सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 53, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 53

स्थलः ] अनङ्गरङ्गः ४१
बाला प्रव्रजिता च भिक्षुवनिता तक्रस्य विक्रेतृका⁵⁴
मान्या⁵⁵ कारुवधूर्विदग्धपुरुषैः प्रेष्या इमा दूतिकाः⁵⁶ ॥१६॥
॥ अथ सुखसाध्यालक्षणानि ॥
निर्लज्जा विधवा कलासु कुशला, गोष्ठीपरा, दुर्भगा
क्लीबस्थूलकठोरवामनजरद्रूप्यभार्यास्तु याः⁵⁷ ।
द्वारावस्थितिशीलिकातिचपला वन्ध्या महामानिनी⁵⁸
प्रत्यग्रा⁵⁹ तरुणी महाविरहिणीः साध्याः सुखेनाङ्गनाः⁶⁰ ॥१७॥
॥ अथानुरागिणीलक्षणानि ॥
लज्जां विधत्ते⁶¹ ऽभिमुखं⁶² न पश्ये-
त्पादेन भूमिं विलिखेत्स्थिता⁶³ च ।
व्यनक्ति गात्रं कुरुते च हास्यं
दृष्ट्वा⁶⁴ कटाक्षा⁶⁵ नयने विदध्यात् ॥१८॥
पृष्टास्फुटं⁶⁶ सम्मितमेव⁶⁷ वाक्यं
शनैर्वदेच्चानुसरेद्व्रजन्तम्⁶⁸ ।
विलोक्य तं⁶⁹ व्याजकथाप्रसङ्गा-
दुच्चैर्वदेत्स्वं⁷⁰ परिदर्शयन्ती ॥१९॥
तन्मित्रवर्गे प्रणयं विदध्या-
दित्यादिवार्तामसकृच्च पृच्छेत् ।
कति स्त्रियो ऽस्यालयगाः सुरूपाः
कस्यामयं प्रेम भृशं विधत्ते⁷¹ ॥२०॥
मृद्नाति⁷² दृष्ट्वा⁷³ स्वकुचं करेण
संस्फोटयेदङ्गुलिकाः⁷⁴ सजृम्भम् ।
6