सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 921, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 921

नाधरेण लक्ष्येते मनसा च तौ ॥ १३ ॥
स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम्। नाधरेणैर्यापथिक-
नैर्माणिकेन¹। उक्ते द्वे अवतारमुखे। ताभ्यां तु समाधिर्लब्धा ॥१३॥
निष्पन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम् ।
विपश्यनायाः सम्पादनार्थम् ।
कथं च पुनः कुर्यात् ?
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ १४ ॥
कायं स्वसामान्यलक्षणाभ्यां परीक्षते, वेदनां चित्तं धर्मांश्च । स्वभाव
एवैषां स्वलक्षणम् । सामान्यलक्षणं तु अनित्यता संस्कृतानाम्, दुःखता सास्रवाणाम्
शून्यताऽनात्मते सर्वधर्माणाम् ।
कायस्य पुनः कः स्वभावः ? भूतभौतिकत्वम् । धर्मास्त्रिभ्योऽन्ये ।
समाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थानं निष्पन्नं
भवति ॥ १४ ॥
न ह्येतद्विपाकरूपस्यास्ति । विपाकात्मकस्य रूपस्य चक्षुरादेरेतत् पुनः प्रति-
सन्धानं नास्ति । अरूपस्य तु चित्तचैत्तस्य पुनः प्रतिसन्धानं न वार्यते ।
नाधरेणैर्यापथिकनैर्माणिकेनेति । ऐर्यापथिकं नैर्माणिकं च चित्तमधर-
भूमिकं सम्मुखीभवति, यावच्चतुर्थध्यानोपपन्नस्येत्यत आशंक्योच्यते—
नाधरभूमिकाभ्यां ताभ्यामुपलक्षणमिति ॥ १३ ॥
विपश्यनायाः सम्पादनार्थमिति । प्रज्ञायाः सम्पादनार्थमित्यर्थः ।
निष्पन्नसमाधेरपि हि प्रज्ञामन्तरेण क्लेशा न प्रहीयन्ते । “ज्ञानवध्याः क्लेशाः”
इति वचनात् । कुतः पुनरेतत् स्मृत्युपस्थानभावनया विपश्यना सम्पद्यत इति ?
सूत्रात् । “एकायनोऽयं भिक्षवो मार्गो यदुत स्मृत्युपस्थानानि । केवलोऽयं
कुशलराशिः यदुत चत्वारि स्मृत्युपस्थानानि” ( ) इति वचनात् ।
“कायविद्” इति । वेदनावित् । स्वभाव एवैषां स्वलक्षणमिति । कः
स्वभावः ? कायस्य भूतभौतिकत्वम्, वेदनाया अनुभवत्वम्, चित्तस्योप-
लब्धित्वम् । एभ्यस्त्रिभ्योऽन्येषां यथास्वं स्वभावः । दुःखता सास्रवाणामिति ।
१. ॰णेर्यापथिक—का० ।