सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 57, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 57

स्थलः ] अनङ्गरङ्गः ४५
ग्मातिरेकाद्यदि निस्तरङ्गं
लालाटिकं तत्प्रवदन्ति सन्तः ॥ ५ ॥
जघनपरिसरस्थं श्रोणिदेशं स्वभर्तु
र्निजभुजलतािकाभ्यां गाढमालिङ्ग्य रागात् ।
लुलितवसनकेशा चुम्बनं यत्र कुर्या-
त्स्फुटमिह परिरम्भं जाघनं तं वदन्ति ॥ ६ ॥
स्थितं ¹⁰ पतिं मीलितनेत्रयुग्मं
पश्चात्प्रविध्येद्दनिता कुचाभ्याम् ¹¹ ।
गृह्णात्यसौ तामपि विद्धकाख्य- ¹²
मालिङ्गनं तन्मुनिभिः प्रदिष्टम् ॥ ७ ॥
उद्दामकामोन्मथितो ऽङ्गनाया ¹³
ऊरुद्वयं स्वोरुयुगेन यत्र ¹⁴ ।
आपीडयेत्कान्त उदीरितं त-
दूरूपगूढं परिरम्भणं हि ¹⁵ ॥ ८ ॥
अङ्के ऽथ तल्पे ¹⁶ निजसंमुखस्थां
कान्तां ¹⁷ समालिङ्गति यत्र कान्तः ¹⁸ ।
मिथः प्रवेशं कुरुतो निजाङ्गैः
स्यात्क्षीरनीरं परिरम्भणं तत् ¹⁹ ॥ ९ ॥
वल्लीव वृक्षं सरलाङ्गयष्टिः ²⁰
पतिं समालिङ्गति यत्र कान्ता ²¹ ।
चुम्बेच्च ²² रागात्कृतमन्दसीत्का
प्रोक्तं बुधैर्वल्लिरिवेष्टितं तत् ²³ ॥१०॥