सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

३४ अनङ्गरङ्गः [सप्तमः
अयं कामेश्वरो मन्त्रः कदम्बकुसुमैः सह ।
पलाशकुसुमैर्वाथ⁵⁸ संजप्तो ऽयुतसंख्यतः⁵⁹ ॥२९॥
तथा⁶⁰ दशांशहोमेन सर्वसिद्धिप्रदः⁶¹ स्मृतः ।
अनेन जप्तं⁶² पुष्पादि दत्तं परममोहनम्⁶³ ॥३०॥
॥ अथ चामुण्डामन्त्रः ॥
ॐ चामुण्डे मोहयाथ वशतां⁶⁴ नय चामुकीम् ।
स्वाहापदान्त इत्युक्तश्चामुण्डामन्त्र उत्तमः ॥३१॥
पलाशकुसुमैरेतलक्षं जप्त्वा दशांशतः ।
होमेन वामविधिना सर्वसिद्धिं प्रविन्दति⁶⁵ ॥३२॥
इति मन्त्रेण जप्तानि सप्तधा कुसुमानि च ।
दत्तानि वशगां कुर्युः कामिनीं नात्र⁶⁶ संशयः ॥३३॥
॥ अथ पद्मिनीवशीकरणम् ॥
कामेश्वरपदं पूर्वमोंकाराद्यथ⁶⁷ मोहय ।
स्वाहान्तं क्रमतो मन्त्रं नागवल्लीदले लिखेत् ॥३४॥
पुंष्पेन मधुयुक्तेन रविवारे ऽभिमन्त्रितम्⁶⁸ ।
शतधा दीयमानं तत्पद्मिनीं वशतां नयेत् ॥३५॥
॥ अथ चित्रिणीवशीकरणम् ॥
ओङ्कारद्वितयं प्रोक्तं⁶⁹ विहङ्गमपदद्वयम् ।
कामदेवाय तन्मे च स्वाहेत्यस्त्रं मनोभुवः⁷⁰ ॥३६॥
पिष्ट्वा जातीफलं⁷¹ रम्भामूलतोयेन भावयेत् ।
संशोष्य भानुकिरणैर्नागवल्लीदले⁷² क्षिपेत् ॥३७॥
निमन्त्र्यानेन मन्त्रेण रविवारे प्रदापयेत् ।
एतद्भक्षणमात्रेण चित्रिणी वशगा भवेत्⁷³ ॥३८॥
॥ अथ शङ्खिनीवशीकरणम् ॥
ॐ मोहनश्वोमिति च⁷⁴ स्वाहान्तं च पदद्वयम्⁷⁵ ।

स्थलः ] अनङ्गरङ्गः ३९
अयं महासिद्धिमन्त्रः कीर्तितः पूर्वसूरिभिः⁷⁶ ॥३९॥
मन्त्रेणानेन संजप्तं⁷⁷ मूलं तगरसम्भवम् ।
श्रीफलं चैव⁷⁸ संदद्याच्छङ्खिनीं वशतां नयेत्⁷⁹ ॥४०॥
॥ अथ हस्तिनीवशीकरणम् ॥
ओंकारो थिरियुग्मं ⁸⁰ च कामदेवाय चेत्यथ ।
तस्मै स्वाहेति कथितो मन्त्रः श्रेष्ठो⁸¹ मुनीश्वरैः ॥४१॥
कपोतपिच्छं संपिष्य⁸² मधुनाथ⁸³ निमन्त्रयेत् ।
मन्त्रेणानेन तहानाद्धस्तिनी वशगा भवेत्⁸⁴ ॥४२॥
॥ अथाङ्गरागादिकमुच्यते ॥
संमूर्च्छितानुरागाणां रत्युत्सवविलासिनाम् ।
कामिनां⁸⁵ प्रीतिजनन‌मङ्गरागादिकं ब्रुवे⁸⁶ ॥४३॥
चन्दनोशीरपथ्यार्ति (?) लोध्राम्रत्वक्समुद्भवः⁸⁷ ।
लेपः स्वेदजदौर्गन्ध्यं हरत्याशु विलासिनाम् ॥४४॥
पथ्या निम्बदलं⁸⁸ लोध्रं दाडिमीसप्तपर्णयोः⁸⁹ ।
वल्कलश्च⁹⁰ प्रलेपो ऽयमङ्गदुर्गन्धिनाशनः⁹¹ ॥४५॥
चिञ्चाफलं करञ्जस्य⁹² बीजैरथ⁹³ हरीतकी ।
बिल्वमूलेन कक्षादिदुर्गन्धिहरणं⁹⁴ द्वयम्⁹⁵ ॥४६॥
नागपुष्पागुरुशीरकोल‌मज्जाम्बुचन्दनैः⁹⁶ ।
लिप्ताङ्गो विनिहन्त्याशु⁹⁷ दुर्गन्धं घर्मवारिजम् ॥४७॥
खगं पीलुतरोः⁹⁸ पुष्पं तथा जम्बूफलं⁹⁹ समम् ।
एतद्देहे निदाघेषु लिप्तं घर्माम्बुनाशनम् ॥४८॥
पिचुमन्ददलाम्भोजलोध्रदाडिमवल्कलैः¹⁰⁰ ।
निदाघकाले लिप्ताङ्गो घर्मवारिचयं जयेत् ॥४९॥
शिरीषकेसरोशीरलोध्रैरङ्गविरूक्षणात् ।
तद्रक्षणाच्च घर्माम्बु निदाघे नैव विन्दति ॥५०॥

३६ अनङ्गरङ्गः [सप्तमः
॥ अथ स्नानीयसुगन्धिप्रयोगः ॥
बिल्वपत्रं मरुवकं¹⁰¹ मशोककुसुमानि च ।
क्रमात्पुष्पाणि केतक्याः क्षिप्त्वा तैले निधापयेत्¹⁰² ॥५१॥
आतपे शुष्कपुष्पाणि¹⁰³ ततो निष्कासयेन्नरः ।
महापरिमलं तैलं ख्यातं योग्यं विलासिनाम्¹⁰⁴ ॥५२॥
एलाम्बुदनखस्वर्णमांसीकर्पूरपत्रकैः¹⁰⁵ ।
स्नात्वा सुगन्धं परमं मूर्धजानां प्रविन्दति¹⁰⁶ ॥५३॥
धात्रीस्वर्णघनीशीरपथ्यामांसीविलेपनैः¹⁰⁷ ।
स्नात्वा मासार्धमाधत्ते केशसौरभ्यमुत्तमम्¹⁰⁸ ॥५४॥
॥ अथ [ . . . . . ]न्धिप्रयोगः ॥
चन्दनैलाशटीपत्रशियुपथ्याम्बुतोयदैः ।
साम्यैर्लेप¹⁰⁹ उक्तोऽयं सुगन्धिः¹¹⁰ कामिवल्लभः¹¹¹ ॥५५॥
कर्पूरं कुङ्कुमं लोध्रं स्थौणेयं¹¹² जलमम्बुदः ।
उशीरं च समैरेभिर्लेपः¹¹³ स्यात्सुरभिः परः¹¹⁴ ॥५६॥
पत्राम्बुचन्दनोशीरकृष्णगुरुसमुद्भवः¹¹⁵ ।
लेपः कृतोऽयमङ्गेषु¹¹⁶ सौरभ्यं परमं दिशेत् ॥५७॥
॥ अथ सर्वोत्तमसुगन्धिप्रयोगः ॥
कस्तूरी नागकुसुमं शैलेयं चन्दनं घनः¹¹⁷ ।
श्रीवासः कनकश्चन्द्रो¹¹⁸ जाती स्थौणेयपूतिकम्¹¹⁹ ॥५८॥
सुश्लक्ष्णपिष्टैरेभिस्तु¹²⁰ नागवल्लीदलोद्भवैः ।
रसैर्लेपः सुगन्धो ऽयमुक्तो योग्यो¹²² महीभुजाम्¹²³ ॥५९॥
स्यात्तोयदस्य भागैकं पथ्याभागचतुष्टयम् ।
व्याधिस्थौणेयचन्द्राणां¹²⁴ प्रत्येकं भागयुग्मकम् ॥६०॥
शिलात्मजस्य¹²⁵ पञ्च स्युर्नव भागा नखस्य तु¹²⁶ ।
एभिरुक्तः सुगन्धोऽयं कस्तूरीदलसङ्गकः¹²⁷ ॥६१॥

२. चतुर्थ-षष्ठ स्थल: रति-कौशल, आलिङ्गन, चुम्बन एवं विविध आसन विधान

स्थलः ] अनङ्गरङ्गः ३७
नखपथ्याभयाम्भोद मांसीमांसकरञ्जकाः¹²⁸ ।
समाः ¹²⁹स्वर्णाम्भसोरुक्तं प्रत्येकं भागयुग्मकम् ॥६२॥
कर्पूरागुरुकस्तूरी जातिस्थौणेयकस्य तु¹³⁰ ।
भागत्रिकं स्यात्प्रत्येकं सर्वैरेभिरिहोच्यते ॥६३॥
लेपः¹³¹ सौरभ्यगर्भाख्यः¹³² सर्वलोकमनोरमः ।
भूभुजामेव योग्यो ऽयमन्येषां दुर्लभः स्मृतः ॥६४॥
॥ अथ मुखवासविधिः ॥
त्वक्पत्रैलानखस्वर्णजातिभिः कारयेद्वटीम् ।
ताम्बूलयुक्ता सा भुक्ता¹³³ वक्त्रं सुरभितां नयेत् ॥६५॥
केसरं कोल मज्जा च स्थौणेयं¹³⁴ जातिसस्यकम्¹³⁵ ।
वटिका मधुनेतेषां¹³⁶ कृता¹³⁷ वक्त्रं सुवासयेत् ॥६६॥
मुराकिञ्जल्ककुष्ठानां चूर्णं लीढं हि सन्ध्ययोः¹³⁸ ।
कर्पूरगन्धि¹³⁹ वदनं कुर्यान्मासार्थतो ध्रुवम् ॥६७॥
काम्बोजिवीजकुष्ठोत्थं¹⁴⁰ चूर्णं मधुघृतान्वितम्¹⁴¹ ।
यो लेढि मासं तद्वक्त्रं¹⁴² केतकीगन्धवद्भवेत्¹⁴³ ॥६८॥
आम्रपत्ररसे क्षारं मार्गवृक्षभवं क्षिपेत् ।
संशोष्य भानुकिरणैर्भक्षेत्ताम्बूलमध्यगम्¹⁴⁴ ॥६९॥
प्रातः प्रतिदिनं यस्तु सुगन्धि स्यात्तदाननम्¹⁴⁵ ।
सर्वेषु सुखवासस्य¹⁴⁶ योगेष्वयमनुत्तमः ॥७०॥
इति श्रीलाडखानविनोदाय महाकवि कल्याणमल्लविरचिते
ऽनङ्गरङ्गे वशीकरणादिनिरूपणं नाम
सप्तमः स्थलः ॥ ७ ॥

अथ अष्टमः स्थलः ।

:—:०:—:
॥ अथ विवाहाद्युद्देशः ॥
विद्याशौर्यविवेकधैर्यसहिते¹ शुद्धे स्वधर्मस्थिते²
विख्याते धनधान्यवैभवयुते³ जाता⁴ समाने कुले ।
कन्या दोषविवर्जिता गुणवती सभ्रातृका सुन्दरी
सद्भिः शास्त्रविधानतः स्मरकन्नायोग्या विबाह्या सदा⁵ ॥ १ ॥
॥ अथ कन्याशुभलक्षणानि ॥
नीलाम्भोरुहपत्रकान्तिरथवा स्वर्णप्रभासुन्दरी⁶
भृङ्गीनीलशिरोरुहा शशिमुखी सारङ्गशावेक्षणा ।
स्याद्यस्याश्च तिलप्रसूनसदृशी नासा सुदन्तावली⁷
सुश्रोत्रा पिकभाषिणी च जलजग्रीवाथ बिम्बाधरा⁸ ॥ २ ॥
चक्राद्यङ्कितशोणपाणिचरणा क्षामोदरी स्वल्पभु-
ग्रम्भास्तम्भमनोरमोरुयुगला श्रोण्या बृहत्यान्विता⁹ ।
नाभ्या चैव सुनिम्नया¹⁰ गजगतिः शान्ताल्पनिद्रालसा¹¹
शीलाढ्या सुकुमारिका नरवरैः कन्या विबाह्या सदा¹² ॥ ३ ॥
॥ अथ कन्यादूषणानि ॥
क्रूरा पिङ्गलकेशलोचनवती खर्वातिदीर्घा कृशा
लम्बोष्ठी पृथुकन्धरातिबहुभुक् श्यामाधरा दन्तुरा ।
वाचाला विषमस्तनी द्रुतगतिः शूर्पश्रवाः कोपिनी
रूक्षा पल्लवजिह्विकातिकठिना¹³ सश्मश्रुका¹⁴ लोमशा ॥ ४ ॥
निद्राशोकवती¹⁵ सदाथ चलने यस्याः प्रकम्पोऽवने¹⁶-
र्हास्ये चापि¹⁷ तरङ्गितौ प्रभवतो गण्डौ¹⁸ भृशं चञ्चला¹⁹ ।

स्थलः ] अनङ्गरङ्गः ३९
अङ्गुष्ठादधिका भवेत्तदुपगा पादे तथानामिका
यान्ता नो धरणीं स्पृशेदथ भवेन्मध्या तु हीनाग्रका ॥ ५ ॥
अज्ञाता गिरिपक्षिभूरुहनदीनक्षत्रसंज्ञा च या
प्रौढा रोगसमाकुला च सरलभ्रूवल्लरी निस्त्रपा ।
गण्डौ कूपयुगान्वितौ च दधती हीनाधिकाङ्गी तथा
दुःशीला च विवाहकर्मणि सदा त्याज्याबला पण्डितैः ॥ ६ ॥
॥ अथ जामातृलक्षणानि ॥
विद्याशौर्यधनाश्रयो गुणनिधिः ख्यातो युवा सुन्दरः
साचारः सुकुलोद्भवो मधुरवाग्दाता दयासागरः ।
भोगी भूरिकुटुम्बवान्स्थिरमतिः पापार्तिहीनो बली
जामाता परिवर्णितः कविवरै रेवंविधः सत्तमः ॥ ७ ॥
॥ अथ जामातृदूषणानि ॥
वृद्धो दुर्व्यसनो दयाविरहितो रोगी महापापवान्
षण्ढो दुष्टकुलोद्भवश्च पिशुनो द्यूतेऽतिवृद्धस्पृहः ।
निर्वित्तः कृपणो ऽतिचञ्चलमतिर्नित्यप्रवासी ऋणी
भिक्षुः स्नेहविवर्जितः सुमतिभिः कार्यो वरो नेदृशः ॥ ८ ॥
॥ अथ परस्त्रीगमन निषेधः ॥
आयुःक्षतिर्विकलतात्युपहास्यता च
निन्दार्थहानिलघुते विगतिः परत्र ।
स्यादेव यद्यपि रतेन पराङ्गनायाः
प्राहुस्तथाप्यनघमित्यपि कारणेन ॥ ९ ॥
लङ्केश्वरो जनकजाहरणेन वाली
तारापहारकतयाप्यथ कीचकाख्यः ।
पाञ्चालिकाग्रहणतो निधनं जगाम
तच्चेतसापि परदाररतिं न काङ्क्षेत् ॥ १० ॥

ब्राह्मणवल्लभा⁵³

Wait, let's look at again:
Is it निद्रोच्छेच्छितरतः or निद्रोच्छेदचितरतः?
Wait, look at च्छे:
Could it be निद्रोच्छेच्छितरतः?
Wait, look at the character:
नि द्रो च्छे
Wait, does it have च्छ?
Look at च्छे in line 17: गच्छे⁵⁰-.
Compare च्छे in line 17 with line 4:
In line 17: ग then च्छे.
In line 4: निद्रो then च्छे then च्छितरतः?
Wait! In line 4, the character has:
A च on the left, and a छ on the right.
Then the next character has an i matra on the left, but what is the letter?
Wait! Is it च्छि or दि or वि?
Wait! Look at वि in विषयेष्वथो (line 5):
वि has an i matra and व.
In line 4: could it be च्छि?
Wait, why would it be च्छि?
Look at the bottom of the letter with i matra:

स्थलः ] अनङ्गरङ्गः ४१
बाला प्रव्रजिता च भिक्षुवनिता तक्रस्य विक्रेतृका⁵⁴
मान्या⁵⁵ कारुवधूर्विदग्धपुरुषैः प्रेष्या इमा दूतिकाः⁵⁶ ॥१६॥
॥ अथ सुखसाध्यालक्षणानि ॥
निर्लज्जा विधवा कलासु कुशला, गोष्ठीपरा, दुर्भगा
क्लीबस्थूलकठोरवामनजरद्रूप्यभार्यास्तु याः⁵⁷ ।
द्वारावस्थितिशीलिकातिचपला वन्ध्या महामानिनी⁵⁸
प्रत्यग्रा⁵⁹ तरुणी महाविरहिणीः साध्याः सुखेनाङ्गनाः⁶⁰ ॥१७॥
॥ अथानुरागिणीलक्षणानि ॥
लज्जां विधत्ते⁶¹ ऽभिमुखं⁶² न पश्ये-
त्पादेन भूमिं विलिखेत्स्थिता⁶³ च ।
व्यनक्ति गात्रं कुरुते च हास्यं
दृष्ट्वा⁶⁴ कटाक्षा⁶⁵ नयने विदध्यात् ॥१८॥
पृष्टास्फुटं⁶⁶ सम्मितमेव⁶⁷ वाक्यं
शनैर्वदेच्चानुसरेद्व्रजन्तम्⁶⁸ ।
विलोक्य तं⁶⁹ व्याजकथाप्रसङ्गा-
दुच्चैर्वदेत्स्वं⁷⁰ परिदर्शयन्ती ॥१९॥
तन्मित्रवर्गे प्रणयं विदध्या-
दित्यादिवार्तामसकृच्च पृच्छेत् ।
कति स्त्रियो ऽस्यालयगाः सुरूपाः
कस्यामयं प्रेम भृशं विधत्ते⁷¹ ॥२०॥
मृद्नाति⁷² दृष्ट्वा⁷³ स्वकुचं करेण
संस्फोटयेदङ्गुलिकाः⁷⁴ सजृम्भम् ।
6

४२ अनङ्गरङ्गः [ अष्टमः
भूषाविहीना न ददाति तस्मै
स्वदर्शनं याचितमप्यजस्रम् ॥२१॥
पुष्पादिना हन्ति तथातितारं ⁷⁵
संकासयेन्मार्ष्टि ⁷⁶ भुजं करेण ।
व्याजेन गच्छेत्सदनं कराङ्घ्रि-
चक्रेषु घर्माम्बु वहेद्विलोक्य ⁷⁷ ॥२२॥
इत्यादिचिह्नेरनुरागयुक्तां ⁷⁸
ज्ञात्वा विदग्धां मृगशावकाक्षीम् ।
संप्रैषयेत्तां प्रति निर्विशङ्कं
दूतीमलं ⁷⁹ कामकलाप्रवीणः ⁸⁰ ॥२३॥
॥ अथ दुः[साध्याः] ॥
भर्तृस्नेहवती दृढैकवनिता प्रेम्णा ⁸¹ विहीना भृशं
सेर्ष्या भूरिसुता कृपाभययुता ⁸² गुर्वादिभीता ⁸³ स्थिरा ।
प्रायेणार्थवती तथा परजनालापे विरक्ता सदा
निर्लोभा व्यभिचारकर्मणि बुधैर्दुःखेन साध्या स्मृता ⁸⁴ ॥२४॥
॥ अथ सुरते त्याज्यस्थानानि ⁸⁵ ॥
वह्निब्राह्मणपूज्यवर्गनिकटे नद्यां च देवालये
दुर्गादौ च चतुष्पथे परगृहे ऽरण्ये श्मशाने दिवा ।
सङ्क्रान्तौ शशिसंक्षये ऽथ ⁸⁶ शरदि ग्रीष्मे ज्वरातौं व्रते
सन्ध्यायां च परिश्रमेषु सुरतं कुर्यान्न विद्वान्क्वचित् ॥२५॥
॥ अथ सुरते विहितप्रदेशाः ॥
विस्तीर्णे ललिते ⁸⁷ सुधाधवलिते चित्रादिनालंकृते
रम्ये ⁸⁸ प्रोन्नतचत्वरे ऽगुरुमहाधूपादिपुष्पान्विते ⁸⁹ ।

स्थलः ] अनङ्गरङ्गः ४३
सङ्गीताङ्गविराजिते स्वभवने दीपप्रभाभासुरे
निःशङ्कं सुरतं यथाभिलषितं कुर्यान्नरं कान्तया ॥२६॥
इति श्रीलाडखानविनोदाय महाकवि कल्याणमल्लविरचिते
ऽनङ्गरङ्गे विवाहाद्युपदेशनिरूपणं नाम
अष्टमः स्थलः ॥ ८ ॥

अथ नवमः स्थलः ।
—————
॥ अथ बाह्यसम्भोगविधानम् ॥
मतिमानुपभोगपूर्वकं
सुरतं संविदधीत कान्तया ।
परिरम्भणमेव पण्डितैः
प्रथमं तेषु निगद्यते ऽष्टधा ॥ १ ॥
वृक्षाधिरूढं तिलतण्डुलाख्यं
लालाटिकं जाघनविद्धकं च ।
ऊरूपगूढाह्वयदुग्धनीरे
तत्राष्टमं वल्लिरिवेष्टितं स्यात् ॥ २ ॥
॥ अथ ————— ॥
चरणकमलमेकेनाङ्घ्रिणाक्रम्य भर्तु-
रपरपदसरोजेनाश्रयन्ती तदूरुम् ।
तरुमिव भुजवल्ल्यावेष्ट्य चुम्बेन्नताङ्गी
कथितमिह मुनीन्द्रैस्तद्धि वृक्षाधिरूढम् ॥ ३ ॥
भुजगुह्यविपर्ययं मिथो
घटयेचेन्मिथुनं सुनिश्चलम् ।
तिलतण्डुलसंज्ञकं तदा
परिरम्भं कथयन्ति सूरयः ॥ ४ ॥
मिथो ललाटाक्षिकपोलवक्त्र-
हृद्बाहुवक्षोर्मिथुनं घटेत ।

स्थलः ] अनङ्गरङ्गः ४५
ग्मातिरेकाद्यदि निस्तरङ्गं
लालाटिकं तत्प्रवदन्ति सन्तः ॥ ५ ॥
जघनपरिसरस्थं श्रोणिदेशं स्वभर्तु
र्निजभुजलतािकाभ्यां गाढमालिङ्ग्य रागात् ।
लुलितवसनकेशा चुम्बनं यत्र कुर्या-
त्स्फुटमिह परिरम्भं जाघनं तं वदन्ति ॥ ६ ॥
स्थितं ¹⁰ पतिं मीलितनेत्रयुग्मं
पश्चात्प्रविध्येद्दनिता कुचाभ्याम् ¹¹ ।
गृह्णात्यसौ तामपि विद्धकाख्य- ¹²
मालिङ्गनं तन्मुनिभिः प्रदिष्टम् ॥ ७ ॥
उद्दामकामोन्मथितो ऽङ्गनाया ¹³
ऊरुद्वयं स्वोरुयुगेन यत्र ¹⁴ ।
आपीडयेत्कान्त उदीरितं त-
दूरूपगूढं परिरम्भणं हि ¹⁵ ॥ ८ ॥
अङ्के ऽथ तल्पे ¹⁶ निजसंमुखस्थां
कान्तां ¹⁷ समालिङ्गति यत्र कान्तः ¹⁸ ।
मिथः प्रवेशं कुरुतो निजाङ्गैः
स्यात्क्षीरनीरं परिरम्भणं तत् ¹⁹ ॥ ९ ॥
वल्लीव वृक्षं सरलाङ्गयष्टिः ²⁰
पतिं समालिङ्गति यत्र कान्ता ²¹ ।
चुम्बेच्च ²² रागात्कृतमन्दसीत्का
प्रोक्तं बुधैर्वल्लिरिवेष्टितं तत् ²³ ॥१०॥

४६ अनङ्गरङ्गः [ नवमः
॥ अथ चुम्बनभेदाः ॥
अधराक्षिकपोलमस्तकं
वदनान्तः स्तनयुग्मकन्धरे ।
विहितानि पदानि पण्डितैः
परिरम्भादनु चुम्बनस्य हि २४ ॥ ११ ॥
कक्षायुगं मन्मथमन्दिरं च
नाभेश्च मूलं स्मरलोलचित्ताः ।
चुम्बन्ति लाटा निजदेशसात्म्या-
न्नास्त्यन्यतश्चुम्बनरीतिरेषा २५ ॥ १२ ॥
नारीमुग्धान्ते वदनं स्वकीयं
समानयेद्यत्र बलेन कान्तः ।
सा नैव चुम्बेदतिकोपयुक्ता २६
स्याच्चुम्बनं तन्निमिताभिधानम् २७ ॥ १३ ॥
दयितस्य निवेश्य वक्त्रके
निजवक्त्रं परिचुम्बिताधरम् ।
न पिवेदबला तदाननं
स्फुरिताख्यं २८ किल २९ चुम्बनं तदा । ॥ १४ ॥
करेण कान्तस्य निमील्य नेत्रे
जिह्वां मुखान्तर्विनिधाय यत्र ।
चुम्बेद्विलोला परिमीलिताक्षी
तद्घट्टिताख्यं ३० कवयो वदन्ति ॥ १५ ॥
करेण कान्ताचुबुकं गृहीत्वा
दशेत्पतिः पश्चिमभागवर्ती ।

स्थलः ] अनङ्गरङ्गः ४७
प्रियाधरं यत्र तु³¹ तिर्यगाख्यं
प्रोक्तं कवीन्द्रैः खलु³² चुम्बनं तत् ॥१६॥
दन्तैर्गृहीत्वा मदनार्तिलोला³³-
धरं विचुम्ब्याशु दशेत्स्वभर्तुः ।
कान्तस्तदीयं कथितं मुनीन्द्रै-
रित्युत्तगोष्ठं परिचुम्बनं हि³⁴ ॥१७॥
अदाय दन्तच्छदमाशु पत्युः
कराङ्गुलीसंपुटकेन नारी ।
जिह्वाग्रदेशेन घटेद्दशेच्च³⁵
तच्चुम्बनं पीडितसंज्ञकं³⁶ स्यात् ॥१८॥
प्रियाधरं³⁷ स्वाधरसंपुटेन
पिवेत्पतिः सापि तथैव भर्तुः ।
परस्परं प्रेमरसातिरेका-
त्स्याच्चुम्बनं संपुटकं³⁸ तदेव ॥१९॥
संप्राप्तनिद्रां रहसि स्वकान्तां
चिरागतश्चुम्बति यत्र भर्ता ।
प्रोक्तं कवीन्द्रैः प्रतिबोधसंज्ञं
तच्चुम्बनं सर्वरसातिरेकम् ॥२०॥
अधरोष्ठयुगेन कामिनी
पतिवक्त्रोष्ठयुगं स्वजिह्वया ।
परिपीड्य विचुम्ब्य नृत्यति
कथितं³⁹ तद्धि समोष्ठसन्तकम् ॥२१॥

४८ अनङ्गरङ्गः [ नवमः
॥ अथ नखदानविधिः ॥
ग्रीवाकरोरुजघनस्तनपृष्ठकक्षा⁴⁰-
हृत्पार्श्वगण्डविषये नखराः खराः स्युः ।
माने नवीनसुरते विरहे प्रवासे,
द्रव्यक्षयेऽथ⁴¹ विरतौ च मदे प्रयोज्याः ॥२२॥
नीरेखता निर्मलतोज्ज्वलत्वं
वर्धिष्णुताथास्फुटितत्वमेव⁴² ।
अमार्दवं⁴³ चेति गुणानखानां
बुधैः षडुक्ताः किल कामशास्त्रे⁴⁴। ॥२३॥
अव्यक्तरेखं कृतरोमहर्षं
समर्पितं गण्डकुचाधरेषु⁴⁵ ।
यत्कर्म सम्पूर्णनखप्रसूतं⁴⁶
विज्ञास्तदेव⁴⁷ च्छुरितं वदन्ति ॥२४॥
ग्रीवाकुचे वक्रनखप्रहारो
दत्तो ऽर्धचन्द्राख्य उदीरितो ऽसौ ।
इत्येव भेदो ऽभिमुखे प्रयोज्य⁴⁸-
स्तदा बुधा मण्डलकं वदन्ति⁴⁹ ॥२५॥
द्वित्र्यङ्गुलादधिक⁵⁰ एव नखप्रहारो
मूर्धोरुगुह्यकुचदेशसमर्पितो यः ।
रेखाह्वयं⁵¹ मदनकेलिकलाविधिज्ञाः
प्राहुस्तमेव⁵³ तरुणीविहितप्रभावाः⁵⁴ ॥२६॥
रेखा कृता सर्वनखैरधस्ता-
दङ्गुष्ठमाधाय⁵⁵ तु चूचुके या ।

स्थलः ] अनङ्गरङ्गः ४९
मयूरपादं किल तां ⁵⁶ वदन्ति
शशप्लुतं सर्वनखैः कुचाग्रे ॥२७॥
रेखात्रयं पृष्ठकुचेऽथ गुह्ये
कृतं ⁵⁷ भवेदुत्पलपत्रवद्यत् ।
अन्वर्थसंज्ञं प्रवदन्ति तद्धि ⁵⁸
स्मर्तुं प्रवासावसरे दिशन्ति ॥२८॥
नखं प्रयुक्तं प्रणयाद्रसज्ञै-
र्यदेतदेवास्ति मनोभवस्य ।
सर्वस्वमत्यन्तसुखैकहेतु ⁵⁰-
र्नार्तो ऽस्ति किञ्चिद्वरकामिनीनाम् ॥२९॥
॥ अथ दशनविधानम् ॥
नखप्रदेशेषु रदाः प्रयोज्या
ओष्ठाननान्तर्नयनानि ⁵⁹ हित्वा ।
हिंकारशीत्कारविशेष ⁶⁰ उक्तो
दन्तार्पणे कामकलाविदग्धैः ⁶¹ ॥३०॥
रागस्पृशः स्निग्धतराः समाना
घनाश्च सूक्ष्माः सशिखाः सभासः ।
दन्ताः ⁶² प्रशस्ता अथ खर्वरूक्षाः
करालबाह्या मलिनाश्चनिन्द्याः ॥३१॥
अधरस्थितरागमात्रकं ⁶³
रदलेख्यं ⁶⁴ किल गूढकं विदुः ।
दशनच्छदगण्डपीडना-
दिदमुच्छूनकमुच्यते बुधैः ॥३२॥
7

५० अनङ्गरङ्गः [ नवमः
दन्तोष्ठयार्योगविशेषसाध्यः
प्रवालपूर्वो मणिरेष उक्तः।
अभ्यासयोगेन स⁶⁵ दम्पतिभ्यां
संसाध्यते नान्यविनोदतस्तु ॥३३॥
अधरे तिलशश्च⁶⁶ कामिना⁶⁷
रदयुग्मेन विखण्डने कृते ।
इति बिन्दुरुदीरितोऽखिलै-
र्दशनैः स्यात्किल बिन्दुमालकः⁶⁸ ॥३४॥
कपोलवक्षोगलभालदेशे
खण्डाभ्रकं⁶⁹ स्याद्दशनाग्रलेख्यम् ।
तन्मण्डलाकारकमङ्गनाना-
मङ्गेषु शोभां लभते नितान्तम् ॥३५॥
अखर्वसान्द्रा दशनावली या
कान्ताशरीरे क्रियते स्वभर्त्रा ।
प्रस्थानकाले स्मृतिहेतुभूता⁷⁰
तत्कोलचर्वं⁷¹ प्रवदन्ति विप्राः⁷² ॥३६॥
॥ अथ केशग्रहणोद्देशः ॥
स्निग्धा घनाः कुञ्चितनीलवर्णाः
केशाः प्रशस्तास्तरुणीजनानाम् ।
प्रेमप्रवृद्ध्यै⁷³ विधिनैव षन्दं⁷⁴
ग्राह्यानरैश्चुम्बनदानकाले⁷⁵ ॥३७॥
चिकुरान्वरिगृह्य⁷⁶ चुम्बते⁷⁷
करयुग्मेन पतिः प्रियां यदि ।

स्थलः ] अनङ्गरङ्गः ५१
समहस्तकमित्यथैकतो
यदि हस्तेन तरङ्गरङ्ककम्‌⁷⁸ ॥३८॥
परिवेष्ट्य करेण कुन्तला-
न्मदनार्तो यदि धारयेत्प्रियाम् ।
रतिकेलिकलापकोविदाः
कथयन्तीति भुजङ्गवल्लिकम्‌⁷⁹ ॥३९॥
कर्णप्रदेश⁸⁰स्थकचान्विगृह्य⁸¹
परस्परं चुम्बति यत्र नारी ।
पतिश्च रागात्सुरतावतारे
कामावतंसः स कचग्रहः स्यात् ॥४०॥
इति प्रदिष्टाः⁸³ कतिचित्प्रसिद्धाः
क्रमान्मया⁸⁴ बाह्यरतप्रकाराः⁸⁵ ।
प्रसिद्धभावाद्बहुशो ऽपरे ते
न दर्शिता विस्तरशङ्कया च⁸⁷ ॥४१॥
इति श्रीलाडखानविनोदाय महाकवि -- --चिते
ऽनङ्गरङ्गे बाह्यसम्भोगनिरूपणं नाम
नवमः स्थलः ॥ ९ ॥

अथ दशमः स्थलः ।
॥ अथ सुरतभेदा निरूप्यन्ते ॥
सात्म्यानुरूपान्प्रविधाय¹ पूर्व
विज्ञः पुमान्बाह्यरतोपचारान्² ।
विधिश्लथीभूतवराङ्गदेशां³
भजेत कान्तां रतिकेलिलिङ्गे ॥ १ ॥
दृढापि नारी श्लथतामुपैति
प्रमाणादूरुयुगस्य सद्यः⁴ ।
अपि श्लथा⁵ संयमितोरुयुग्मा
गच्छेदृढत्वं सुरतप्रयोगे ॥ २ ॥
उत्तानकं तिर्यगथासिताख्यं
स्थितं तथैवानतकं रतज्ञैः⁶ ।
पञ्चप्रकारं सुरतं प्रदिष्टं
तस्य प्रभेदान्क्रमतो ब्रवीमि⁷ ॥ ३ ॥
॥ तत्रादावुत्तानबन्धः ॥
निधाय पादौ रमणांसयोश्चे-
दुत्तानसुप्ता रमते पुरन्ध्री ।
रतिप्रबन्धे समपादसंज्ञं
प्रोचुस्तदा भोगविधानदक्षाः⁸ ॥ ४ ॥
उत्तानितायाः स्मरमन्दिरोप⁹-
स्थितस्तदूरुद्वयमुत्प्रगृह्य¹⁰ ।

स्थलः ] अनङ्गरङ्गः ५३
संस्थाप्य बाह्यं कटितो रमेत
कान्तस्तदा स्यात्किल नागराख्यः ॥ ५ ॥
स्त्रियो ऽङ्घ्रिमेकं विनिधाय भूमा-
वन्यं स्वमौलौ निजपादयुग्मम्¹² ।
पृथ्व्यां ¹³ समाधाय रमेत भर्ता
त्रैविक्रमाख्यं करणं तदा¹⁴ स्यात् ॥ ६ ॥
तल्पप्रसुप्ता निजपादयुग्म¹⁵
मूर्ध्वं विधत्ते रमणी कराभ्याम् ।
स्तनौ गृहीत्वाथ भजेत कान्तो
बन्धस्तदा व्योमपदाख्य उक्तः ॥ ७ ॥
कान्तोरुयुग्मान्तरगः स्वहस्तौ
निधाय भूमौ रमते पतिश्चेत् ।
बन्धस्तदोक्तः स्मरचक्रनामा¹⁶
श्रेष्ठः¹⁷ सदा कामिजनस्य लोके ॥ ८ ॥
नारी स्वपादौ दयितस्य वक्षः-
स्थितौ समालिङ्ग्य करद्वयेन ।
किञ्चिन्नतोरू¹⁸ रमते तदासौ
प्रोक्तो मुनीन्द्रैर्विदारिताख्यः¹⁹ ॥ ९ ॥
उत्तानितोरुद्वयमध्यगामी
दृढं समालिङ्ग्य भजेत यत्र ।
कान्तो²⁰ विलासप्रिय एष बन्धः
सौम्याख्य उक्तः कविभिः पुराणैः ॥ १०॥
ऊरुद्वयं²¹ वक्रमुदञ्चितं च
कृत्वाम्बुजाक्षी भजते²² पतिं चेत् ।