सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 914, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 914

निर्देशः ] षष्ठं कोशस्थानम् ८६५
स्मृतिरेव स्मृतम् ।
केषां पुनरशुभा ? केषामानापानस्मृत्या ? यथाक्रमम्—
अधिरागवितर्काणाम्,
अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः । यो हि प्रत्यासन्नमत्यर्थं
रागचरितः, तस्याशुभा । यो हि वितर्कचरितः, तस्यानापानस्मृतेति ।
अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके ।
अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद् वितर्कमावहतीति; अबहिर्मुखत्वा-
दित्यपरे । अशुभा हि चक्षुर्विज्ञानवद् बहिर्मुखी; तद्विषयोपनिध्यानात् ।
तत्र पुनश्चतुर्विधो रागः—वर्णरागः, संस्थानरागः, स्पर्शरागः, उपचार-
रागश्च । प्रथमस्य प्रतिपक्षेण विनीलकाद्याकारालम्बनामशुभां$^१$ वर्णयन्ति ।
द्वितीयस्य विखादितकविक्षिप्तानलम्बनाम् , तृतीयस्य विपटुमकं$^२$ पूयनिबद्धास्थ्या-
लम्बनाम्, चतुर्थस्य निश्चेष्टमृतकायालम्बनाम् । अभेदेन तु शस्यते
शंकला सर्वरागिणाम् ।। ९ ।।
अस्थिशंकलायां हि सर्वमेतच्चतुर्विधं रागन्तु नास्तीति अधिमुक्तिप्रादेशिक-
मनसिकारत्वादशुभा$^३$ न क्लेशप्रहाणं विष्कम्भणं तु । स पुनरयमशुभां भावयन्


स्मृतिरेव स्मृतमिति । भावे क्तविधानमिति दर्शयति । अवतारः = तीर्थं येना-
वतरति । प्रत्यासन्नमत्यर्थं रागचरित इति । यस्याल्पेन रागः शीघ्रमुपतिष्ठते, स
प्रत्यासन्नं रागचरितः । यस्याधिमात्रो रागः, सोऽत्यर्थं रागचरितः ।
अविचित्रालम्बनत्वादिति । वायौ वर्णसंस्थानवैचित्र्यानुपलब्धेः$^४$ ।
अबहिर्मुखत्वादन्तर्मुखत्वात् । एषा वितर्कोपच्छेदाय संवर्तत इति प्राक्तम् ।
•तद्विषयोपनिध्यानादिति । चक्षुर्विषयनिरूपणादित्यर्थः ।
विनीलकाद्याकारालम्बनामिति । आदिग्रहणेन विपूयकादिग्रहणम् । विपटु-
मकमिति । यदुत्पन्नक्रिमकम् । चतुर्विधं रागवस्तु नास्तीति वर्णसंस्थानस्पर्शोप-
चारात्मकम् । अधिमुक्तिप्रादेशिकमनसिकारत्वादिति । अधिमुक्तिमनसिकारत्वात्,
प्रादेशिकमनसिकारत्वाच्चेत्यर्थः । अधिमुक्तिप्रधानोऽयं मनसिकारः । प्रादेशिक-


१. विनीलकाद्यालम्बनाम०—का० । २. विपटुम्ना—का० ।
३. ०मनस्कार०—का० । ४. संस्थान०—जा० ।