अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 911, कुल 1258 में से
संदर्भ में पढ़ें८६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धयतीत्यपरे । या हि
नामाऽलम्बना श्रुतमयी प्राप्नोति, याऽर्थालम्बना भावनामयीति । इदं तु लक्षणं
नानिरवद्यं विद्यते । आप्तवचनप्रामाण्यजातनिश्चया श्रुतमयी, युक्तिनिध्यानजा
चिन्तामयी, समाधिजा भावनामयीति; हेतौ मयड्विधानात् । तद्यथा—अन्नमयाः
प्राणाः, तृणमय्यो गाव इति ॥ ५ ॥
तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना सम्पद्यते ? इत्याह—
व्यपकर्षद्वयवतः,
यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति, संसर्गकुशलवितर्कदूरीकरणात् ।
तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति ? योऽल्पेच्छः, सन्तुष्टश्च ।
नासन्तुष्टमहेच्छयोः ।
का पुनरियमसन्तुष्टिः ? का च महेच्छता ?
लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छता ॥६॥
लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामता असन्तुष्टिः । अलब्धेषु
तत्कामता महेच्छतेत्याभिधार्मिकाः ।
अस्यां तु कल्पनायामिति विस्तरेणाचार्यः । चिन्तामयी प्रज्ञा न सिध्यतीति ।
श्रुतभावनामयीलक्षणसङ्कीर्णं लक्षणमुच्यते । नासङ्कीर्णमिति न सिध्यति ।
युक्तिनिध्यानजा इति । युक्त्या निध्यानं नितीरणम्, ततो जात इति । हेतौ
मयड्विधानादिति । आप्तवचनं श्रुतं सहेतु श्रुतं सहेतु श्रुतमय्याः प्रज्ञायाः ।
अत्र मयड्विधानम् । श्रुतहेतुका प्रज्ञा श्रुतमयीति । एवं युक्तिनिध्यानं चिन्ता
सहेतुश्चिन्तामय्याः । अत्र मयड्विधानात् । समाधिर्भावना सहेतुर्भावना-
मय्याः । अत्र मयड्विधानम् । "तत्रप्रकृतवचने मयट् (पा० सू० ५.४.२१) इति
लक्षणात् । "तस्य विकारः" (पा० सू० ४.३.१३४) इति वा लक्षणात् ।
औपचारिकस्तु विकारः । श्रुतविकार इव श्रुतमयीति लक्ष्यान्तरं चोपसंख्या-
तव्यम् । अन्नमयाः प्राणास्तृणमय्यो गाव इति लोके प्रयोगदर्शनात् ॥ ५ ॥
संसर्गकुशलवितर्कदूरीकरणादिति । संसर्गदूरीकरणं यद्विद्वितीयविहारित्वम् ।
तस्मात् कायेन व्यपकृष्टो भवति । अकुशलवितर्कदूरीकरणं यत्क्लिष्टवितर्क-
विवर्जनम् । तस्माच्चित्तेन व्यपकृष्टो भवति ।