीपनोयञ्च । गः ॥ ८ । कण्डूयते । गः ॥

[ १५२ ]
अथ चतुर्दशोऽध्यायः।
—•:०*०:•—
क्षारदाहविधानम्।
एकस्य वा द्वयोर्वापि समस्तानाम्थापि वा।
रम्भापामार्गभानूनां स्नुहीलाङ्गलिपुष्करान् ॥ १ ॥
दग्ध्वा भस्म समादाय गोमूत्रेण तु गालयेत्¹।
गालितानन्तरं तच्च ताम्रपात्रे निधापयेत् ॥ २॥
१। क्षणनात् क्षरणाद्वा क्षारः। स च शस्त्रादिभ्यः प्रधानतमः
त्रिदोषनाशित्वात्। स च गुणत उष्णस्तीक्ष्णः शोधनः पाचनः विलयनः
रोपणः शोषणो लेखनश्च भवति। स च प्रतिसारणीयत्वात् पानीय-
त्वाच्च द्विविधः। तयोः प्रतिसारणीय एवास्मिन् ग्रन्थे विनियोज्य
इति बोध्यं शोफार्बुदादिदाहार्थम्। भानुः रक्तार्कः। लाङ्गली
(ईषलाङ्गलो)। पुष्करः कुष्ठं (कुड़)। एतेषां भस्मानि द्रोणपरि-
मितानि षड्भिर्गोमूत्रद्रोणैर्गोलयित्वा दोलायन्त्रेण एकविंशतिवारं
परिस्रावयेत्। ततो गालितं क्षारजलं मृदग्निना पाचयित्वा यदा दव्वी-
लेपत्वं गमिष्यति तदा शङ्खादीनां चूर्ण मिलिताष्टपलं प्रक्षिप्य चूर्ण-
तामागतं सिद्धं भवति ॥
१। गोमूत्रेणानुगालयेत्। गः॥

द्वितीय भाग: ज्वर, श्वास, कास, नेत्र-रोग एवं खुर-चिकित्सा

१७ अध्यायः । ] क्षारदाहविवरणम् । १५३
मृदग्निना पचेन्मूत्रं ततो दर्व्वीविघट्टितम् ।
भेषजानि क्षिपेत्तस्मिन् दर्व्वीलेपत्वमागते ॥ ३ ॥
हिङ्गु टङ्कं यवक्षारं पञ्चैव लवणानि च ।
क्षिप्तैतानि पचेत्तावद् यावत्तच्चूर्णतां १ गतम् ॥ ४ ॥
तच्चूर्णन्तु भवेत् सिद्धं २ स्थापयेत् शीतलं कृतम् ।
वातजे ३ कफजे कुष्ठे चार्बुदे मांसकीलके ॥ ५ ॥
लोमान्युत्पाट्य दातव्यः क्षार एष ४ शलाकया । ६ ।
लौहदाहविधानम् ।
वायौ प्रकुपिते ५ ऽत्यर्थमग्निं दद्याद्विचक्षणः ।
यथाशास्त्रं भिषक् प्राज्ञो लौहकैर्मेदसापि वा ॥ ७ ॥
शलाकाभिश्च फालैश्च तप्तैर्लौहेन कीर्त्तितः ।
वर्त्तिभिर्विन्दुदाहेन ६ मेदसा समुदाहृतः ॥ ८ ॥
अग्रकायं ७ दहेल्लोहैः पश्चात्-कायन्तु ८ मेदसा ।
एवं यः कुरुते सम्यक् तस्य सिद्धिर्न दूरतः ॥ ९ ॥
८ । शलाकया वा फालेन वाग्नितप्तेन दाहो लौहदाहः की-
र्त्तितः । तथा वर्त्तिभिर्दाहेन मेदसा दाहः समुदाहृतः ॥
१ । यावत्तु । गः । ५ । बहुप्रकुपितः । खः ।
२ । तिक्तात्तुल्यन्तु । खः । ६ । वर्त्तिभिश्चैव दाहेन । खः ।
३ । वाते कफे च कुष्ठे च । गः । ७ । अग्रकाये । गः ।
४ । एव । खः । ८ । पश्चात्काये । गः ।
20

१५४ अश्ववैद्यके [१४ अध्यायः ।]
दहेत् प्रथमया लोम¹ चर्म चैव द्वितीयया ।
मांसं तृतीयया सम्यग् दहेद्विद्धा शलाकया ॥ १० ॥
समांसलेषु देशेषु फालै²र्वह्निं प्रदापयेत्।
रेखाभिर्बिन्दुभिश्चैव तथा काकपदादिभिः ॥ ११ ॥
दहेदेवं सम्यगेवं वाजिनोऽङ्गं शलाकया।
दग्ध्वा मधुककल्केन घृतमिश्रेण लेपयेत् ॥ १२ ॥
मेदोदग्धविधानम्।
पुरलाक्षामधूच्छिष्टसर्जश्रीवेष्टकैः समैः ।
मनःशिलागुडोपेतैर्वर्त्तिमष्टाङ्गुलायताम् ॥ १३ ॥
कृत्वाष्टाङ्गुलविस्तारां³ शूकरादिवसान्विताम्।
घृतप्लुतेन संवेष्ट्य कर्पटेन विनिःक्षिपेत् ॥ १४ ॥
अधोभागे दृढं विद्वा⁴ सुशिरे वेणुदण्डकैः।
प्रक्षिप्य छिद्रं कुर्व्वीत अधोभागे विचक्षणः५ ॥ १५॥
कोलास्थिमाचदण्डस्य दिहस्तस्य विचक्षणः।
यस्मिन् स्थाने स्थिता वर्त्तिस्तच दण्डं प्रवर्त्तयेत् ॥ १६ ॥
अधोभागे घृताक्तेनालक्तकेनाङ्गुलाष्टकम्।
यस्मिन् कृत्वा ततो वह्निं भृशं प्रज्वालयेद्बुधः ॥ १७ ॥
१० । पुस्तकान्तरे लोमस्थाने लोहमिति पठ्यते ॥
१ । लोहं । गः । ४ । अधोभागं दृढं वद्धं । गः।
२ । काले । गः । ५ । विचेष्टयेत् । खः ।
३ । द्वाङ्गुलविस्तारम् । खः ।

१४ अध्यायः ।] शस्त्रविधानविवरणम् । १५५
तुरङ्गाङ्गे ततो दण्डं विद्धानुपरि धारयेत् ।
द्रुताया वह्नितापेन वर्त्त्याश्छिद्रान्तरे गतैः ॥ १८ ॥
विन्दुभिर्दाहयेदश्वं सुवङ्गं पतितं क्षितौ ।
पश्चात्-कायसमुत्थेन वायुनैवं विमुच्यते ॥ १९ ॥
दाहलक्षणम्।
विल्व१मध्यसवर्णन्तु पक्वतालनिभं तथा ।
सम्यग्दग्धं विजानीयाद् विपरीतं विवर्जयेत् ॥ २० ॥
शस्त्रविधानम् ।
अर्द्धाङ्गुलन्तु विस्तीर्णं कुर्याच्छस्त्रं षडङ्गुलम्२ ।
नाम्ना ब्रोहिमुखं सम्यक् तथा चोत्पलपत्रकम् ॥ २१ ॥
त्र्यङ्गुलं वृद्धिपत्रञ्च क्षुराकारं प्रकीर्त्तितम् ।
पक्वशोथादिषु प्राज्ञः पाटनं तेन कारयेत् ॥ २२ ॥
शस्त्रेणोत्पलपत्रेण ब्रीहिपत्रेण वा भिषक् ।
शिरावेधविधिं सम्यग् दृष्टकर्मा प्रयोजयेत् ॥ २३ ॥
इति श्रीमन्महासामन्तजयदत्तकृतेऽश्वशास्त्रे क्षाराग्नि-
शस्त्रविधाने चतुर्दशोऽध्यायः ।
२१ । ब्रीहिमुखं ब्रीहिमुखसदृशत्वात् । उत्पलपत्रमपि उत्पल-
दलाकारत्वात् । तथा वृद्धिपत्रं नाम चुरसदृशं । एतानि सुश्रुतोक्त-
विंशतिविधशस्त्राणामन्यतमानि । तेषु केन किं साधनीयमित्याह ।
ब्रीहिमुखं व्यधने वृद्धिपत्रमुत्पलपत्रञ्च छेदने भेदने च व्यवह्रियते ॥
१ । चित्त । खः । २ । षड़ायतम् । खः ।

अथ पञ्चदशोऽध्यायः ।
शिरावेध-कालनिरूपणम् ।
अतःपरं प्रवक्ष्यामि शिरावेधविनिश्चयम् ।
प्रधानं वाजिनामेतद्भेषजं गदितं¹ बुधैः ॥ १ ॥
औषधैर्नैव² सिध्यन्ति रोगा रक्तसमुद्भवाः ।
यतो वेधेन सिध्यन्ति स्निग्धस्विन्नस्य वाजिनः ॥ २ ॥
देहस्य रुधिरं मूलं तदालम्बं हि जीवितम्³ ।
तस्मान्नवाहयेच्छुद्धं दुष्टञ्चैव न धारयेत् ॥ ३ ॥
शरत्काले निदाघे च विकाले⁴ वेधयेच्छिराम् ।
अदुर्द्दिने च वर्षासु शीते मध्यन्दिने तथा ॥ ४ ॥
२। स्निग्धस्विन्नस्येति पूर्वदिने पायितघृतस्य, स्विन्नस्य दत्त-
धूपस्येत्यर्थः ॥
३। देहस्य रुधिरमूलत्वाच्छरदादिषु च पित्तादिप्रकोपेण
रुधिरदोषजननाद्दुष्टादुष्टरक्तज्ञानपुरःसरं शिरावेधविधानमाह । अत्र
नकुलः,—“रक्तदोषात्तदा वाजी प्राप्नोत्येव महामयान् । तस्मात्
सर्वप्रयत्नेन रक्तं ज्ञेयं विचक्षणैः”—इति ॥
१। तूदितं । गः । ३। जीविनाम् । गः ।
२। औषधैश्च । गः । ४। विकाशे ।

१५ अध्यायः ।] शोणितविवरणम्। १५७
शिशिरे च वसन्ते च स्वेदं कृत्वा विचक्षणः।
शीतकाले¹ च मध्याह्ने शिरावेधं प्रयोजयेत् ॥ ५ ॥
शोणितविवरणम्।
शब्दवत्फेनिलं यच्च तद्रक्तं वातजं² स्मृतम् ।
श्यावञ्च नीलकं वापि ज्ञेयं पित्तेन दूषितम् ॥ ६ ॥
सान्द्रञ्च पिच्छिलं पाण्डु श्लैष्मिकं परिकीर्त्तितम् ।
द्विरूपं द्वन्द्वसम्भूतं सङ्कीर्णं सन्निपातजम् ॥ ७ ॥
शशशोणितसङ्काशं यच्च सिन्दूरसन्निभम् ।
तद्विशुद्धं भवेद्रक्तं शिरावेधविनिर्गतम् ॥ ८ ॥
४–५ । शिरावेधकालमाह शरदित्यादि । शरद्ग्रीष्मयोः
विकाले, वर्षासु अमेघाच्छन्नदिनेषु शीतादौ च मध्याह्ने शिरावेधः
कार्य्यः । उक्तञ्च नकुलेन,—“आषाढ़समये प्राप्ते शिरामोक्षञ्च कार-
येत् । तेन संशोध्यते रक्तं वाजिनां दोषसम्भवम्” इत्यादि ॥
६–८ । पित्तादिदूषितरक्तानां लक्षणमाह शब्दवदित्यादि ।
एतदप्रतीकारे दोषं रोगसम्भवञ्चाह नकुलः,—“यदि रक्ताधिको
वाजी शस्यं नाश्नाति कर्हिचित् । रक्तात्संजायते पित्तं ततो नाश-
मवाप्नुयात् ॥ रक्ताधिकश्चाप्तपुटः स्नेहाद्यैः शस्यमत्ति चेत् । संप्राप्य
श्लेष्ममचिराद्भूयो नाशमवाप्नुयात् ॥ तच्चेदं लक्षणं प्रोक्तं रक्तकोपसमुद्भवं ।
धातूनामपि सर्वेषां ज्ञेयं चिह्नं विचक्षणैः ॥ पित्तरक्तप्रकोपेण यदा
१ । समे काले । खः । २ । वातिकं । खः ।

[१५८] अश्ववैद्यके [ १५ अध्यायः ।

शरावशकलं दत्वा शस्त्रवेधमुखे बुधः¹।
कर्पटेन दृढं बद्ध्वा रुधिरं संनिवारयेत् ॥ ६॥
अतिवेगात्² प्रवृत्तन्तु यद्येवं नैव तिष्ठति ।
शिरावेधं तदा प्राज्ञो माषकल्केन लेपयेत् ॥ १० ॥
'महावेगं यदारक्तमनेनापि न तिष्ठति ।
ततः शस्त्रमुखं प्राज्ञो दहेल्लोहशलाकया ॥ ११॥
वेधस्थानकथनम्।
वामे वा दक्षिणे वापि देशे चैवाङ्गुलान्तरे ।
अग्रे वलित्रयं त्यक्त्वा वेद्धव्या तालुकी शिरा ॥ १२ ॥


संपीड्यते हयः । तदा कण्डूतिमासाद्य कर्षते सततं पुनः। छायां
वाञ्छति यत्नेन विशेषेण जलाश्रयम्”—इत्यादि । “पित्तासृग्दूषितो
वाजी यदि चाश्रूणि मुञ्चति । नेत्रान्ते पाण्डुरत्वञ्च सद्यो मृत्युमवा-
प्नुयात् । श्लेष्मरक्तप्रकोपेण यथा संपीड्यते ह

१५ अध्यायः ।] वेधस्थानकथनम् । १५६
शंखजा चैव विस्राव्या अपाङ्गाद्द्यङ्गुलान्तरे¹ ।
अश्रुपातगता चैव त्यङ्गुले चक्षुषोरधः ॥ १३ ॥
कण्ठे बद्ध्वा दृढं प्राज्ञः शिरां विस्रावयेत्ततः ।
नासिकाया अधस्ताच्च द्यङ्गुले प्रोथजां शिराम् ॥ १४ ॥
ऊर्द्धन्तु द्यङ्गुले चापि बाहुसन्धेर्विचक्षणः ।
उरसश्चाधरे² भागे तथा वै चतुरङ्गुले ॥ १५ ॥
ग्रीवामुत्क्षिप्य दूरन्तु उरो निःसार्य्य वाजिनः ।
औरसीं वेधयेद्वैद्यः शिरां संलक्ष्य तत्त्वतः ॥ १६ ॥
किणजाभन्तरे विद्वान् पारकीमुपलक्षयेत् ।
किणाधो द्यङ्गुले तान्तु त्यङ्गुले चापि वेधयेत् ॥ १७ ॥
ऊर्द्धञ्चैवाक्षिकूटात्तु लालाटीं वेधयेत् शिराम् ।
स्तुवजा चैव वेध्या स्याद्द्यङ्गुले स्तुवसन्धितः ॥ १८ ॥
द्यङ्गुले कर्णमूलात्तु³ कर्णजान्ताडयेद्भिषक् ।
१३ । एतत्तु नेत्रशिरावेधनं सर्वविधपटलमुञ्चकादिनेत्ररोगशा-
न्त्यर्थम् ॥
१६ । उरोगतरक्तदोषशान्त्यर्थं औरशीशिरावेधनम् । एवं स्तुव-
मन्येषिकाकूर्चतलकचकोष्ठपृष्ठापाण्ड्युरपुच्छ।दिशोणितजनितपीडा-
शान्त्यर्थं तत्तत्स्थानीयाशिरावेधः क्रमेणोक्तः ॥
१७ । पारकीमिति पाठो न सङ्गच्छते ।
१ । वंशाद्यर्द्धाङ्गुलान्तरे । खः ॥ ३ । कर्णमूलन्तु । गः ।
२ । ह्यावर्त्तादधरे भागे ॥ खः ।

१६० अश्ववैद्यके [१५ अध्यायः ।
वेधव्या चैव मन्या तु ग्रीवामध्यगता शिरा ॥ १८ ॥
ऊर्द्धं कूर्च्चात्तु वेधव्या ईषिका चतुरङ्गुले ।
अङ्गुलैः षट्प्रमाणैस्तु¹ अधस्ताच्चैव जानुनः ॥ २० ॥
षडङ्गुलं खुरादूर्द्धं कूर्च्चां वेधयेच्छिराम् ।
रोमान्त्या² चैव वेधव्या द्यङ्गुले खुरसन्धितः ॥ २१ ॥
मण्डूकाग्रञ्च संशोध्य तलजां वेधयेद्बुधः ।
कक्षजा चैव वेधव्या कक्षात्तश्चतुरङ्गुले ॥ २२ ॥
वामदक्षिणभागेतु नाभिजा³ष्टाङ्गुलान्तरे ।
कोष्ठजां ताड़येद्वैद्यः शिरां शस्त्रेण बुद्धिमान् ॥ २३ ॥
पृष्ठजामासनाभ्यासे द्यङ्गुलेनैव पार्श्वयोः ।
बद्ध्वा कर्पटकं यत्र⁴ शिरां विस्रावयेद्बुधः ॥ २४ ॥
ऊरुसन्धेरधस्तात्तु विसृज्य चतुरङ्गुले ।
ऊरुकाभ्यन्तरे चैव अपाण्डीं वेधयेच्छिराम् ॥ २५ ॥
जङ्घासन्धेरधश्चैव स्थौरिकीं चतुरङ्गुले ।
द्यङ्गुले पुच्छमूलाच्च पुच्छजां ताड़येच्छिराम् ॥ २६ ॥
पश्चात्कायसमुत्थानां शिराणां जानुनोरधः ।
तलजानाञ्च कर्त्तव्यं प्राक् प्रयुक्तञ्च वेधयेत् ॥ २७ ॥
सर्व्वेषां शोणितप्रस्थं गालयेच्छास्त्रकोविदः ।


१ । अङ्गुलैकप्रमाणैः । ख । ३ । नाभितः । खः ।
२ । रोमान्त्यस्यैव वेध्यः स्यात् । खः । ४ । यन्त्रं । गः ।

२१ अध्यायः ।] वेधस्थानकथनम् । १६१
गुरुलाघवदोषेण बहु चैवाल्पमेव च ॥ २८ ॥
वामाङ्गुष्ठेन संपीड्य सिरां शस्त्रेण ताड़येत् ।
श्रान्तं भीतं कृशं वृद्धं बालञ्चैव न वेधयेत् ॥ २६ ॥
प्रदेशे लोमशे नित्यं लोमान्युत्पाट्य१ वेधयेत् ।
प्रमाणार्थञ्च पात्रेण रक्तं गृह्णाति बुद्धिमान् ॥ ३० ॥
तालुशंखहनुप्रोथललाटस्तनकर्णजाः२ ।
कृत्वा यवसमं शस्त्रं शिरा विस्रावयेद्बुधः ॥ ३१ ॥
उरोजां पेचिकाञ्चैव कूर्च्चजां कोष्ठजां तथा ।
अर्द्धाङ्गुलेन शस्त्रेण तलजाञ्चैव ताड़येत् ॥३२॥
औपाण्डीं३ स्थौरिकीं वापि कक्षकोष्ठभवां तथा ।
पूर्व्वोक्तेनैव शस्त्रेण पुच्छजामपि ताड़येत् ॥ ३३ ॥
अङ्गुलं प्रक्षिपेच्छस्त्रं पृष्ठजायां तथैव च ।
बाहुजायाञ्च मन्यायां वेधकाले विचक्षणः ॥३४॥
सूत्रकेण४ च संवेष्ट्य मुखं शस्त्रस्य बुद्धिमान् ।
यथाप्रमाणं संस्थाप्य ततो विस्रावयेत् शिराम् ॥ ३५ ॥
असम्यक् ताड़िते भीते वाहे वा विषमस्थिते ।
क्षीणासृक्-शिशिरे तोयादुत्थिते५ च विशेषतः ॥३६॥
न वहन्ति सिरा ह्येवं तस्मात् कार्य्या६ प्रतिक्रिया ।
१ । उत्कृत्य । खः । ४ । माषकेण च । गः ।
२ । स्तुवकर्णजाः । खः । ५ । तोये दुःस्थिते । गः ।
३ । अपाण्डीं । खः । ६ । कर्म्मणा । खः ।
21

१६२ अश्ववैद्यके [१६ अध्यायः।
हयस्य वमनं नास्ति तथा चैव विरेचनम्।
वमनं रेचनं नास्ति रक्तस्रावणमुत्तमम् ॥ ३७॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे शिरावेधे
पञ्चदशोऽध्यायः।
अथ षोडशोऽध्यायः।
नेत्रनिर्माणविवरणम्।
अथानुवासनविधिस्तथैवास्थापनस्य च।
प्रवक्ष्यामि यथायोगं शास्त्रदृष्टेन वर्त्मना ॥ १॥
काष्ठैर्दण्डैरयोभिश्च शृङ्गवंशनलादिभिः।
द्वादशाङ्गुलदीर्घन्तु परिणाहे षडङ्गुलम् ॥ २ ॥
कोलास्थिमात्राच्छिद्रन्तु कुर्यान्नेत्रं विचक्षणः।
मूलादनुक्रम' श्लक्ष्ण मसृणन्तु विशेषतः ॥ ३ ॥
त्यक्त्वाङ्गुलानि चत्वारि कर्णिकान्तस्य कारयेत् ।
पुटकस्य प्रबन्धाय मूले द्वे चापि कर्णिके ॥ ४ ॥
४। कर्णिकान्तस्य नेत्रपुष्करप्रान्तस्य मूले चत्वारि अङ्गुलानि
त्यक्त्वा पुटकस्याच्छादनस्य प्रबन्धाय बन्धनाय द्वे कर्णिके च कारयेत् ॥
१। अनुक्रमे दच्क्ष्णो मसृणन्तु । गः। २ । यस्थिकान्तस्य । गः।

१६ अध्यायः।] अनुवासनविवरणम्। ४६३
अनेनास्थापनं कुर्यादनुवासनमेव च।
यथायोग्यं१ भिषक् प्राज्ञः सर्व्वरोगोपशान्तये ॥ ५ ॥
अनुवासनविवरणम्।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
भोजयित्वा हयं प्राज्ञो रसस्नेहभोजनैः ॥ ६ ॥
भोजितं भोजनाक्तेन दिनान्ते चानुवासयेत् ।
निरूहयेदनाहारमपराह्णे विचक्षणः ॥ ७॥
त्रिभिर्वारैः प्रदातव्यो निरूहः शास्त्रकोविदैः ।
ईषत्तीक्ष्णः प्रयोक्तव्यः२ प्रथमं पुटकोविदैः३ ॥ ८ ॥
द्वितीयश्च तृतीयश्च तीक्ष्णौ चैव प्रकीर्त्तितौ ।
एवमास्थापिते वाहे निवृत्ते च निरूहणे ॥९॥
क्षीरस्य पुटकं पश्चादेकं दद्याद्विचक्षणः ।
ततो विस्त्रावयेद्वैद्यस्त्वेकवारं तुरङ्गमम् ॥ १० ॥
विस्त्रावितं स्नापयित्वा पायसैर्भोजयेत्ततः४ ।
स्नेहानुवासनं तस्य विकाले५ च प्रदापयेत् ॥ ११ ॥
५। आस्थापनम् आस्थापनवस्तिम् ।
७ भोजनाक्तेन द्रव्येणेति शेषः ।
८। पुटकः। (पिच्किरि)।
१। यथायोगं। खः। ३। पुटको बुधैः। गः।
२। प्रदातव्यः। खः। ४। भोजयेत्पाययेत्ततः। गः।
५। दिकाले। गः।

१६४ अश्ववैद्यके [१६ अध्यायः ।
स्तोका दूर्व्वा क्षुधार्त्ताय तस्यां रात्रौ हिता स्मृता ।
त्र्यहं वापि हितं दृष्टं भोजनं सानुवासनम् ॥ १२ ॥
यथाकालं यथाव्याधि भोजनं संप्रदापयेत् ।
एवं रोगाः प्रशाम्यन्ति वाजिनां देहसम्भवाः ॥ १३ ॥
निरूहविवरणम् ।
पञ्चमूलद्वयं दन्ती कुष्ठञ्चैव शतावरी¹ ।
अनन्ता चिवृता श्यामा बले द्वे च पुनर्णवा ॥ १४ ॥
गुडूची गोक्षुरं विम्बी कुक्कुटैरण्डवासकाः ।
यवाः कुलत्था वदरं तथारग्वधशिग्रुकम् ॥ १५ ॥
एतान्यादाय सर्व्वाणि यथालब्धानि वा पुनः ।
मूलानि सलिले क्षिप्त्वा क्वाथयित्वा विचक्षणः ॥ १६ ॥
पादशेषं कषायेण निरूहं संप्रदापयेत् ।
द्विपञ्चमूलीनिःक्वाथः सः प्रधाने निरूहणे ॥ १७॥
१४-१७। पञ्चमूलद्वयं विल्वादिवशमूलं । अनन्ता (अनन्तमूल)
श्यामा (श्यामालता) चिवृत् (तेउड़ी) बले द्वे दूति श्वेता पीता
च (वेलेड़ा)। विम्बी (तेलाकुचा)। कुक्कुटा (छिपकली)।
एषां पञ्चमूलद्वयादिशिग्रुपन्तानां समस्तानां यथालब्धानां वा द्रव्याणां
मूलानि मिलित्वा दशपलानि चतुराढ़कमिते जले पक्त्वा पादशेषः
क्वाथः कर्त्तव्यः। एतस्याढ़केन कषायेण निरूहयेत्।
१ । पाठा दन्ती चैव शतावरी। खः ।
२। द्विपञ्चमूली निःक्वाथ्य सप्रधाना। खः ।

२६ अध्यायः।] निरूहविवरणम्। १५५
कषायं खरसञ्चैव गोमूत्रं काञ्जिकन्तथा ।
कल्कञ्चैव प्रदातव्यं भेषजैर्व्वक्ष्यमाणकैः ॥ १८ ॥
चिफला मधुकं रास्ना मदनं गौरसर्षपाः ।
एला चिकटुकं कुष्ठं शतपुष्पा हरेणुकम् ॥ १९ ॥
हरिद्रे द्वे समञ्जिष्ठे¹ तथा लवणपञ्चकम् ।
यथाप्राप्तं समस्तं वा वर्गमेतं प्रदापयेत् ॥ २० ॥
कफोल्बणेषु रोगेषु तथा वातोल्बणेषु च ।
निरूहः संप्रदातव्यस्तुरङ्गस्य विपश्चिता ॥ २१ ॥
कषाये कल्कमालोड्य निरूहं संप्रदापयेत् ।
नैवात्यन्ततनुं² धीमान् नैवात्यन्तघनं तथा ॥ २२ ॥
पित्ते निरूहः कर्त्तव्यः क्षीरेणेक्षुरसेन वा ।
सिन्धुसर्पिःसमायुक्तः शर्करामधुसंयुतः ॥ २३ ॥
१८। तुरङ्गानां कफोल्बणेषु वातोल्बणेषु वा रोगेषु एष निरू-
हो देयः । चिफलादीनां समस्तानां यथालब्धानां वा कषायार्थं
दशपलानि कल्कार्थञ्च पलं यथासंख्यं ग्राह्यम् । अथ चतुराढ़के
जले पक्त्वा पादावशिष्टे कषाये उक्तं कल्कं मिश्रयित्वा निरूहो देयः।
एवञ्च खरसगोमूत्रकाञ्जिकानां प्रत्येकमाढ़के प्रत्येकं चिफलादि कल्क-
पलं मिश्रयित्वा निरूहो देयः । एष चतुर्विधो निरूहः ॥
२३। पित्ते निरूहमाह पित्तइत्यादि । इक्षुरसस्य क्षीरस्य वा-
ढ़कं सैन्धवस्य पलं घृतस्य च प्रस्थः । मधुनः शर्करायाश्च पलं पलम् ॥
१ । दे च मञ्जिष्ठा । गः । २ । नैवात्यन्तं ततो । गः ।

१६६ अश्ववैद्यके [१६ अध्यायः ।
चतुर्वर्षस्य वाहस्य गुदे नेत्रं प्रवेशयेत् ।
चतुरङ्गुलं भिषक् प्राज्ञो वाजिशास्त्रविशारदः ॥ २४ ॥
द्वे च¹ द्विवर्षजातस्य त्रिवर्षे चाङ्गुलत्रयम् ।
षाण्मासिके² वर्षजाते एकमेवाङ्गुलं भवेत् ॥ २५ ॥
उदङ्मुखं प्राङ्मुखं वा कृत्वा वाहं सुयन्त्रितम् ।
घृताभ्यक्तेन हस्तेन पुरीषमपकर्षयेत् ॥ २६ ॥
स्वयं³ कृत्वा पुरीषे वा दद्याच्चैवानुवासनम् ।
निरूहश्च प्रदातव्यः पुच्छं नीत्वा प्रदक्षिणम् ॥ २७ ॥
दद्रुशोफकफश्वासग्रहणीकुष्ठरोगिणाम् ।
तृषार्त्तस्य⁴ च गर्भिण्याः कृशवृद्धस्य वाजिनः ॥ २८ ॥
क्षुत्तृष्णाश्रमयुक्तानां मद्यं पीतवतामपि ।
वर्जितो वाजिनां वस्तिस्तथाश्वे व्याधिपीडिते ॥ २९ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे निरूहा-
नुवासने षोडशोऽध्यायः ।
२४-२५। अश्वानां वयोविशेषेण नेत्रप्रवेशननियममाह चतु-
वर्षस्येत्यादि ।
२६-२७। कथं निरूहयेत्तदाह उदङ्मुखमित्यादि ।
२८-२९ । येषां निरूहनिषेधस्तदाह दद्वित्यादि ।
१ । द्वये । गः ।
२ । षण्मासे वर्षजाते च । खः । ३ । स्वायं । खः ।
४ । क्षुधार्त्तस्यचगर्भिण्याः क्रुद्धवृद्धप्रवासिनाम् । खः ।