सामग्री पर जाएँ
सर्वकोश
अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

पृष्ठ 58, कुल 112 में से

संदर्भ में पढ़ें
पृष्ठ 58

४६ अनङ्गरङ्गः [ नवमः
॥ अथ चुम्बनभेदाः ॥
अधराक्षिकपोलमस्तकं
वदनान्तः स्तनयुग्मकन्धरे ।
विहितानि पदानि पण्डितैः
परिरम्भादनु चुम्बनस्य हि २४ ॥ ११ ॥
कक्षायुगं मन्मथमन्दिरं च
नाभेश्च मूलं स्मरलोलचित्ताः ।
चुम्बन्ति लाटा निजदेशसात्म्या-
न्नास्त्यन्यतश्चुम्बनरीतिरेषा २५ ॥ १२ ॥
नारीमुग्धान्ते वदनं स्वकीयं
समानयेद्यत्र बलेन कान्तः ।
सा नैव चुम्बेदतिकोपयुक्ता २६
स्याच्चुम्बनं तन्निमिताभिधानम् २७ ॥ १३ ॥
दयितस्य निवेश्य वक्त्रके
निजवक्त्रं परिचुम्बिताधरम् ।
न पिवेदबला तदाननं
स्फुरिताख्यं २८ किल २९ चुम्बनं तदा । ॥ १४ ॥
करेण कान्तस्य निमील्य नेत्रे
जिह्वां मुखान्तर्विनिधाय यत्र ।
चुम्बेद्विलोला परिमीलिताक्षी
तद्घट्टिताख्यं ३० कवयो वदन्ति ॥ १५ ॥
करेण कान्ताचुबुकं गृहीत्वा
दशेत्पतिः पश्चिमभागवर्ती ।