सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 170, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 170

[ १५२ ]
अथ चतुर्दशोऽध्यायः।
—•:०*०:•—
क्षारदाहविधानम्।
एकस्य वा द्वयोर्वापि समस्तानाम्थापि वा।
रम्भापामार्गभानूनां स्नुहीलाङ्गलिपुष्करान् ॥ १ ॥
दग्ध्वा भस्म समादाय गोमूत्रेण तु गालयेत्¹।
गालितानन्तरं तच्च ताम्रपात्रे निधापयेत् ॥ २॥
१। क्षणनात् क्षरणाद्वा क्षारः। स च शस्त्रादिभ्यः प्रधानतमः
त्रिदोषनाशित्वात्। स च गुणत उष्णस्तीक्ष्णः शोधनः पाचनः विलयनः
रोपणः शोषणो लेखनश्च भवति। स च प्रतिसारणीयत्वात् पानीय-
त्वाच्च द्विविधः। तयोः प्रतिसारणीय एवास्मिन् ग्रन्थे विनियोज्य
इति बोध्यं शोफार्बुदादिदाहार्थम्। भानुः रक्तार्कः। लाङ्गली
(ईषलाङ्गलो)। पुष्करः कुष्ठं (कुड़)। एतेषां भस्मानि द्रोणपरि-
मितानि षड्भिर्गोमूत्रद्रोणैर्गोलयित्वा दोलायन्त्रेण एकविंशतिवारं
परिस्रावयेत्। ततो गालितं क्षारजलं मृदग्निना पाचयित्वा यदा दव्वी-
लेपत्वं गमिष्यति तदा शङ्खादीनां चूर्ण मिलिताष्टपलं प्रक्षिप्य चूर्ण-
तामागतं सिद्धं भवति ॥
१। गोमूत्रेणानुगालयेत्। गः॥