सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 917, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 917

८६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
धर्मिणी तु त्र्यध्वालम्बना । अधिमुक्तिमनस्कारत्वात् सास्रवा । वैराग्यलाभिकी
च प्रायोगिकी च, उचितानुचितत्वात् ॥ ११ ॥
॥ उक्तमशुभायाः सप्रभेदं लक्षणम् ॥
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुगोचरा ।
कामाश्रया,
आननमानः = आश्वासः, यो वायुः प्रविशति । अपाननमपानः = प्रश्वासः, यो
वायुः निष्क्रामति । तयोः स्मृतिरानापानस्मृतिः । सैव प्रज्ञास्वभावा । स्मृतिवचनं
तु स्मृत्युपस्थानवत्; तद्बलाधानवृत्तित्वात् । पञ्चसु भूमिषु त्रिषु सामन्तकेषु
ध्यानान्तरे कामधातौ चोपेक्षासम्प्रयोगित्वात् । वितर्कानुगुणत्वात् किल सुखदुःख-
योस्तत्प्रतिपक्षस्य ताभ्यामसम्प्रयोगः । सुखसौमनस्ययोश्चावधानपरिपन्थित्वात् ।
तस्याश्चावधानसाध्यत्वादिति¹ ।
प्रत्युत्पन्नायाः प्रत्युत्पन्नमिति । स्वालम्बननियतत्वात् । अधिमुक्तिमनस्कारत्वान्न
सूत्रितम् । उचितानुचितत्वादिति । अनादिमतिसंसारे उचितत्वाद् वैराग्य-
लाभिकी । अनुचितत्वात् प्रायोगिकी ॥ ११ ॥
कायस्मृत्युपस्थानादीनि प्रज्ञास्वभावानि । तद्बलाधानवृत्तित्वात् । तस्याः
स्मृतेर्बलाधानेन वृत्तिरेषामिति स्मृतिबलाधानवृत्तीनि कायस्मृत्युपस्थानादीनि
कायप्रज्ञाद्रव्यादीनि स्मृत्युपस्थानानीत्युच्यन्ते । तद्वदानापानप्रज्ञा स्मृतिबला-
धानवृत्तित्वादानापानस्मृतिरित्युच्यते । पञ्चसु भूमिष्विति । त्रिषु सामन्तकेषु
चतुर्थसामन्तकवर्ज्येषु । ध्यानान्तरे कामधातौ चेति पञ्चसु भूमिषु । किं
कारणम् ? उपेक्षासम्प्रयोगित्वात् । यस्मात् प्रथमध्याने सामन्तकादिषूपेक्षा-
वेदना भवति । चतुर्थध्याने सामन्तके तु यद्यप्युपेक्षास्ति, न सा स्वभूमिरा-
श्वासप्रश्वासानाम् । अथ किमर्थमेवोपेक्षा सम्प्रयोगिण्येवावधार्यत इति ? अतो
ब्रवीति - वितर्कानुगुणत्वादिति । तत्प्रतिपक्षस्य वितर्कप्रतिपक्षस्यानापानस्मृ-
तेस्ताभ्यां सुखदुःखाभ्यामसम्प्रयोगः । सुखसौमनस्ययोश्चावधानप्रतिपन्थित्वात् ।
आभोगप्रत्यनीकत्वात् । तस्याश्चानापानस्मृतेरवधानसाध्यत्वात् ताभ्यामसम्प्रयोग
इति वितर्कानुगुणत्वात् ।
१. अवधाने०—का० ।