सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 64, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 64

अथ दशमः स्थलः ।
॥ अथ सुरतभेदा निरूप्यन्ते ॥
सात्म्यानुरूपान्प्रविधाय¹ पूर्व
विज्ञः पुमान्बाह्यरतोपचारान्² ।
विधिश्लथीभूतवराङ्गदेशां³
भजेत कान्तां रतिकेलिलिङ्गे ॥ १ ॥
दृढापि नारी श्लथतामुपैति
प्रमाणादूरुयुगस्य सद्यः⁴ ।
अपि श्लथा⁵ संयमितोरुयुग्मा
गच्छेदृढत्वं सुरतप्रयोगे ॥ २ ॥
उत्तानकं तिर्यगथासिताख्यं
स्थितं तथैवानतकं रतज्ञैः⁶ ।
पञ्चप्रकारं सुरतं प्रदिष्टं
तस्य प्रभेदान्क्रमतो ब्रवीमि⁷ ॥ ३ ॥
॥ तत्रादावुत्तानबन्धः ॥
निधाय पादौ रमणांसयोश्चे-
दुत्तानसुप्ता रमते पुरन्ध्री ।
रतिप्रबन्धे समपादसंज्ञं
प्रोचुस्तदा भोगविधानदक्षाः⁸ ॥ ४ ॥
उत्तानितायाः स्मरमन्दिरोप⁹-
स्थितस्तदूरुद्वयमुत्प्रगृह्य¹⁰ ।