अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 181, कुल 522 में से
संदर्भ में पढ़ें१६ अध्यायः।] अनुवासनविवरणम्। ४६३
अनेनास्थापनं कुर्यादनुवासनमेव च।
यथायोग्यं१ भिषक् प्राज्ञः सर्व्वरोगोपशान्तये ॥ ५ ॥
अनुवासनविवरणम्।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
भोजयित्वा हयं प्राज्ञो रसस्नेहभोजनैः ॥ ६ ॥
भोजितं भोजनाक्तेन दिनान्ते चानुवासयेत् ।
निरूहयेदनाहारमपराह्णे विचक्षणः ॥ ७॥
त्रिभिर्वारैः प्रदातव्यो निरूहः शास्त्रकोविदैः ।
ईषत्तीक्ष्णः प्रयोक्तव्यः२ प्रथमं पुटकोविदैः३ ॥ ८ ॥
द्वितीयश्च तृतीयश्च तीक्ष्णौ चैव प्रकीर्त्तितौ ।
एवमास्थापिते वाहे निवृत्ते च निरूहणे ॥९॥
क्षीरस्य पुटकं पश्चादेकं दद्याद्विचक्षणः ।
ततो विस्त्रावयेद्वैद्यस्त्वेकवारं तुरङ्गमम् ॥ १० ॥
विस्त्रावितं स्नापयित्वा पायसैर्भोजयेत्ततः४ ।
स्नेहानुवासनं तस्य विकाले५ च प्रदापयेत् ॥ ११ ॥
५। आस्थापनम् आस्थापनवस्तिम् ।
७ भोजनाक्तेन द्रव्येणेति शेषः ।
८। पुटकः। (पिच्किरि)।
१। यथायोगं। खः। ३। पुटको बुधैः। गः।
२। प्रदातव्यः। खः। ४। भोजयेत्पाययेत्ततः। गः।
५। दिकाले। गः।