सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 913, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 913

८६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता ?
कर्मान्तेन त्रिभिर्वृत्तिः,
धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो
मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तम्—वृत्तिश्च, कर्म च । त्रिभिरार्यवंशैर्वृत्तिः,
चतुर्थेन कर्म । 'अनया वृत्त्येदं कर्म कुर्वाणा भवन्तो न चिरान्मोक्षं
प्राप्स्यन्ति' इति ।
कस्मात् पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् ?
तृष्णोत्पादविपक्षतः ।
चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः—"चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना
उत्पद्यते, प्रतितिष्ठन्ती प्रतितिष्ठति, अभिनिविशमानाऽभिनिविशते । पिण्डपातहेतोः,
शय्यासनहेतोरिति । भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते" इति विस्तरः ।
एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः ।
ममाहङ्कारवस्त्वच्छात्तत्कालात्यन्तशान्तये ॥ ८ ॥
स एवार्थः पुनः परिशेषेणोच्यते । ममकारवस्तु चीवरादयोऽहंकार-
वस्वात्मभावः । तत्रेच्छा तृष्णा । तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय
आर्यवंशा भवन्ति । उभयेच्छात्यन्तशान्तये चतुर्थ इति ॥ ८ ॥
उक्तमिदं यथा भूतस्य भावना सम्पद्यते ॥
तस्य त्वेवं पात्रीभूतस्य कथं तस्यां भावनायामवतारो भवति ?
तत्रावतारोऽशुभया चानापानस्मृतेन च ।
परित्यक्तस्ववृत्तिकर्मान्तेभ्य इति । परित्यक्तस्ववृत्तिभ्यः, परित्यक्तस्वकर्मान्ते-
भ्यश्च । तत्र वृत्तिः = जीविका, यया जीव्यते अन्नपानादिना । कर्मान्तः =
कृषिशिल्पादिः ।
इति भवविभवहेतोरिति । इतिशब्दो भवविभवप्रकाराभिद्योतकः । तत्र
भवप्रकारे तृष्णा 'अहो बताहं इन्द्रः स्यां चक्रवर्ती स्याम्' इत्येवमादि । विभव-
तृष्णापि विनाशतुष्णा १—'अहो बतोच्छिद्येयं परं मरणात्' इत्यादि ॥ ८ ॥
१. विनाश०-जा० ।