अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 179, कुल 522 में से
संदर्भ में पढ़ें२१ अध्यायः ।] वेधस्थानकथनम् । १६१
गुरुलाघवदोषेण बहु चैवाल्पमेव च ॥ २८ ॥
वामाङ्गुष्ठेन संपीड्य सिरां शस्त्रेण ताड़येत् ।
श्रान्तं भीतं कृशं वृद्धं बालञ्चैव न वेधयेत् ॥ २६ ॥
प्रदेशे लोमशे नित्यं लोमान्युत्पाट्य१ वेधयेत् ।
प्रमाणार्थञ्च पात्रेण रक्तं गृह्णाति बुद्धिमान् ॥ ३० ॥
तालुशंखहनुप्रोथललाटस्तनकर्णजाः२ ।
कृत्वा यवसमं शस्त्रं शिरा विस्रावयेद्बुधः ॥ ३१ ॥
उरोजां पेचिकाञ्चैव कूर्च्चजां कोष्ठजां तथा ।
अर्द्धाङ्गुलेन शस्त्रेण तलजाञ्चैव ताड़येत् ॥३२॥
औपाण्डीं३ स्थौरिकीं वापि कक्षकोष्ठभवां तथा ।
पूर्व्वोक्तेनैव शस्त्रेण पुच्छजामपि ताड़येत् ॥ ३३ ॥
अङ्गुलं प्रक्षिपेच्छस्त्रं पृष्ठजायां तथैव च ।
बाहुजायाञ्च मन्यायां वेधकाले विचक्षणः ॥३४॥
सूत्रकेण४ च संवेष्ट्य मुखं शस्त्रस्य बुद्धिमान् ।
यथाप्रमाणं संस्थाप्य ततो विस्रावयेत् शिराम् ॥ ३५ ॥
असम्यक् ताड़िते भीते वाहे वा विषमस्थिते ।
क्षीणासृक्-शिशिरे तोयादुत्थिते५ च विशेषतः ॥३६॥
न वहन्ति सिरा ह्येवं तस्मात् कार्य्या६ प्रतिक्रिया ।
१ । उत्कृत्य । खः । ४ । माषकेण च । गः ।
२ । स्तुवकर्णजाः । खः । ५ । तोये दुःस्थिते । गः ।
३ । अपाण्डीं । खः । ६ । कर्म्मणा । खः ।
21