सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 907, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 907

८८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-

तृष्णाहेतुरभिनिर्वृत्तये" इति सूत्रात्¹। सहेतुसप्रत्ययसनिदानसूत्रे क्रमेण वा
बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयोऽप्युक्ताः।
का पुनरुपपत्तिः ? का चाभिनिर्वृत्तिः ? धातुगतियोन्यादिप्रकारभेदेनात्म-
भावस्योपपादनमुपपत्तिः। अभेदेन पुनर्भवप्रतिसन्धानमभिनिर्वृत्तिः। तयोर्यथाक्रमं
कर्म च भवतृष्णा च हेतुः। तद्यथा—बीजं शालियवादिजातिकारभेदेनाङ्कुरोप-
उपपत्तिहेतुः कर्म। अभिनिर्वृत्तिहेतुस्तृष्णा भवेषु। तयोः पुनस्तद्धेत्वोः
कर्मतृष्णयोरविद्या हेतुरित्याह। कथमेतद्गम्यते—गाथायामुपपत्तिहेतुः कर्मा-
भिनिर्वृत्तिहेतुस्तृष्णेति ? कर्म हेतुरुपपत्तये तृष्णा हेतुरभिनिर्वृत्तय इति सूत्रात्।
सूत्रान्तरे वचनादिति। सहेतुसप्रत्यय इति विस्तरः। अत्र सूत्रे क्रमेण वा।
कारणपरम्पराक्रमणेन वा। गाथायामेष निर्देशः। कर्मतृष्णाविद्यासंस्काराणां
चक्षुरादीनां हेतुरभिसम्पराय इति। तदेतदुक्तं भवति—कर्म हेतुरुपपत्तय इति।
अतो वा सूत्रात्, सहेतुसप्रत्ययकर्मसूत्राद्वा अयमीदृशः गाथार्थ इति।
“कथं चक्षुर्भिक्षवः सहेतु सप्रत्ययं सनिदानम् ? कश्च भिक्षवः चक्षुषो हेतुः ?
कः प्रत्ययः ? किं निदानम् ? चक्षुषो भिक्षवः कर्म हेतुः, कर्म प्रत्ययः, कर्म
निदानम्। कर्मापि भिक्षवः सहेतु सप्रत्ययं सनिदानम्। कश्च भिक्षवः कर्मणो
हेतुः ? कः प्रत्ययः ? किं निदानम् ? कर्मणो भिक्षवस्तृष्णा हेतुः, तृष्णा प्रत्ययः,
तृष्णा निदानम्। तृष्णा भिक्षवः सहेतुका सप्रत्यया सनिदाना। कश्च भिक्ष-
वस्तृष्णाया हेतुः ? कः प्रत्ययः ? किं निदानम् ? तृष्णाया भिक्षवोऽविद्या
हेतुः, अविद्या प्रत्ययः, अविद्या निदानम्। अविद्यापि भिक्षवः सहेतुका
सप्रत्यया स निदाना। कश्च भिक्षवोऽविद्याया हेतुः ? कः प्रत्ययः ? किं
निदानम् ? अविद्याया भिक्षव अयोनिशोमनस्कारो हेतुः, अयोनिशोमनस्कारः
प्रत्ययः, अयोनिशोमनस्कारो निदानम्” ( ) इति। बीजक्षेत्रभावनं प्रतिपाद-
यता विज्ञानादयोऽप्युक्ताः। विज्ञानं बीजम्। तस्य क्षेत्रं वेदनादयः स्कन्धाः।
तेऽप्युक्ताः समुदयसत्यम्। न केवलं तृष्णादय इत्याभिप्रायिकः सूत्रे निर्देश
इति साधितम्। सर्वस्य च दुःखस्य लाक्षणिकः समुदायभाव इति।
योन्यादिप्रकारभेदेनेति। आदिशब्देन जातिस्त्रीपुरुषादिप्रकारभेदेनेति गृह्यते।
अभेदेनेति। धातुगतियोन्यादीनाम्। तयोर्यथाक्रममिति। उपपत्तेः कर्म हेतु-
रभिनिर्वृत्तेस्तृष्णेति। तद्यथा बीजमिति विस्तरः। शालिबीजं शाल्यङ्कुरोप-
१. सूत्रे वचनात्—का०।