अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 906, कुल 1258 में से
संदर्भ में पढ़ेंप्राधान्यादसौ सूत्र उक्ता, अन्येऽपि तु समुदायः । कथमिदं प्रत्येतव्यम् ?
अन्यत्रान्यस्यापि वचनात् । उक्तं हि भगवता—
“कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराये" इति ।
पुनश्चोक्तम्— “पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधि-
वचनम् । पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनम्” इति । तस्मा-
दाभिप्रायिकः सूत्रेषु निर्देशः । लाक्षणिकस्त्वभिधर्मे ।
अपि त्वभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता । उपपत्त्यभिनिर्वृत्त-
हेतुं सहेतुकं ब्रुवता गाथायां कर्म च तृष्णा चाविद्योक्ता । “कर्महेतुरुपपत्तये,
प्रथमे वा कोशस्थाने “दुःखं समुदयो लोकः” (अभि० को० १.८) इति
वचनात् । सूत्रे हि तृष्णैवोक्तेति । समुदयसत्यं कतमत् ? यासौ तृष्णा
नन्दीरागसहगता तत्र तत्राभिनन्दिनीति । वैभाषिक आह—प्राधान्यादिति ।
अन्यत्रान्यस्यापि वचनात् । अन्यत्र सूत्रे अन्यस्यापि कर्माविद्यादेर्वचनादन्येऽपि
समुदय इति ।
अभिसम्पराये । आयत्यां परलोक इत्यर्थः ।
पुनश्चोक्तम् । अन्यत्र सूत्रे— “यतश्च भिक्षवः पञ्च बीजजातान्यखण्डानि
अच्छिद्राणि अपूतीनि अवातातपहतानि नवानि साराणि सुशशयितानि ।-
पृथिवीधातुश्च भवत्यब्धातुश्च । एवं तानि बीजानि वृद्धिं विरूढिं विपुलतामा-
पद्यन्ते । इति हि भिक्षव उपमेयं कृत। यावदेवाभ्यार्थस्य विज्ञप्तयः” इतीमं
दृष्टान्तमुपन्यस्येदमुक्तम्—“पञ्च बीजजातानीति भिक्षवः सोपादानस्य विज्ञान-
स्यैतदधिवचनम् । पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनम्”
इति । बीजं पुनर्हेतुः । यश्च हेतुः स समुदयः । विज्ञानस्थितोऽपि प्रतिष्ठा-
हेतुः । तस्मादिति । यतः कर्मादीनामपि हेतुत्ववचनात् समुदयसत्यत्वं सिद्धम्,
तस्मादाभिप्रायिकः । अभिप्राये भवः, अभिप्रायेण वा दीव्यतीत्याभिप्रायिकः
सूत्रे निर्देशः । तृष्णाधिकृतं पुद्गलमधिकृत्य कृत इत्यभिप्रायः । लाक्षणिक-
स्त्वभिधर्मे । लक्षणे भवो लाक्षणिको निर्देशोऽभिधर्मे; 'सर्वं सास्रवं वस्तु
समुदयः' इति सास्रवस्य स्कन्धपञ्चकस्य समुदयसत्यत्वलक्षणयोगात् ।
स एव वैभाषिकस्तृष्णादीनामाभिप्रायिकं समुदयसत्यत्वं विवक्षुराह —
अपि त्विति विस्तरेण । अभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता सूत्रे ।
उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रुवता यावत् कर्म च तृष्णा चाविद्या चोक्ता ।