अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 910, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ८६१
कथं पुनस्तेषां दर्शनं भवति, वक्तव्यम् ? अत आदिप्रस्थानमारभ्योच्यते---
वृत्तस्थः श्रुतचिन्तावान् भावनायां प्रयुज्यते ।
सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति । ततः सत्यदर्शनस्यानु-
लोमं श्रुतमुद्गृह्णाति, अर्थं वा शृणोति । श्रुत्वा चिन्तयति । अविपरीतं चिन्तयित्वा
भावनायां प्रयुज्यते । समाधौ तस्य श्रुतमयी प्रज्ञां निश्रित्य चिन्तामयी जायते ।
चिन्तामयीं निश्रित्य भावनामयी जायते ।
किं पुनरासां प्रज्ञानां लक्षणम् ?
नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ५ ॥
नामालम्बना किल श्रुतमयी प्रज्ञा । नामार्थालम्बना चिन्तामयी । कदाचिद्
व्यञ्जनेनार्थमाकर्षति, कदाचिदर्थेन व्यञ्जनम् । अर्थालम्बमैव भावनामयी । सा
हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते । तद्यथा—अम्भसि प्लोतुमशिक्षितः प्लवन्नेव
मुञ्चति । कियच्छिक्षितः कदाचित् मुञ्चेत्, कदाचिदालम्बते । सुशिक्षितः प्लवन्
निरपेक्षस्तरति—इत्येष दृष्टान्त इति वैभाषिकाः ।
सत्यं च तत् परमार्थसत्यं यथान्येन ज्ञानेन लौकिकेन गृह्यते । तथा संवृतिसत्यम् ।
संवृत्या संव्यवहारेण ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यम् ।
त्रिविधं हि योगाचाराणां सत्—परमार्थ संवृतिसत्, द्रव्यसच्च । द्रव्यतः
स्वलक्षणतः सद् द्रव्यसदिति ॥ ४ ॥
“वृत्तस्थः” इति विस्तरः । वृत्तं शीलम् । तद् अन्यासङ्गकारणम्, अविक्षेप-
कारणम्, आचारकारणं च । सत्यदर्शनस्यानुलोममिति । यच्छ्रुतं सत्यदर्शनाधि-
कारिकम्, तच्छ्रुतमुद्गृह्णाति पठति । अर्थं वा शृणोति । तदर्थं श्रोत्रद्वारेण
विजानाति । कथम् ?
उभयालम्बना चिन्तामयीति दर्शयन्नाह—कदाचिद् व्यञ्जनेनार्थमाकर्षति ।
व्यञ्जननिविष्टेन नाम्नार्थमाकर्षति—अयमस्य नाम्नोऽर्थ इति । कदाचिदर्थेन
व्यञ्जनमाकर्षति । इदमस्याभिधेयस्यार्थस्य व्यञ्जनं नामेत्यर्थः । अयं हि
व्यञ्जनशब्दो नाम्नि प्रयुक्तः । सूत्रेऽपि चोक्तम्—“स्वर्थं सुव्यञ्जनम्”
इति ।