सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 918, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 918

निर्देशः ] षष्ठं कोशस्थानम् ८६१
ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति, तेषामष्टभूमिका,
परेणाश्वासप्रश्वासानामभूमित्वात् । बाह्यालम्बना चैषा कामधात्वाश्रया ।
देवमनुष्येषु प्रायोगिकी वैराग्यलाभिकी च ।
तत्त्वमनस्कारश्चैषा इदन्धर्माणामेव,
न बाह्यानाम्,
उपदेशाभावात् । स्वयं च सूक्ष्मधर्मानभिसम्बोधात् ।
सा चेयम्—
षड्विधा गणनादिभिः ॥ १२ ॥
षट्कारणयुक्ता चैषा परिपूर्णा भवति—गणनया, अनुगमेन, स्थापनया,
उपलक्षणया, विवर्त्तेन, परिशुद्ध्या च । तत्र च गणना नाम आश्वासप्रश्वासेषु
चित्तं दत्त्वाऽनभिसंस्कारेण कायं चित्तं नाध्युपेक्ष्य¹ स्मृतिमात्रेण गणयति—एकं
द्वौ यावद्दश । चित्ताभिसंक्षेपविक्षेपभयान्नाल्पबहुतरा । तस्यां तु त्रयो दोषाः—
१. ऊनगणना, यदि द्वावेकं गृह्णाति । २. अधिकगणना, यद्येकं द्वाविति ।
३. संकरः, यद्याश्वासं प्रश्वासतो गृह्णाति विपर्ययाद्वा । अतोऽन्यथा
सम्यग्गणना । अन्तरविक्षेपे पुनरादितो गणयितव्यं यावद् यावत् समाधिं लभते ।
अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति—
कियद् दूरमेते प्रविशन्ति वा, निष्क्रामन्ति वा, किमेते सर्वशरीरव्यापिन एकदेश-
किलेति । किलशब्दः परमतद्योतकः । तेनेदं पक्षान्तरमुपन्यस्यते—ये तु
मौलेष्विति विस्तरः । परेणेति । चतुर्थाद् ध्यानादारभ्य ।
कामधात्वाश्रयेति । तत्र वितर्कभूयस्त्वात् । प्रायोगिकी । अनुचितत्वात् ।
वैराग्यलाभिकी । उचितत्वात् ।
इदन्धर्माणामिति । अयं धर्मो बुद्ध एषामिति इदन्धर्माणः, तेषामेव ।
बौद्धानामित्यर्थः । उपदेशाभावादिति । बाह्यानां हि प्राणायामोपदेशोऽस्ति,
नानापानस्मृत्युपदेश इति । स्वयं च सूक्ष्मधर्मानभिसम्बोधादिति । उपदेशमन्तरेण
यस्माद् बाह्यानां नास्ति स्वयं सूक्ष्मधर्मोभिसम्बोधः । सूक्ष्मत्वं पुनरस्याः
षट्कारणयुक्तत्वात् । कायं चित्तं नाध्युपेक्ष्येति । अनासज्येत्यर्थः ।
१. चा०—का० ।