सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 48, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 48

३६ अनङ्गरङ्गः [सप्तमः
॥ अथ स्नानीयसुगन्धिप्रयोगः ॥
बिल्वपत्रं मरुवकं¹⁰¹ मशोककुसुमानि च ।
क्रमात्पुष्पाणि केतक्याः क्षिप्त्वा तैले निधापयेत्¹⁰² ॥५१॥
आतपे शुष्कपुष्पाणि¹⁰³ ततो निष्कासयेन्नरः ।
महापरिमलं तैलं ख्यातं योग्यं विलासिनाम्¹⁰⁴ ॥५२॥
एलाम्बुदनखस्वर्णमांसीकर्पूरपत्रकैः¹⁰⁵ ।
स्नात्वा सुगन्धं परमं मूर्धजानां प्रविन्दति¹⁰⁶ ॥५३॥
धात्रीस्वर्णघनीशीरपथ्यामांसीविलेपनैः¹⁰⁷ ।
स्नात्वा मासार्धमाधत्ते केशसौरभ्यमुत्तमम्¹⁰⁸ ॥५४॥
॥ अथ [ . . . . . ]न्धिप्रयोगः ॥
चन्दनैलाशटीपत्रशियुपथ्याम्बुतोयदैः ।
साम्यैर्लेप¹⁰⁹ उक्तोऽयं सुगन्धिः¹¹⁰ कामिवल्लभः¹¹¹ ॥५५॥
कर्पूरं कुङ्कुमं लोध्रं स्थौणेयं¹¹² जलमम्बुदः ।
उशीरं च समैरेभिर्लेपः¹¹³ स्यात्सुरभिः परः¹¹⁴ ॥५६॥
पत्राम्बुचन्दनोशीरकृष्णगुरुसमुद्भवः¹¹⁵ ।
लेपः कृतोऽयमङ्गेषु¹¹⁶ सौरभ्यं परमं दिशेत् ॥५७॥
॥ अथ सर्वोत्तमसुगन्धिप्रयोगः ॥
कस्तूरी नागकुसुमं शैलेयं चन्दनं घनः¹¹⁷ ।
श्रीवासः कनकश्चन्द्रो¹¹⁸ जाती स्थौणेयपूतिकम्¹¹⁹ ॥५८॥
सुश्लक्ष्णपिष्टैरेभिस्तु¹²⁰ नागवल्लीदलोद्भवैः ।
रसैर्लेपः सुगन्धो ऽयमुक्तो योग्यो¹²² महीभुजाम्¹²³ ॥५९॥
स्यात्तोयदस्य भागैकं पथ्याभागचतुष्टयम् ।
व्याधिस्थौणेयचन्द्राणां¹²⁴ प्रत्येकं भागयुग्मकम् ॥६०॥
शिलात्मजस्य¹²⁵ पञ्च स्युर्नव भागा नखस्य तु¹²⁶ ।
एभिरुक्तः सुगन्धोऽयं कस्तूरीदलसङ्गकः¹²⁷ ॥६१॥