अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
प्राधान्यादसौ सूत्र उक्ता, अन्येऽपि तु समुदायः । कथमिदं प्रत्येतव्यम् ?
अन्यत्रान्यस्यापि वचनात् । उक्तं हि भगवता—
“कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराये" इति ।
पुनश्चोक्तम्— “पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधि-
वचनम् । पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनम्” इति । तस्मा-
दाभिप्रायिकः सूत्रेषु निर्देशः । लाक्षणिकस्त्वभिधर्मे ।
अपि त्वभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता । उपपत्त्यभिनिर्वृत्त-
हेतुं सहेतुकं ब्रुवता गाथायां कर्म च तृष्णा चाविद्योक्ता । “कर्महेतुरुपपत्तये,
प्रथमे वा कोशस्थाने “दुःखं समुदयो लोकः” (अभि० को० १.८) इति
वचनात् । सूत्रे हि तृष्णैवोक्तेति । समुदयसत्यं कतमत् ? यासौ तृष्णा
नन्दीरागसहगता तत्र तत्राभिनन्दिनीति । वैभाषिक आह—प्राधान्यादिति ।
अन्यत्रान्यस्यापि वचनात् । अन्यत्र सूत्रे अन्यस्यापि कर्माविद्यादेर्वचनादन्येऽपि
समुदय इति ।
अभिसम्पराये । आयत्यां परलोक इत्यर्थः ।
पुनश्चोक्तम् । अन्यत्र सूत्रे— “यतश्च भिक्षवः पञ्च बीजजातान्यखण्डानि
अच्छिद्राणि अपूतीनि अवातातपहतानि नवानि साराणि सुशशयितानि ।-
पृथिवीधातुश्च भवत्यब्धातुश्च । एवं तानि बीजानि वृद्धिं विरूढिं विपुलतामा-
पद्यन्ते । इति हि भिक्षव उपमेयं कृत। यावदेवाभ्यार्थस्य विज्ञप्तयः” इतीमं
दृष्टान्तमुपन्यस्येदमुक्तम्—“पञ्च बीजजातानीति भिक्षवः सोपादानस्य विज्ञान-
स्यैतदधिवचनम् । पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनम्”
इति । बीजं पुनर्हेतुः । यश्च हेतुः स समुदयः । विज्ञानस्थितोऽपि प्रतिष्ठा-
हेतुः । तस्मादिति । यतः कर्मादीनामपि हेतुत्ववचनात् समुदयसत्यत्वं सिद्धम्,
तस्मादाभिप्रायिकः । अभिप्राये भवः, अभिप्रायेण वा दीव्यतीत्याभिप्रायिकः
सूत्रे निर्देशः । तृष्णाधिकृतं पुद्गलमधिकृत्य कृत इत्यभिप्रायः । लाक्षणिक-
स्त्वभिधर्मे । लक्षणे भवो लाक्षणिको निर्देशोऽभिधर्मे; 'सर्वं सास्रवं वस्तु
समुदयः' इति सास्रवस्य स्कन्धपञ्चकस्य समुदयसत्यत्वलक्षणयोगात् ।
स एव वैभाषिकस्तृष्णादीनामाभिप्रायिकं समुदयसत्यत्वं विवक्षुराह —
अपि त्विति विस्तरेण । अभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता सूत्रे ।
उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रुवता यावत् कर्म च तृष्णा चाविद्या चोक्ता ।
८८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
तृष्णाहेतुरभिनिर्वृत्तये" इति सूत्रात्¹। सहेतुसप्रत्ययसनिदानसूत्रे क्रमेण वा
बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयोऽप्युक्ताः।
का पुनरुपपत्तिः ? का चाभिनिर्वृत्तिः ? धातुगतियोन्यादिप्रकारभेदेनात्म-
भावस्योपपादनमुपपत्तिः। अभेदेन पुनर्भवप्रतिसन्धानमभिनिर्वृत्तिः। तयोर्यथाक्रमं
कर्म च भवतृष्णा च हेतुः। तद्यथा—बीजं शालियवादिजातिकारभेदेनाङ्कुरोप-
उपपत्तिहेतुः कर्म। अभिनिर्वृत्तिहेतुस्तृष्णा भवेषु। तयोः पुनस्तद्धेत्वोः
कर्मतृष्णयोरविद्या हेतुरित्याह। कथमेतद्गम्यते—गाथायामुपपत्तिहेतुः कर्मा-
भिनिर्वृत्तिहेतुस्तृष्णेति ? कर्म हेतुरुपपत्तये तृष्णा हेतुरभिनिर्वृत्तय इति सूत्रात्।
सूत्रान्तरे वचनादिति। सहेतुसप्रत्यय इति विस्तरः। अत्र सूत्रे क्रमेण वा।
कारणपरम्पराक्रमणेन वा। गाथायामेष निर्देशः। कर्मतृष्णाविद्यासंस्काराणां
चक्षुरादीनां हेतुरभिसम्पराय इति। तदेतदुक्तं भवति—कर्म हेतुरुपपत्तय इति।
अतो वा सूत्रात्, सहेतुसप्रत्ययकर्मसूत्राद्वा अयमीदृशः गाथार्थ इति।
“कथं चक्षुर्भिक्षवः सहेतु सप्रत्ययं सनिदानम् ? कश्च भिक्षवः चक्षुषो हेतुः ?
कः प्रत्ययः ? किं निदानम् ? चक्षुषो भिक्षवः कर्म हेतुः, कर्म प्रत्ययः, कर्म
निदानम्। कर्मापि भिक्षवः सहेतु सप्रत्ययं सनिदानम्। कश्च भिक्षवः कर्मणो
हेतुः ? कः प्रत्ययः ? किं निदानम् ? कर्मणो भिक्षवस्तृष्णा हेतुः, तृष्णा प्रत्ययः,
तृष्णा निदानम्। तृष्णा भिक्षवः सहेतुका सप्रत्यया सनिदाना। कश्च भिक्ष-
वस्तृष्णाया हेतुः ? कः प्रत्ययः ? किं निदानम् ? तृष्णाया भिक्षवोऽविद्या
हेतुः, अविद्या प्रत्ययः, अविद्या निदानम्। अविद्यापि भिक्षवः सहेतुका
सप्रत्यया स निदाना। कश्च भिक्षवोऽविद्याया हेतुः ? कः प्रत्ययः ? किं
निदानम् ? अविद्याया भिक्षव अयोनिशोमनस्कारो हेतुः, अयोनिशोमनस्कारः
प्रत्ययः, अयोनिशोमनस्कारो निदानम्” ( ) इति। बीजक्षेत्रभावनं प्रतिपाद-
यता विज्ञानादयोऽप्युक्ताः। विज्ञानं बीजम्। तस्य क्षेत्रं वेदनादयः स्कन्धाः।
तेऽप्युक्ताः समुदयसत्यम्। न केवलं तृष्णादय इत्याभिप्रायिकः सूत्रे निर्देश
इति साधितम्। सर्वस्य च दुःखस्य लाक्षणिकः समुदायभाव इति।
योन्यादिप्रकारभेदेनेति। आदिशब्देन जातिस्त्रीपुरुषादिप्रकारभेदेनेति गृह्यते।
अभेदेनेति। धातुगतियोन्यादीनाम्। तयोर्यथाक्रममिति। उपपत्तेः कर्म हेतु-
रभिनिर्वृत्तेस्तृष्णेति। तद्यथा बीजमिति विस्तरः। शालिबीजं शाल्यङ्कुरोप-
१. सूत्रे वचनात्—का०।
निर्देशः ] षष्ठं कोशस्थानम् ८८९
पादनस्य हेतुः । आपः पुनरभेदेन सर्वाङ्कुरप्ररोहमात्रस्य—इत्येव दृष्टान्तः ।
तृष्णा अभिनिर्वृत्तिहेतुरिति कात्र युक्तिः ? १. वीततृष्णस्य जन्माभावात् ।
उभयेऽपि म्रियन्ते सतृष्णा वीततृष्णाश्च। सतृष्णा एव जाता दृश्यन्ते, न वीततृष्णा
इति; विना तृष्णया जन्माभावात् । भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः ।
२. सन्ततिनामनाच्च १। यत्र च सतृष्णा चित्तसन्ततिः २ तत्राभीक्ष्णं चित्तसन्ततिं
नमन्तीं पश्यामः । तस्मात् पुनर्भवेऽप्येवमिति व्यवस्यामः । न चात्मभाव एवं
केनचिदागृहीतो यथा तृष्णया । शुष्कमसूरोपनानलेपाङ्गवत् । न चान्यो
हेतुरेवमनुषक्तो यथात्मस्नेह इत्येषा युक्तिः ॥ ३ ॥
चत्वार्यपि सत्यान्युक्तानि भगवता, द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं
च । तयोः किं लक्षणम् ?
यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् ।
घटाम्बुवत् ३ संवृतिसत्, परमार्थसदन्यथा ॥ ४ ॥
पादनस्य हेतुः, यवबीजं यवाङ्कुरोत्पादनस्येत्यादि । आपः पुनरभेदेन । यथा
शाल्यङ्कुरप्ररोहस्य हेतुः । एवं यवाङ्कुरस्यापीत्यादि । अतस्ताः सर्वाङ्कुरप्ररोह-
मात्रस्य हेतुरिति । विना तृष्णया जन्माभावादिति । अत्र साधनम्—'हेतुर्जन्म-
नस्तृष्णा ; तद्भावाभावभाव्यभावित्वात् । तद्यथा बीजमङ्कुरस्य' । सन्ततिनाम-
नाच्चेति । अस्यार्थं विवृण्वन्नाह—यत्र च सतृष्णेति विस्तरः । यत्र विषये रूपादी
सतृष्णा । का ? चित्तसन्ततिः । तत्राभीक्ष्णं चित्तसन्तति नमन्तीं पश्यामः ।
तस्मात् पुनर्भवेऽप्येवमिति । पुनर्भवेऽप्येवं सतृष्णा चित्तसन्ततिः, तस्मात्
तन्नमतीति । यत्र च नमति तत्र च प्रवर्तत इति व्यवस्यामः । साधनं चात्र
प्रवर्तते—'पुनर्भवे चित्तसन्ततिः; सतृष्णानमनात्, रूपादिविषयवत्' ।
शुष्कमसूरोपनानलेपाङ्गवदिति । मसूर उपस्नानम्, तस्य लेपः शुष्कः । मसूरो-
पस्नानलेपोऽस्येति शुष्कमंसूरोपनानलेपमङ्गम्, तद्वद् । यथा शुष्केण मसूरो-
पस्नानलेपेनागृहीत मङ्गम्, एवं तृष्णयात्मभाव इति दर्शितं भवति । एषा
युक्तिरिति । तृष्णाभिनिर्वृत्तिहेतुरिति ॥ ३ ॥
अत्रार्थे द्वे अपि सत्य इति सत्यप्रसङ्गेनेदमुच्यते ।
१. ०नमनाच्च—का० । २. का० पुस्तके नास्ति ।
३. घटार्यवत्—का० ।
८६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत् । तद्यथा—घटः ।
तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति । यत्र चान्यानपोह्य धर्मान् बुद्ध्या
तद्बुद्धिर्न भवति, तच्चापि संवृतिसद् वेदितव्यम् । तद्यथा—अम्बु । तत्र हि बुद्ध्या
रूपादीनधर्मानपोह्याम्बुबुद्धिर्न भवति । तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात्
घटश्चाम्बु चास्तीति ब्रुवन्तः सत्यमेवाहुर्न मृषा—इत्येतत् संवृतिसत्यम् ।
अतोऽन्यथा परमार्थसत्यम् । तत्र भिन्नेऽपि तद्बुद्धिर्भवत्येव । अन्य-
धर्मपोहेऽपि बुद्ध्या तत् परमार्थसत् । तद्यथा—रूपम् । तत्र हि परमाणुभिन्ने
वस्तुनि रसादीनपि च धर्मानपोह्य बुद्ध्या रूपस्य स्वभावे¹ बुद्धिर्भवत्येव¹ । एवं
वेदनादयोऽपि द्रष्टव्याः । एतत् परमार्थेन भावात् परमार्थसत्यमिति । यथा
लोकोत्तरेण ज्ञानेन गृह्यते तत् पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् ।
यथाऽन्येन तथा संवृतिसत्यमिति पूर्वाचार्याः ॥ ४ ॥
उक्तानि सत्यानि ॥
“घटाम्बुवद्” इति । दृष्टान्तद्वयोपन्यासो भेदद्वयोपदर्शनार्थः । उपक्रम-
भेदिनश्च घटादयः, बुद्धिभेदिनश्च जलादय इति । जलादिषूपक्रमेण रसाद्य-
पकर्षानुपपत्तेः । अथ वा द्विविधा संवृतिः—संवृत्यन्तरव्यपाश्रया, द्रव्या-
न्तरव्यपाश्रया च । तत्र यासौ संवृत्यन्तरव्यपाश्रया, तस्यां भेदोऽपि सम्भवति,
अन्यापोहोऽपि । या त्वसौ द्रव्यान्तरव्यपाश्रया, तस्यामन्यापोह एव सम्भवति,
न भेदः । न हि परमाणोरष्टद्रव्यकस्यावयवविश्लेषः शक्यते कर्तुमिति ।
संवृतिसदिति । संव्यवहारेण सत् । परमार्थसदिति । परमार्थेन सत् । स्व-
लक्षणेन सदित्यर्थः ।
एवं वेदनादयोऽपि द्रष्टव्या इति । वेदनाचेतनासंज्ञादयोऽपि द्रव्यसन्त एव
द्रष्टव्याः । कथम् ? वेदनादीन् धर्मानपोह्य बुद्ध्या वेदनास्वभावे बुद्धिर्भवतीति ।
द्रव्यसती वेदना । एवं संज्ञाचेतनादयोऽपि योज्याः । घटश्चाम्बु चास्तीति
ब्रुवन्तः सत्यमेवाहुः, न मृषेति । संवृतिसत्यस्य वचने प्रयोजनं दर्शयति ।
उक्तं च—
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ (म० शा० २४.८) इति ।
तथा परमार्थसत्यमिति । परमस्य ज्ञानस्यार्थः परमार्थः, परमार्थश्च
१-१. स्वभावबुद्धिर्भव०—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ८६१
कथं पुनस्तेषां दर्शनं भवति, वक्तव्यम् ? अत आदिप्रस्थानमारभ्योच्यते---
वृत्तस्थः श्रुतचिन्तावान् भावनायां प्रयुज्यते ।
सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति । ततः सत्यदर्शनस्यानु-
लोमं श्रुतमुद्गृह्णाति, अर्थं वा शृणोति । श्रुत्वा चिन्तयति । अविपरीतं चिन्तयित्वा
भावनायां प्रयुज्यते । समाधौ तस्य श्रुतमयी प्रज्ञां निश्रित्य चिन्तामयी जायते ।
चिन्तामयीं निश्रित्य भावनामयी जायते ।
किं पुनरासां प्रज्ञानां लक्षणम् ?
नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ५ ॥
नामालम्बना किल श्रुतमयी प्रज्ञा । नामार्थालम्बना चिन्तामयी । कदाचिद्
व्यञ्जनेनार्थमाकर्षति, कदाचिदर्थेन व्यञ्जनम् । अर्थालम्बमैव भावनामयी । सा
हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते । तद्यथा—अम्भसि प्लोतुमशिक्षितः प्लवन्नेव
मुञ्चति । कियच्छिक्षितः कदाचित् मुञ्चेत्, कदाचिदालम्बते । सुशिक्षितः प्लवन्
निरपेक्षस्तरति—इत्येष दृष्टान्त इति वैभाषिकाः ।
सत्यं च तत् परमार्थसत्यं यथान्येन ज्ञानेन लौकिकेन गृह्यते । तथा संवृतिसत्यम् ।
संवृत्या संव्यवहारेण ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यम् ।
त्रिविधं हि योगाचाराणां सत्—परमार्थ संवृतिसत्, द्रव्यसच्च । द्रव्यतः
स्वलक्षणतः सद् द्रव्यसदिति ॥ ४ ॥
“वृत्तस्थः” इति विस्तरः । वृत्तं शीलम् । तद् अन्यासङ्गकारणम्, अविक्षेप-
कारणम्, आचारकारणं च । सत्यदर्शनस्यानुलोममिति । यच्छ्रुतं सत्यदर्शनाधि-
कारिकम्, तच्छ्रुतमुद्गृह्णाति पठति । अर्थं वा शृणोति । तदर्थं श्रोत्रद्वारेण
विजानाति । कथम् ?
उभयालम्बना चिन्तामयीति दर्शयन्नाह—कदाचिद् व्यञ्जनेनार्थमाकर्षति ।
व्यञ्जननिविष्टेन नाम्नार्थमाकर्षति—अयमस्य नाम्नोऽर्थ इति । कदाचिदर्थेन
व्यञ्जनमाकर्षति । इदमस्याभिधेयस्यार्थस्य व्यञ्जनं नामेत्यर्थः । अयं हि
व्यञ्जनशब्दो नाम्नि प्रयुक्तः । सूत्रेऽपि चोक्तम्—“स्वर्थं सुव्यञ्जनम्”
इति ।
८६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धयतीत्यपरे । या हि
नामाऽलम्बना श्रुतमयी प्राप्नोति, याऽर्थालम्बना भावनामयीति । इदं तु लक्षणं
नानिरवद्यं विद्यते । आप्तवचनप्रामाण्यजातनिश्चया श्रुतमयी, युक्तिनिध्यानजा
चिन्तामयी, समाधिजा भावनामयीति; हेतौ मयड्विधानात् । तद्यथा—अन्नमयाः
प्राणाः, तृणमय्यो गाव इति ॥ ५ ॥
तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना सम्पद्यते ? इत्याह—
व्यपकर्षद्वयवतः,
यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति, संसर्गकुशलवितर्कदूरीकरणात् ।
तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति ? योऽल्पेच्छः, सन्तुष्टश्च ।
नासन्तुष्टमहेच्छयोः ।
का पुनरियमसन्तुष्टिः ? का च महेच्छता ?
लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छता ॥६॥
लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामता असन्तुष्टिः । अलब्धेषु
तत्कामता महेच्छतेत्याभिधार्मिकाः ।
अस्यां तु कल्पनायामिति विस्तरेणाचार्यः । चिन्तामयी प्रज्ञा न सिध्यतीति ।
श्रुतभावनामयीलक्षणसङ्कीर्णं लक्षणमुच्यते । नासङ्कीर्णमिति न सिध्यति ।
युक्तिनिध्यानजा इति । युक्त्या निध्यानं नितीरणम्, ततो जात इति । हेतौ
मयड्विधानादिति । आप्तवचनं श्रुतं सहेतु श्रुतं सहेतु श्रुतमय्याः प्रज्ञायाः ।
अत्र मयड्विधानम् । श्रुतहेतुका प्रज्ञा श्रुतमयीति । एवं युक्तिनिध्यानं चिन्ता
सहेतुश्चिन्तामय्याः । अत्र मयड्विधानात् । समाधिर्भावना सहेतुर्भावना-
मय्याः । अत्र मयड्विधानम् । "तत्रप्रकृतवचने मयट् (पा० सू० ५.४.२१) इति
लक्षणात् । "तस्य विकारः" (पा० सू० ४.३.१३४) इति वा लक्षणात् ।
औपचारिकस्तु विकारः । श्रुतविकार इव श्रुतमयीति लक्ष्यान्तरं चोपसंख्या-
तव्यम् । अन्नमयाः प्राणास्तृणमय्यो गाव इति लोके प्रयोगदर्शनात् ॥ ५ ॥
संसर्गकुशलवितर्कदूरीकरणादिति । संसर्गदूरीकरणं यद्विद्वितीयविहारित्वम् ।
तस्मात् कायेन व्यपकृष्टो भवति । अकुशलवितर्कदूरीकरणं यत्क्लिष्टवितर्क-
विवर्जनम् । तस्माच्चित्तेन व्यपकृष्टो भवति ।
निर्देशः १ ] षष्ठं कोशस्थानम् ८६३
ननु च साऽतिभूयस्कामताऽलब्ध एव, न लब्धे भवतीति कोऽनयोर्विशेष
इति वक्तव्यमेतद् ? एवं तु युज्यते—लब्धेनाप्रणीतेनाप्रभूतेन परितासोऽसन्तुष्टिः ।
अलब्धप्रणीतप्रभूतेच्छा महेच्छता ॥ ६ ॥
विपर्यासात् तद्विपक्षौ,
असन्तुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ—सन्तुष्टिश्च,
अल्पेच्छता चेति ।
त्रिधात्वाप्तामलौ च तौ ।
'तद्विपक्षौ' इति वर्तते । त्रिधातुको च प्रतिसंयुक्तौ च; सास्रवानास्रवत्वात् ।
असन्तुष्टिमहेच्छते च कामावचर्यावेव ।
कः पुनरनयोरल्पेच्छतासन्तुष्ट्योः स्वभावः ? इत्याह—
अलोभः,
अलोभस्वभावे ह्येते ।
आर्यवंशाश्च,
'अलोभः' इति वर्तते । आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः । तेऽप्य-
लोभस्वभावाः ।
तेषां तुष्ट्यात्मकास्त्रयः ॥ ७ ॥
सन्तुष्टिस्वभावाः । चीवर-पिण्डपात-शयनासनसन्तुष्टयः ।
प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः ? भवकामराग-
वैमुख्यात् ॥ ७ ॥
लब्धेनाप्रणीतेनाप्रभूतेन परितास इति । परितासो दौर्मनस्यम् । तेन हि
परितप्यति । उपक्षीयत इत्यर्थः । अप्रणीतत्वाद्, अप्रभूतत्वाद्वा । तेन लब्धेन
परितासोऽसन्तुष्टिः । अलब्धे तु प्रणीतेऽपि वा प्रभूतेऽपि वा इच्छाभिलाषो
महेच्छतेत्याचार्यमतम् । कामावचर्यावेवेति । लोभाकुशलस्वभावत्वात् ॥ ६ ॥
प्रहाणभावनारामता । निरोधमार्गरामता । सा न सन्तुष्टिस्वभावेति कथं
चतुर्थोऽप्ययमार्यवंशो भवत्यलोभस्वभावः ? इत्यत आह—भवकामरागवैमुख्या-
दिति । भवरागवैमुख्यात्, कामरागवैमुख्याच्च । वैमुख्यं चालोभ इति ॥ ७ ॥
८६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता ?
कर्मान्तेन त्रिभिर्वृत्तिः,
धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो
मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तम्—वृत्तिश्च, कर्म च । त्रिभिरार्यवंशैर्वृत्तिः,
चतुर्थेन कर्म । 'अनया वृत्त्येदं कर्म कुर्वाणा भवन्तो न चिरान्मोक्षं
प्राप्स्यन्ति' इति ।
कस्मात् पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् ?
तृष्णोत्पादविपक्षतः ।
चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः—"चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना
उत्पद्यते, प्रतितिष्ठन्ती प्रतितिष्ठति, अभिनिविशमानाऽभिनिविशते । पिण्डपातहेतोः,
शय्यासनहेतोरिति । भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते" इति विस्तरः ।
एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः ।
ममाहङ्कारवस्त्वच्छात्तत्कालात्यन्तशान्तये ॥ ८ ॥
स एवार्थः पुनः परिशेषेणोच्यते । ममकारवस्तु चीवरादयोऽहंकार-
वस्वात्मभावः । तत्रेच्छा तृष्णा । तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय
आर्यवंशा भवन्ति । उभयेच्छात्यन्तशान्तये चतुर्थ इति ॥ ८ ॥
उक्तमिदं यथा भूतस्य भावना सम्पद्यते ॥
तस्य त्वेवं पात्रीभूतस्य कथं तस्यां भावनायामवतारो भवति ?
तत्रावतारोऽशुभया चानापानस्मृतेन च ।
परित्यक्तस्ववृत्तिकर्मान्तेभ्य इति । परित्यक्तस्ववृत्तिभ्यः, परित्यक्तस्वकर्मान्ते-
भ्यश्च । तत्र वृत्तिः = जीविका, यया जीव्यते अन्नपानादिना । कर्मान्तः =
कृषिशिल्पादिः ।
इति भवविभवहेतोरिति । इतिशब्दो भवविभवप्रकाराभिद्योतकः । तत्र
भवप्रकारे तृष्णा 'अहो बताहं इन्द्रः स्यां चक्रवर्ती स्याम्' इत्येवमादि । विभव-
तृष्णापि विनाशतुष्णा १—'अहो बतोच्छिद्येयं परं मरणात्' इत्यादि ॥ ८ ॥
१. विनाश०-जा० ।
निर्देशः ] षष्ठं कोशस्थानम् ८६५
स्मृतिरेव स्मृतम् ।
केषां पुनरशुभा ? केषामानापानस्मृत्या ? यथाक्रमम्—
अधिरागवितर्काणाम्,
अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः । यो हि प्रत्यासन्नमत्यर्थं
रागचरितः, तस्याशुभा । यो हि वितर्कचरितः, तस्यानापानस्मृतेति ।
अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके ।
अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद् वितर्कमावहतीति; अबहिर्मुखत्वा-
दित्यपरे । अशुभा हि चक्षुर्विज्ञानवद् बहिर्मुखी; तद्विषयोपनिध्यानात् ।
तत्र पुनश्चतुर्विधो रागः—वर्णरागः, संस्थानरागः, स्पर्शरागः, उपचार-
रागश्च । प्रथमस्य प्रतिपक्षेण विनीलकाद्याकारालम्बनामशुभां$^१$ वर्णयन्ति ।
द्वितीयस्य विखादितकविक्षिप्तानलम्बनाम् , तृतीयस्य विपटुमकं$^२$ पूयनिबद्धास्थ्या-
लम्बनाम्, चतुर्थस्य निश्चेष्टमृतकायालम्बनाम् । अभेदेन तु शस्यते
शंकला सर्वरागिणाम् ।। ९ ।।
अस्थिशंकलायां हि सर्वमेतच्चतुर्विधं रागन्तु नास्तीति अधिमुक्तिप्रादेशिक-
मनसिकारत्वादशुभा$^३$ न क्लेशप्रहाणं विष्कम्भणं तु । स पुनरयमशुभां भावयन्
स्मृतिरेव स्मृतमिति । भावे क्तविधानमिति दर्शयति । अवतारः = तीर्थं येना-
वतरति । प्रत्यासन्नमत्यर्थं रागचरित इति । यस्याल्पेन रागः शीघ्रमुपतिष्ठते, स
प्रत्यासन्नं रागचरितः । यस्याधिमात्रो रागः, सोऽत्यर्थं रागचरितः ।
अविचित्रालम्बनत्वादिति । वायौ वर्णसंस्थानवैचित्र्यानुपलब्धेः$^४$ ।
अबहिर्मुखत्वादन्तर्मुखत्वात् । एषा वितर्कोपच्छेदाय संवर्तत इति प्राक्तम् ।
•तद्विषयोपनिध्यानादिति । चक्षुर्विषयनिरूपणादित्यर्थः ।
विनीलकाद्याकारालम्बनामिति । आदिग्रहणेन विपूयकादिग्रहणम् । विपटु-
मकमिति । यदुत्पन्नक्रिमकम् । चतुर्विधं रागवस्तु नास्तीति वर्णसंस्थानस्पर्शोप-
चारात्मकम् । अधिमुक्तिप्रादेशिकमनसिकारत्वादिति । अधिमुक्तिमनसिकारत्वात्,
प्रादेशिकमनसिकारत्वाच्चेत्यर्थः । अधिमुक्तिप्रधानोऽयं मनसिकारः । प्रादेशिक-
१. विनीलकाद्यालम्बनाम०—का० । २. विपटुम्ना—का० ।
३. ०मनस्कार०—का० । ४. संस्थान०—जा० ।
८६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
योगाचारस्त्रिविध उच्यते—१. आदिकर्मिकः, २. कृतपरिजयः, ३. अतिक्रान्त-
मनस्कारश्च ॥ ९ ॥
तत्र—
आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः ।
१. अशुभां भावयितुकाम आदितो योगाचारः स्वाङ्गावयवे चित्तं निबध्नाति
पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः । स तत्र मांसक्लेदपीताधिमोक्षक्रमेणास्थि
विशोधयन् सकलामस्थिशंकलां · पश्यति । तथैव च पुनर्द्वितीयामधिमुच्यते
यावद् विहारागमक्षेत्रक्रमेण समुद्रपर्यन्तां पृथिवीमस्थिसंकलां पूर्णमधिमुच्यतेऽधि-
मोक्षाभिवर्धनार्थम् । पुनश्च संक्षिपन् यावदेकामेव स्वामस्थिशंकलामधिमुच्यते
चित्तसंक्षेपार्थम् । इयता किल कालेनाशुभा परिनिष्पन्ना भवति । अयमादिकर्मिको
निर्देशः ] षष्ठं कोशस्थानम् ८६१
अतिक्रान्तमनस्कारो भ्रूमध्ये चित्तधारणात् ।
३. सोऽर्धमपि कपालस्य मुक्त्वा भ्रुवोर्मध्ये चित्तं धारयति । अयं किला-
शुभायामतिक्रान्तमनस्कारो योगाचारः । अस्त्यशुभा आलम्बनपरीततया परीत्ता न
वशितापरीततया परीत्तेति चतुष्कोटिकम् ; जिताजितमनस्कारयोरजितजितमनस्कार-
योश्च स्वकायसमुद्रपर्यन्तालम्बनात् ।
अथ किंसभावेयमशुभा ? कतिभूमिका ? किमालम्बना ? क्व चोत्पद्यते ?
यथाक्रमम्—
अलोभो दशभूः कामदृश्यालम्बा नृजाऽशुभा ॥ ११ ॥
अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषु काम-
धातौ च कामावचरदृश्यालम्बना, किं पुनर्द्दश्यवस्तुसंस्थाने । अत एवार्थालम्बनेति
सिद्धम् । मनुष्येष्वेवोत्पद्यते, नान्यस्यां गतौ, कुत एव धातौ ! तत्रापि नोत्तर-
कुरौ । नाम्नैव सिद्धमशुभाकारेति । यदध्विका तदध्वालम्बना । अनुत्पत्ति-
अतिक्रान्तमनसिकारस्तथैव यावद् भ्रुवोर्मध्ये चित्तं धारयति । विस्तरचित्तस्तु
“आसमुद्रास्थिविस्तारः संक्षेपादादिकर्मिकः” इत्येवमादिस्त्रिविध इति । एवं च
कृत्वा चतुष्कोटिकः प्रश्नो भवतीति । जिताजितमनस्कारयोरिति विस्तरः ।
प्रथमा कोटिः—जितमनस्कारस्य स्वकायालम्बना अशुभा आलम्बनपरीततया
परीत्ता, कायस्याल्पत्वात् , न वशितापरीततया । जितमनस्कारत्वादतिक्रान्त-
त्वादित्यर्थः । द्वितीया कोटिः—अजितमनस्कारस्य समुद्रपर्यन्तालम्बना अशुभा ।
वशितापरीततया परीत्ता; अजितमनस्कारत्वात् । नालम्बनपरीततया, समुद्र-
पर्यन्तालम्बनत्वात् । तृतीया कोटिः—अजितमनस्कारस्य स्वकायालम्बना
अशुभा । आलम्बनपरीततयापि परीत्ता; कायस्याल्पत्वात् । वशितापरीतत-
यापि; अजितमनस्कारत्वात् । चतुर्थी कोटिः—जितमनस्कारस्य समुद्रपर्यन्ता-
लम्बना अशुभा । नाप्यालम्बनपरीततया परीत्ता; समुद्रपर्यन्तालम्बनत्वात् ।
नापि वशितापरीततया; जितमनस्कारत्वात् ।
ससामन्तकध्यानान्तरेष्विति । सामन्तकेषु ध्यानान्तरे चतुर्षु ध्यानेषु काम-
धातौ चेति दशभूमिका । ध्यानसामन्तकानां चतुष्ट्वात् । अत एवार्था-
लम्बनेति । वर्णसंस्थानालम्बनत्वादर्थालम्बना । न तु नामलम्बनेत्यभिप्रायः ।
नाम्नैव सिद्धमशुभाकारेति । आकारार्थे न सूत्रयितव्यमित्यभिप्रायः ।
यदध्विका तदध्वालम्बनेति । चक्षुर्विज्ञानवदतीताया अतीतमालम्बनम्, एवं यावत्
८६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
धर्मिणी तु त्र्यध्वालम्बना । अधिमुक्तिमनस्कारत्वात् सास्रवा । वैराग्यलाभिकी
च प्रायोगिकी च, उचितानुचितत्वात् ॥ ११ ॥
॥ उक्तमशुभायाः सप्रभेदं लक्षणम् ॥
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुगोचरा ।
कामाश्रया,
आननमानः = आश्वासः, यो वायुः प्रविशति । अपाननमपानः = प्रश्वासः, यो
वायुः निष्क्रामति । तयोः स्मृतिरानापानस्मृतिः । सैव प्रज्ञास्वभावा । स्मृतिवचनं
तु स्मृत्युपस्थानवत्; तद्बलाधानवृत्तित्वात् । पञ्चसु भूमिषु त्रिषु सामन्तकेषु
ध्यानान्तरे कामधातौ चोपेक्षासम्प्रयोगित्वात् । वितर्कानुगुणत्वात् किल सुखदुःख-
योस्तत्प्रतिपक्षस्य ताभ्यामसम्प्रयोगः । सुखसौमनस्ययोश्चावधानपरिपन्थित्वात् ।
तस्याश्चावधानसाध्यत्वादिति¹ ।
प्रत्युत्पन्नायाः प्रत्युत्पन्नमिति । स्वालम्बननियतत्वात् । अधिमुक्तिमनस्कारत्वान्न
सूत्रितम् । उचितानुचितत्वादिति । अनादिमतिसंसारे उचितत्वाद् वैराग्य-
लाभिकी । अनुचितत्वात् प्रायोगिकी ॥ ११ ॥
कायस्मृत्युपस्थानादीनि प्रज्ञास्वभावानि । तद्बलाधानवृत्तित्वात् । तस्याः
स्मृतेर्बलाधानेन वृत्तिरेषामिति स्मृतिबलाधानवृत्तीनि कायस्मृत्युपस्थानादीनि
कायप्रज्ञाद्रव्यादीनि स्मृत्युपस्थानानीत्युच्यन्ते । तद्वदानापानप्रज्ञा स्मृतिबला-
धानवृत्तित्वादानापानस्मृतिरित्युच्यते । पञ्चसु भूमिष्विति । त्रिषु सामन्तकेषु
चतुर्थसामन्तकवर्ज्येषु । ध्यानान्तरे कामधातौ चेति पञ्चसु भूमिषु । किं
कारणम् ? उपेक्षासम्प्रयोगित्वात् । यस्मात् प्रथमध्याने सामन्तकादिषूपेक्षा-
वेदना भवति । चतुर्थध्याने सामन्तके तु यद्यप्युपेक्षास्ति, न सा स्वभूमिरा-
श्वासप्रश्वासानाम् । अथ किमर्थमेवोपेक्षा सम्प्रयोगिण्येवावधार्यत इति ? अतो
ब्रवीति - वितर्कानुगुणत्वादिति । तत्प्रतिपक्षस्य वितर्कप्रतिपक्षस्यानापानस्मृ-
तेस्ताभ्यां सुखदुःखाभ्यामसम्प्रयोगः । सुखसौमनस्ययोश्चावधानप्रतिपन्थित्वात् ।
आभोगप्रत्यनीकत्वात् । तस्याश्चानापानस्मृतेरवधानसाध्यत्वात् ताभ्यामसम्प्रयोग
इति वितर्कानुगुणत्वात् ।
१. अवधाने०—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ८६१
ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति, तेषामष्टभूमिका,
परेणाश्वासप्रश्वासानामभूमित्वात् । बाह्यालम्बना चैषा कामधात्वाश्रया ।
देवमनुष्येषु प्रायोगिकी वैराग्यलाभिकी च ।
तत्त्वमनस्कारश्चैषा इदन्धर्माणामेव,
न बाह्यानाम्,
उपदेशाभावात् । स्वयं च सूक्ष्मधर्मानभिसम्बोधात् ।
सा चेयम्—
षड्विधा गणनादिभिः ॥ १२ ॥
षट्कारणयुक्ता चैषा परिपूर्णा भवति—गणनया, अनुगमेन, स्थापनया,
उपलक्षणया, विवर्त्तेन, परिशुद्ध्या च । तत्र च गणना नाम आश्वासप्रश्वासेषु
चित्तं दत्त्वाऽनभिसंस्कारेण कायं चित्तं नाध्युपेक्ष्य¹ स्मृतिमात्रेण गणयति—एकं
द्वौ यावद्दश । चित्ताभिसंक्षेपविक्षेपभयान्नाल्पबहुतरा । तस्यां तु त्रयो दोषाः—
१. ऊनगणना, यदि द्वावेकं गृह्णाति । २. अधिकगणना, यद्येकं द्वाविति ।
३. संकरः, यद्याश्वासं प्रश्वासतो गृह्णाति विपर्ययाद्वा । अतोऽन्यथा
सम्यग्गणना । अन्तरविक्षेपे पुनरादितो गणयितव्यं यावद् यावत् समाधिं लभते ।
अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति—
कियद् दूरमेते प्रविशन्ति वा, निष्क्रामन्ति वा, किमेते सर्वशरीरव्यापिन एकदेश-
किलेति । किलशब्दः परमतद्योतकः । तेनेदं पक्षान्तरमुपन्यस्यते—ये तु
मौलेष्विति विस्तरः । परेणेति । चतुर्थाद् ध्यानादारभ्य ।
कामधात्वाश्रयेति । तत्र वितर्कभूयस्त्वात् । प्रायोगिकी । अनुचितत्वात् ।
वैराग्यलाभिकी । उचितत्वात् ।
इदन्धर्माणामिति । अयं धर्मो बुद्ध एषामिति इदन्धर्माणः, तेषामेव ।
बौद्धानामित्यर्थः । उपदेशाभावादिति । बाह्यानां हि प्राणायामोपदेशोऽस्ति,
नानापानस्मृत्युपदेश इति । स्वयं च सूक्ष्मधर्मानभिसम्बोधादिति । उपदेशमन्तरेण
यस्माद् बाह्यानां नास्ति स्वयं सूक्ष्मधर्मोभिसम्बोधः । सूक्ष्मत्वं पुनरस्याः
षट्कारणयुक्तत्वात् । कायं चित्तं नाध्युपेक्ष्येति । अनासज्येत्यर्थः ।
१. चा०—का० ।
६०० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
न्धारिण इति। तान् प्रविशतः कण्ठहृदयनाभिकट्यूरुजङ्घाप्रवेशक्रमेण यावत्
पादावनुगच्छति।
निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव
इत्यपरे। तदेतत् तत्त्वमनसिकारत्वान्न युक्तमेतत्¹।
स्थापना नाम नासिकाग्रे यावत् पादाङ्गुष्ठे स्थितां पश्यति, मणिसूत्रवत्।
किमनुग्राहका एते उपघातकाः शीता उष्णा इति ? उपलक्षणा नाम।
नैते केवला वायव एव, चत्वार्येतानि महाभूतानि महाभूतनिर्वृत्तमुपादायरूपं
तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति।
विवर्तो नाम वाय्वालम्बनां बुद्धिं विवर्त्योत्तरोत्तरेषु² कुशलमूलेषु संनियोजनं
यावद्धर्मेषु।
परिशुद्धिर्दर्शनमार्गादिष्ववतारः।
स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे। क्षयज्ञानादि-
विशुद्धिरिति³।
गणनानुगमः स्थानं लक्षणाऽर्थविवर्त्तना;
परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता॥
इति संग्रहश्लोकः॥ १२॥
वितस्तिव्यामान्तरमिति। बलवद् दुर्बलप्राणियोगात्।
यावद्वायुमण्डलमिति अधस्तादनुगच्छति। वैरम्भाश्च वायव इत्युपरिष्टात्।
तत्त्वमनसिकारत्वान्न युक्तमेतत्। यावद्वायुमण्डलं वैरम्भाश्च वायव इति।
अधिमुक्तिमनस्कारस्यैषा कल्पना युज्येत।
किमनुग्राहका एते यावदुष्णा इति। स्थापनैवेयं द्रष्टव्या। कायप्रदेश
एवानुग्राहकादिविशेषस्थापनतः। तदाश्रिताश्चित्तचैत्ता इति। तत्प्रतिबद्धवृत्तय
इत्यर्थः। उत्तरोत्तरेषु कुशलमूलेष्विति। स्मृत्युपस्थानोष्मगतादिष्विति।
दर्शनमार्गादिष्विति। आदिशब्देन भावनामार्गग्रहणम्।
क्षयज्ञानादिविशुद्धिरिति। आदिशब्देन अनुत्पादज्ञानाशैक्षसम्यग्दृष्टि-
ग्रहणम्॥ १२॥
१. युक्तम्—का०। २. विवर्त्योत्तरेषु—का०। ३. ०शुद्धिरिति—का०।
निर्देशः ] षष्ठं कोशस्थानम् ६०१
तत्र पुनर्वेदितव्यौ—
आनापानौ यतः कायः,
यद्भूमिको हि कायः तद्भूमिकावेतौ ; कायैकदेशत्वात् । कायचित्तविशेष-
संनिश्रिता आश्वासप्रश्वासा वर्तन्ते, आरूप्यकललादिगतानामभावात्, अचित्त-
चतुर्थध्यानसमापन्नानां च । यदि हि कायः शुषिरो भवति आश्वासप्रश्वास-
भूमिकं च चित्तं संमुखीभूतम् , एवं ते वर्तन्ते । जायमानस्य चतुर्थध्यानाद् व्युत्तिष्ठ-
मानस्य च ऽविशन्ति, म्रियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति
एतौ चानापानौ
सत्त्वाख्यौ,
नासत्त्वसंख्यातौ ।
अनुपात्तकौ ।
इन्द्रियविनिर्भागित्वात् ।
नैःष्यन्दिकौ,
नौपचयिकविपाकजौ । कायोपचयेनापचयात् १ उच्छिन्नानां २ पुनः प्रति-
सन्धानाच्च । न ह्येतद् विपाकरूपस्यास्ति ।
“आनापानौ यतः कायः” इति । आनापानस्मृतिसम्बन्धेन सर्वभूमिका-
वानापानौ निर्दिश्येते । यद्भूमिको हि काय इति । कामावचरः यावत् तृतीय-
ध्यानभूमिकः । तद्भूमिकावेतौ । नान्यभूमिकौ । कायचित्तविशेषसंनिश्रिता इति ।
कायविशेषसंनिश्रिताः, चित्तविशेषसंनिश्रिताश्चाश्वासप्रश्वासाः । कस्माद् ?
इत्याह—आरूप्यकललादिगतानामभावादिति । कायभावादारूप्यगतानां न
भवन्ति, कललादिगतानां च । कललाबुदपेश्यादिगतानां च न भवन्ति; कायविशेषा-
भावात् , सुषिरकायाभावादित्यर्थः । अचित्तानां च न भवन्ति । चित्ताभावात् ।
चतुर्थध्यानसमापन्नानामपि न भवन्ति । आश्वासप्रश्वासभूमिचित्तविशेषाभावात् ।
अत एवाह—यदि कायः सुषिर इति विस्तरः ।
इन्द्रियविनिर्भागित्वादिति । इन्द्रियपृथग्वृत्तित्वादित्यर्थः । कायोपचयेना-
पचयान्नौपचयिकौ । उच्छिन्नानां चाश्वासप्रश्वासानां पुनःप्रतिसन्धानान्न विपाकजौ ।
१. ॰नानुपचयात्—का० । २. छिन्नानां—का० ।
अभि० को० ३ : १०
नाधरेण लक्ष्येते मनसा च तौ ॥ १३ ॥
स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम्। नाधरेणैर्यापथिक-
नैर्माणिकेन¹। उक्ते द्वे अवतारमुखे। ताभ्यां तु समाधिर्लब्धा ॥१३॥
निष्पन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम् ।
विपश्यनायाः सम्पादनार्थम् ।
कथं च पुनः कुर्यात् ?
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ १४ ॥
कायं स्वसामान्यलक्षणाभ्यां परीक्षते, वेदनां चित्तं धर्मांश्च । स्वभाव
एवैषां स्वलक्षणम् । सामान्यलक्षणं तु अनित्यता संस्कृतानाम्, दुःखता सास्रवाणाम्
शून्यताऽनात्मते सर्वधर्माणाम् ।
कायस्य पुनः कः स्वभावः ? भूतभौतिकत्वम् । धर्मास्त्रिभ्योऽन्ये ।
समाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थानं निष्पन्नं
भवति ॥ १४ ॥
न ह्येतद्विपाकरूपस्यास्ति । विपाकात्मकस्य रूपस्य चक्षुरादेरेतत् पुनः प्रति-
सन्धानं नास्ति । अरूपस्य तु चित्तचैत्तस्य पुनः प्रतिसन्धानं न वार्यते ।
नाधरेणैर्यापथिकनैर्माणिकेनेति । ऐर्यापथिकं नैर्माणिकं च चित्तमधर-
भूमिकं सम्मुखीभवति, यावच्चतुर्थध्यानोपपन्नस्येत्यत आशंक्योच्यते—
नाधरभूमिकाभ्यां ताभ्यामुपलक्षणमिति ॥ १३ ॥
विपश्यनायाः सम्पादनार्थमिति । प्रज्ञायाः सम्पादनार्थमित्यर्थः ।
निष्पन्नसमाधेरपि हि प्रज्ञामन्तरेण क्लेशा न प्रहीयन्ते । “ज्ञानवध्याः क्लेशाः”
इति वचनात् । कुतः पुनरेतत् स्मृत्युपस्थानभावनया विपश्यना सम्पद्यत इति ?
सूत्रात् । “एकायनोऽयं भिक्षवो मार्गो यदुत स्मृत्युपस्थानानि । केवलोऽयं
कुशलराशिः यदुत चत्वारि स्मृत्युपस्थानानि” ( ) इति वचनात् ।
“कायविद्” इति । वेदनावित् । स्वभाव एवैषां स्वलक्षणमिति । कः
स्वभावः ? कायस्य भूतभौतिकत्वम्, वेदनाया अनुभवत्वम्, चित्तस्योप-
लब्धित्वम् । एभ्यस्त्रिभ्योऽन्येषां यथास्वं स्वभावः । दुःखता सास्रवाणामिति ।
१. ॰णेर्यापथिक—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ६०३
अथ स्मृत्युपस्थानानां कः स्वभावः ? त्रिविधस्मृत्युपस्थानं स्वभावसंसर्गा-
लम्बनस्मृत्युपस्थानम् ।
तत्र स्वभावस्मृत्युपस्थानम्
प्रज्ञा,
कीदृशी प्रज्ञा ?
श्रुतादिमयी,
श्रुतमयी, चिन्तामयी, भावनामयी च । त्रिविधानि स्मृत्युपस्थानानि श्रुत-
चिन्ता-भावनामयानि ।
अन्ये संसर्गालम्बनात्¹,
अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् । तदालम्बनात्² आलम्बन-
स्मृत्युपस्थानम् ।
स्वभावस्मृत्युपस्थानं प्रज्ञेति कुत एव तत् ? “काये³ कायानुपश्यना
स्मृत्युपस्थानम्” इति वचनात् ।
आर्यप्रतिकूललक्षणं दुःखमिति व्याख्यातमेतत् । धर्मास्त्रिभ्योऽन्य इति
असम्भिन्नव्यवस्थाभिसन्धायैवमुच्यते । सम्भिन्नव्यवस्थायां तु कायादयो-
ऽपि निगृह्यन्ते । पुन सर्वे संस्कृता असंस्कृताश्च धर्मा द्रष्टव्याः ॥ १४ ॥
स्वभावस्मृत्युपस्थानं प्रज्ञेति । यस्मात् संसर्गालम्बनमपेक्ष्येयं प्रज्ञोपतिष्ठते,
तस्मात् स्मृत्युपस्थानमित्युच्यते ।
“श्रुतादिमयी” इति । विशेषणम् । यस्मात् स्मृत्युपस्थानानि प्रायोगि-
काणि नोपपत्तिलभ्यानि कस्मात् प्रज्ञास्वभावमित्युच्यते, किमन्यथापि
स्मृत्युपस्थानमस्ति ? इति उच्यते—“अन्ये संसर्गालम्बनाद्” इति । अन्ये तत्सह-
भुवो वेदनादयः । संसर्गेण स्मृत्युपस्थानं संसर्गस्मृत्युपस्थानम् । स्वभावस्मृत्यु-
पस्थानसंसर्गात् । तदालम्बनादिति । स्वभावसंसर्गस्मृत्युपस्थानालम्बनाद्
आलम्बनस्मृत्युपस्थानम् । तदालम्बना आलम्बनस्मृत्युपस्थानमित्यपरे पठन्ति ।
आलम्ब्यन्त इत्यालम्बनाः । के ? कायवेदनाचित्तधर्माः । तदेवं सति
तदालम्बनस्मृत्युपस्थानं सर्वधर्मस्वभावं भवति । उक्तं च भगवता—“सर्व-
धर्मा इति भिक्षवश्चतुर्णां स्मृत्युपस्थानानामेतदधिवचनम्” इति ।
१. लम्बनाः—का० । २. तदालम्बना—का० । ३. कामे—का० ।
६०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
का पुनरनुपश्यना ? प्रज्ञा । तथा हि तद्वाननुपश्यः क्रियते । यतश्चोक्तम्
"अध्यात्मं काये कायानुपश्यी विहरति" इति । अनुपश्यमस्यास्ति दर्शनमित्य-
नुपश्यी, कायेऽनुपश्यी कायानुपश्यी ।
कस्मात् प्रज्ञा 'स्मृत्युपस्थानम्' इत्युक्ता भगवता ? स्मृत्युद्रेकत्वादिति
वैभाषिकाः । स्मृतिबलाधानवृत्तित्वादिति योऽर्थः । दारुपाटकीलसन्धारणवत्¹ ।
एवं तु युज्यते—स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा; यथा-
तया हि प्रज्ञया तद्वान् प्रज्ञावान् । अनुपश्यः क्रियत इति । अनुपश्यती-
त्यनुपश्यः । "पाघ्राध्माधेट्दृशः शः" (पा० सू० ३.१.१३७) इति
शप्रत्ययः । अनुपश्यं पुद्गलं करोतीत्यनुपश्ययति । प्रज्ञास्वभावे त्वेवं विग्रहः—
अनुपश्यस्य करणमनुपश्यनेति । तया हि प्रज्ञया तद्वान् प्रज्ञावाननुपश्यः
क्रियते । यथा प्रज्ञायोगात् प्राज्ञः पुद्गल उच्यते, एवमनुपश्यनायोगादनुपश्य
इष्यतेऽनुपश्यना प्रज्ञेति सिद्धम् । यतश्चोक्तं भगवता—अध्यात्मं प्रत्यात्मं
काये कायानुपश्यी कायानुदर्शी विहरतीति । तेनापि ज्ञायतेऽनुपश्यना प्रज्ञेति ।
कथमिति ? साधयति—अनुपश्यमस्यास्ति । किं तद् ? दर्शनम् । दर्शन-
लक्षणं ह्यनुपश्यम् । अतोऽनुपश्यी पुद्गलः, दण्डिवत् । ततः सप्तमीतत्पुरुषः—
कायेऽनुपश्यी कायानुपश्यीति । कायमनुपश्यितुं शीलमस्येति कायानुपश्यीति
णिनिरपि (पा० सू० ३.२.७८) यदि विधीयेत, तथाप्येतद्रूपं सिद्ध्यतीति
पश्यामः ।
स्मृत्युद्रेकत्वादिति । स्मृत्यधिकत्वादित्यर्थः । स्मृतिबलाधानवृत्तित्वादिति ।
बलस्याधानम् स्मृतेर्बलाधानं स्मृतिबलाधानम्, स्मृतिबलाधानेन वृत्तिरस्या
इति स्मृतिबलाधानवृत्तिः प्रज्ञा, तद्भावः तस्मात् । दारुपाटकीलसन्धारणवत् ।
यथा दारुपाटेन तीक्ष्णकीलेन दारुपाटस्य सन्धारणम्, एवमस्याः प्रज्ञायाः
स्मृतिबलाधानेनालम्बने वृत्तिरिति । यदि हि स्मृतिरालम्बनं धारयत्येवं प्रज्ञा
प्रजानातीति, तदेवं स्मृत्योपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञेति वैभाषीकीयोऽर्थः ।
“कृत्यल्युटो बहुलम्” (पा०सू० ३.३.११३) इति कर्त्तर्यपि ल्युड् भवतीति ।
एवं तु युज्यत इत्याचार्यः । करणसाधनमेतत् । स्मृतिरनयोपतिष्ठत
इति । अर्थप्रदर्शनमात्रमेतत् । विग्रहस्त्वेवं कर्तव्यः—उपतिष्ठतेऽनेनेत्यु-
पस्थानम्, स्मृतेरुपस्थानं स्मृत्युपस्थानमिति । कथं स्मृतिरनयोपतिष्ठते ?
१. °पाटन०—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ६०५
दृष्टस्याभिलपनात् । तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन—“तस्य काये कायानु-
पश्यिनो विहरतः कायालम्बनानुस्मृतिस्तिष्ठति सन्तिष्ठते” इति विस्तरः ।
भगवताऽपि चोक्तम्—“तस्य काये कायानुपश्यिनो विहरत उपस्थिता
स्मृतिर्भवत्यसम्मूढा” इति ।
यत्र तूक्तम्-“कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदायश्च भवत्यस्त-
ङ्गमश्च । आहारसमुदयात् कायस्य समुदयो भवति, आहारनिरोधात् कायस्या-
स्तङ्गमः” इति । अत्रालम्बनमेव स्मृत्युपस्थानमुक्तम्, स्मृतिरत्रोपतिष्ठत इति
कृत्वा । यथालम्बनं चैषां नाम स्वपरोभयसन्तत्यालम्बनत्वात् प्रत्येकमेषां त्रैविध्यम् ।
इत्याह—यथादृष्टस्याभिलपनादिति । यस्माद् यथादृष्टोऽर्थः प्रज्ञया, तथैवाभि-
लप्यते । स्मृत्यो
६०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
क्रमः ।
यथोत्पत्ति,
कस्मात् पुनरेवमुत्पत्तिः ? औदारिकस्य पूर्वं दर्शनात् । यतो वा कामरागस्य
कायोऽधिष्ठानम्, स च वेदनाभिलाषात्, स च चित्तस्यादान्तत्वात्, तत् क्लेशा-
प्रहाणादिति वैभाषिकाः ।
चतुष्कं तु विपर्यासविपक्षतः ।। १५ ।।
शुचिसुखनित्यात्मविपर्यासानां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्थानान्यु-
क्तानि यथाक्रमम्, नाधिकन्यूनतानि । एवं च त्रीण्यसम्भिन्नलम्बनानि, चतुर्थमुभयथा ।
यदि धर्मानेव पश्यत्यसम्भिन्नालम्बनम्, अथ कायादीनां द्वे त्रीणि चत्वारि वा
समस्तानि पश्यति सम्भिन्नालम्बनम् ।। १५ ।।
सन्तत्यालम्बनत्वाच्च प्रत्येकमेकैकश एषां कायस्मृत्युपस्थानादीनां त्रैविध्यं भवति ।
सूत्रे वचनात् । कथम् ? "अध्यात्मं काये कायानुपश्यी विहरति, आतापी सम्प्र-
जानन् स्मृतिमान् विनीय लोकेऽभिध्यादौर्मनस्ये । बहिर्धा काये कायानुपश्यी
विहरति आतापीति पूर्ववत् । अध्यात्मबहिर्धा काये कायानुपश्यी विहरतीति
पूर्ववत् । एवं तावत् कायस्मृत्युपस्थानस्य त्रैविध्यम् । वेदनास्मृत्युपस्थानादीना-
मप्यध्यात्मं वेदनायां वेदनानुपश्यी विहरति" इति विस्तरेण त्रैविध्यं योज्यम् ।
औदारिकस्य पूर्वं दर्शनादिति । कायस्त्रिभ्य औदारिकः, षड्विज्ञानविज्ञेय-
त्वादिति तस्य पूर्वं दर्शनम् । द्वाभ्यां वेदना प्रकारौदारिकतयेति तदनन्तरं
तस्या दर्शनम् । सूक्ष्मप्रचारत्वाद् दुर्विज्ञतया धर्माः सूक्ष्मा इत्यतस्तेभ्यः पूर्वं
चित्तस्य दर्शनम् । अन्ते धर्माणामिति । स चेति । कामरागः । स च
चित्तस्येति । स वेदनाभिलाषः । तत् क्लेशप्रहाणात् । तददान्तत्वम् ।
यथाक्रममिति । शुचिविपर्यासस्य प्रतिपक्षेण कायस्मृत्युपस्थानम् । सुख-
विपर्यासस्य प्रतिपक्षेण वेदनास्मृत्युपस्थानम् । यत्किञ्चिद् वेदितमिदमत्र
दुःख्येति । नित्यविपर्यासस्य प्रतिपक्षेण चित्तस्मृत्युपस्थानम् ; चित्तस्य
लघुपरिवर्त्तित्वात् । आत्मविपर्यासस्य प्रतिपक्षेण धर्मस्मृत्युपस्थानम् । पिण्ड-
विभागतो धर्माणामनात्मकारित्वाद्धर्ममात्रं रहितमात्मनेति धर्मनिर्वचनतः । धर्मा
इमे पृथक्पृथगवस्थिताः । न च कश्चित् स्वतन्त्र आत्मेति । तद्दर्शनाद्वा ।
चतुर्थमुभयथेति । धर्मस्मृत्युपस्थानमसम्भिन्नालम्बनममिश्रालम्बनं भवति ।
कायवेदनाचित्तव्यतिरिक्तधर्मालम्बनत्वसम्भवात् । सम्भिन्नालम्बनमपि भवति ।
कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यतीति । यदि कायं वेदनां च