सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 920, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 920

निर्देशः ] षष्ठं कोशस्थानम् ६०१
तत्र पुनर्वेदितव्यौ—
आनापानौ यतः कायः,
यद्भूमिको हि कायः तद्भूमिकावेतौ ; कायैकदेशत्वात् । कायचित्तविशेष-
संनिश्रिता आश्वासप्रश्वासा वर्तन्ते, आरूप्यकललादिगतानामभावात्, अचित्त-
चतुर्थध्यानसमापन्नानां च । यदि हि कायः शुषिरो भवति आश्वासप्रश्वास-
भूमिकं च चित्तं संमुखीभूतम् , एवं ते वर्तन्ते । जायमानस्य चतुर्थध्यानाद् व्युत्तिष्ठ-
मानस्य च ऽविशन्ति, म्रियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति
एतौ चानापानौ
सत्त्वाख्यौ,
नासत्त्वसंख्यातौ ।
अनुपात्तकौ ।
इन्द्रियविनिर्भागित्वात् ।
नैःष्यन्दिकौ,
नौपचयिकविपाकजौ । कायोपचयेनापचयात् १ उच्छिन्नानां २ पुनः प्रति-
सन्धानाच्च । न ह्येतद् विपाकरूपस्यास्ति ।
“आनापानौ यतः कायः” इति । आनापानस्मृतिसम्बन्धेन सर्वभूमिका-
वानापानौ निर्दिश्येते । यद्भूमिको हि काय इति । कामावचरः यावत् तृतीय-
ध्यानभूमिकः । तद्भूमिकावेतौ । नान्यभूमिकौ । कायचित्तविशेषसंनिश्रिता इति ।
कायविशेषसंनिश्रिताः, चित्तविशेषसंनिश्रिताश्चाश्वासप्रश्वासाः । कस्माद् ?
इत्याह—आरूप्यकललादिगतानामभावादिति । कायभावादारूप्यगतानां न
भवन्ति, कललादिगतानां च । कललाबुदपेश्यादिगतानां च न भवन्ति; कायविशेषा-
भावात् , सुषिरकायाभावादित्यर्थः । अचित्तानां च न भवन्ति । चित्ताभावात् ।
चतुर्थध्यानसमापन्नानामपि न भवन्ति । आश्वासप्रश्वासभूमिचित्तविशेषाभावात् ।
अत एवाह—यदि कायः सुषिर इति विस्तरः ।
इन्द्रियविनिर्भागित्वादिति । इन्द्रियपृथग्वृत्तित्वादित्यर्थः । कायोपचयेना-
पचयान्नौपचयिकौ । उच्छिन्नानां चाश्वासप्रश्वासानां पुनःप्रतिसन्धानान्न विपाकजौ ।
१. ॰नानुपचयात्—का० । २. छिन्नानां—का० ।
अभि० को० ३ : १०