अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 167, कुल 522 में से
संदर्भ में पढ़ें१३ अध्यायः।] ग्रीष्मपोषणविधिः। १४६
स्थानं छायान्वितं शस्तं ग्रीष्मे व्यायामवर्जिते¹
चिःस्नानपानं घासश्च सान्द्रो यश्चापि वारिजः ॥ ७९ ॥
अतीव घर्म्मतप्तानां शारदं कारयेद्विधिम्।
क्षीरयुक्तं शतावर्या मूलं पाने च शस्यते ॥ ८० ॥
दुर्बलानां प्रदातव्यं सार्द्धं माषरसेन तु² ।
यवभक्तं युतं दध्ना वाहानां स्वल्पसैन्धवम् ॥ ८१ ॥
कुक्कुटीमूलकल्कश्च क्षीरेणालोडितस्तथा ।
ग्रीष्मकाले हितो दृष्टो वाजिनां हितकांक्षिभिः ॥ ८२ ॥
७९। नकुलोऽत्र दूर्व्वां ददाति। “ग्रीष्मकाले तु संप्राप्ते दूर्व्वा-
भोज्यं प्रशस्यते। वाजिनामिह सर्वेषां घर्म्मतापोपशान्तये” इति ॥
ग्रीष्मे चिःस्नानपानं स्याच्चिरं तस्यावगाहनम्”। इत्यग्निपुराणम् ॥
घासस्य दश तुलेति अहोरात्रेण यवस्य तुलादशेति ज्ञेयम् ।
८० । शतावर्या मूलकल्कपलं । क्षीरस्य प्रस्थः ॥
८१। अत्र चतुराढकमितस्य यवस्य भक्तं देयम् । “निस्तुषाणां
प्रदातव्या यवानां चतुराढकी” इत्यग्निपुराणम् ॥ अत्र पानं सर्पिः-
प्रभृति । माषरसेनेत्यत्र मांसरसेनेति साधुः ॥
८२ । कुक्कुटीमुलकल्कः शाल्मलीमूलकल्कः ॥
१ । व्यायामवर्जितं । गः ॥ २ । सार्द्धं मांसरसेन तु ।