अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
८६४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
मौलारूप्यत्रयस्य च ॥ ६६ ॥
मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् ॥ ६६ ॥
आर्यमार्गस्य सर्वाः,
नव परिज्ञाः फलम् ।
द्वे लौकिकस्य,
लौकिकस्य मार्गस्य द्वे अवरभागीयस्रूपरागक्षयपरिज्ञे फलम् ।
अन्वयस्य च ।
अन्वयज्ञानस्यापि द्वे परिज्ञे फलं पश्चिमे ।
धर्मज्ञानस्थ तिस्रस्तु,
पश्चिमा एव त्रैधातुकभावनाहेयप्रतिपक्षत्वात् ।
षट् तत्पक्षस्य पञ्च वा ॥ ६७ ॥
धर्मज्ञानस्य षट् परिज्ञाः फलम् , या एव धर्मज्ञानक्षान्तिज्ञानानाम् । अन्वय-
“मौलारूप्यत्रयस्य च” इति। अनास्रवस्य ॥ ६६ ॥
लौकिकस्य मार्गस्य द्वे इति। आर्यस्य लौकिकेन मार्गेण काम-रूपधातु-
वैराग्य ।
अन्वयज्ञानस्यापि द्वे इति। भावनामार्गसंगृहीतस्य । पश्चिमे रूपरागक्षय-
सर्वसंयोजनपर्यादानपरिज्ञे ।
“धर्मज्ञानस्य तिस्रः” इति । भावनामार्गसंगृहीतस्य ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ७.६९) इति ।
तस्य पश्चिमास्तिस्रः फलम् । अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजन-
पर्यादानपरिज्ञाः । कस्माद् ? इत्याह—त्रैधातुकभावनाहेयप्रतिपक्षत्वादिति ।
“षट् तत्पक्षस्य पञ्च वा” इति । तयोर्धर्मज्ञानान्वयज्ञानयोः पक्षस्य । षट्
पञ्च च यथायोगम् । पक्षग्रहणेन क्षान्ति-ज्ञानयोर्ग्रहणम् ।
या एव धर्मज्ञान-क्षान्तिज्ञानानामिति । धर्मज्ञानक्षान्तीनां धर्मज्ञानानां
चेति समासः । धर्मज्ञानक्षान्तीनां कामावचरदर्शनहेयप्रहाणस्वभावा
यथोक्तास्तिस्रः परिज्ञाः फलम् । धर्मज्ञानानामिति भावनामार्गे ।
दुःखसमुदयज्ञानसंगृहीतानामेका अवरभागीयप्रहाणपरिज्ञा । निरोधमार्ग-
संगृहीतानां तु तिस्रोऽप्यवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादान-
निर्देशः ] पञ्चमं कोशस्थानम् ८६५
ज्ञानपक्षस्य पञ्च, या एवान्वयक्षान्तिज्ञानानाम् । पक्षग्रहणेन हि क्षान्तिज्ञानानि
गृह्यन्ते ॥ ६७ ॥
कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते ? यस्मात् क्षान्तिफलं तावत्
प्रहाणं व्यवस्थाप्यते ।
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।
हेतुद्वयसमुद्घातात् परिज्ञा,
यत्रैतानि त्रीणि कारणानि भवन्ति तत् प्रहाणं परिज्ञोच्यते । पृथग्जनस्य
तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं
परिज्ञाख्यां लभते । आर्यस्यापि यत् क्षान्तिफलं तावत् प्रहाणम् । तत्र तावद्
दुःखेऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति, न तु भवाग्रविकलीकृतम् ।
दुःखेऽन्वयज्ञाने उभयमस्ति, न तु हेतुद्वयसमुद्घातः । समुदयदर्शनप्रहातव्यस्य
सर्वत्रगहेतोरप्रहीणत्वात् । अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति । अतस्तास्व-
वस्थासु प्रहाणं परिज्ञाख्यां लभते । ज्ञानफलं तु प्रहाणम् । अतश्च कारणत्रयात्
परिज्ञाख्यां लभते । चतुर्थाच्च—
पर्यादानपरिज्ञाः । या एवान्वयक्षांन्तिज्ञानानामिति । अन्वयज्ञानक्षान्तीनाम्,
अन्वयज्ञानानां च । ताश्च रूपारूप्यावचरदर्शनहेयप्रहाणस्वभावा यथोक्तास्तिस्रः
परिज्ञाः, द्वे च पश्चिमे इति ॥ ६७ ॥
कस्मान्नैकैकं प्रहाणमिति । दुःखदर्शनहेयप्रहाण-समुदयदर्शनहेयप्रहाणं
विस्तरेण यावद् भावाग्रिकस्य मृदुमृदोः प्रकारस्य प्रहाणमिति कस्मान्न गृह्यते ?
“अनास्रववियोगाप्तेः” इति । अनास्रवविसंयोगप्राप्तेरित्यर्थः ।
“भवाग्रविकलीकृतेः” इति । भवाग्रप्रदेशप्रहाणादित्यर्थः ।
“हेतुद्वयसमुद्घाताद्” इति । दुःखसमुदय-दर्शनहेयसर्वत्रगहेतुद्वयप्रहाणा-
दित्यर्थः ।
तत्प्रहाणं परिज्ञेति । एभिः कारणैः प्रकृष्टं तत्प्रहाणमित्यत्र परिज्ञेति
व्यवस्थाप्यत इत्यभिप्रायः । अन्येषु धर्मान्वयज्ञानेष्विति । समुदयधर्मज्ञानमारभ्य
यावत् क्षयज्ञानमित्येतेषु धर्मज्ञानान्वयज्ञानेषु । ज्ञानफलं तु प्रहाणमिति ।
भावनामार्गे । तद्धि न क्षान्तिफलमिति ।
१. च—का० ।
८६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
धात्वतिक्रमात् ।। ६८ ।।
यदा धातुं समतिक्रामति । कृत्स्नधातुवैराग्यात् उभयसंयोगविसंयोगपञ्चमं¹
कारणमाहुराभिधर्मिकाः² । यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन
क्लेशेन विसंयुक्तो भवतीति ।
स तु नान्यत्³ उभयहेतुसमुद्घातात् धातुसमतिक्रमाच्चेति न ब्रूमः ।। ६८ ।।
कः कतिभिः परिज्ञाभिः समन्वागतः ?
नैकया पञ्चभिर्यावद् दर्शनस्थः समन्वितः ।
पृथग्जनस्तावन्नैव समन्वागतः । आर्योऽपि दर्शनमार्गस्थो यावत्समुदय-
“धात्वतिक्रमात्” इति। च-शब्दो लुप्तनिर्देशः। धात्वतिक्रमाच्चेति।
अत एव विव्रियते—चतुर्थाच्चेति । यदा धातुं समतिक्रामति । कामधातुं
वा समतिक्रामति, तदा परिज्ञाख्यां लभते—इति वाक्यशेषः । कस्मात् ?
कृत्स्नधातुवैराग्यात् । कृत्स्नस्य धातोर्वैराग्यात्, न विकलीकरणमात्रत्वात् ।
तदा हि सुष्ठु प्रहाणमित्यभिप्रायः ।
उभयसंयोगविसंयोगमिति । आलम्ब्यालम्बकक्लेशलक्षणः संयोगः =
उभयसंयोगः । तस्माद् विसंयोगः = उभयसंयोगविसंयोगः । तत्पञ्चमं कारण-
माहुराभिधर्मिकाः । अनेन च कारणेन प्रहाणं परिज्ञेत्युच्यते इति ।
यः प्रकारः प्रहीण इति । दुःखदर्शनप्रहातव्यो यावन् मार्गदर्शनप्रहातव्यो
भावनाप्रहातव्यश्च । यदि तत्र प्रहीणे प्रकारे, अन्येन तदालम्बनेन क्लेशेन
दर्शनप्रहातव्येन भावनाप्रहातव्येन विसंयुक्तो भवति । एवमिदमपि पञ्चमं
कारणं प्रहाणस्य परिज्ञाविधाने आहुरपरे ।
स तु नान्यदिति विस्तरः । स तूभयसंयोग उभयहेतुसमुद्घातात् दुःखदर्शन-
प्रहातव्यस्य समुदयदर्शनप्रहातव्यस्य च सर्वत्रगहेतोः समुद्घाताद् धातुसमति-
क्रमाच्च नान्यः । तथा हि दुःखदर्शनप्रहातव्येषु प्रहीणेष्वपि न तावदस्ति हेतु-
द्वयसमुद्घातो यावत्तदालम्बनः समुदयदर्शनप्रहातव्यः सर्वत्रगहेतुरप्रहीणो
भवति । भावनाप्रहातव्येषु च प्रहीणेष्वपि यावदष्टासु प्रकारेषु न तावद्
धात्वतिक्रमोऽस्ति, यावन्न नवमस्यापि प्रकारस्य प्रहाणमित्यतो न
पुनर्ब्रूमः ॥ ६८ ॥
नैकयेति । विस्तरः—पृथग्जनस्तावन्नैव समन्वागतः । अनास्रवं विसंयोग-
१. °वियोगं-का० । २. ॰माहुरपरे—का० । ३. नान्यस्य—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८६७
धर्मज्ञानक्षान्तौ¹ नैव समन्वगतः । समुदयधर्मज्ञान एकया समन्वगतः ।
समुदयान्वयज्ञाने द्वाभ्याम्, निरोधधर्मज्ञाने² तिसृभिः, निरोधान्वयज्ञाने चतसृभिः,
मार्गधर्मज्ञाने पञ्चभिः ।
भावनास्थः पुनः षड्भिरेकया वा द्वयेन वा ॥ ६९ ॥
भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षड्भिः परिज्ञाभिः समन्वगतो
यावत् कामवैराग्यं न प्राप्तः । परिहीणोऽपि ततः कामवैराग्यं प्राप्तः पूर्वं
पश्चाद् वा एकया अवरभागीयप्रहाणपरिज्ञया । अर्हत्त्वप्राप्तौ⁴, एकयैव सर्व-
प्राप्त्यभावात् । आर्योऽपि दर्शनमार्गस्थो यावत् समुदयधर्मज्ञानक्षान्तौ ।
यावच्छब्देन दुःखमन्वयज्ञानक्षान्तिज्ञानेषु समुदयधर्मज्ञानक्षान्तौ च नैव
समन्वगतः । हेतुद्वयस्याप्रहीणत्वात् । समुदयधर्मज्ञान एकया समन्वगतः ।
समुदयान्वयज्ञानक्षान्तावप्येकयैव समन्वगत इत्यवगन्तव्यम् । समुदयान्वयज्ञाने
द्वाभ्याम् । पूर्वोक्तया एकया कामावचरदुःखसमुदयदर्शनहेयप्रहाणपरिज्ञया,
रूपारूप्यावचरदुःखसमुदयदर्शनप्रहाणपरिज्ञया च । निरोधधर्मज्ञानक्षान्तावपि
द्वाभ्यामेव । निरोधधर्मज्ञाने तिसृभिरिति नेयम्, यावत् पञ्चभिः । दर्शनस्थः
समन्वगतो न षड्भिः, षोडशस्य क्षणस्य भावनामार्गसंगृहीतत्वात् ।
मार्गान्वयज्ञाने षड्भिरिति । पूर्वोक्ताभिश्च रूपारूप्यावचरमार्गदर्शनप्रहाण-
परिज्ञया च ।
ननु च पश्चाद् वक्ष्यति—
“चतुःफलव्यवस्था तु पञ्चकारणसम्भवात् ।
पूर्वत्यागोऽन्यमार्गोप्तिः क्षयसंकलनं फले ॥
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।” (अभि० को० ६.५३)
इति ? भवति प्रहाणसङ्कलनम्, न तु परिज्ञासंकलनम् — इत्यविरोधः । यावत्
कामवैराग्यं न प्राप्त इति । यावच्छब्देन भावनाहेयक्लेशप्रथमप्रकारप्रहाणे
यावद् अष्टमप्रकारप्रहाणेऽपि षड्भिरेव समन्वगतः । परिहीणोऽपि तत इति ।
कामवैराग्यपरिहाण्या हि तत्संकलनविगतः । कामवैराग्यं प्राप्तः पूर्वं पश्चाद्
वेति । अभिसमयात् पूर्वं पश्चाद् वा । कथम् ? लौकिकेन मार्गेण कामवीतरागो
भूत्वा नियममवक्रान्तो मार्गान्वयज्ञाने एकया अवरभागीयप्रहाणपरिज्ञया
१. °क्षान्ति-का० । २. समुदयेऽ°-का० ।
३. निरोधे- का० । ४. अर्हत्त्वं°-का० ।
८६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
संयोजनपर्यवदानपरिज्ञया। परिहीणोऽपि रूपावचरेण पर्यवस्थानेनैकया अवर-
भागीयप्रहाणपरिज्ञया। रूपवैराग्यं प्राप्तो द्वाभ्यामवरभागीयप्रहाण-रूपरागक्षय-
परिज्ञाभ्याम्। परिहीणोऽप्यारूप्यावचरेण१ पर्यवस्थानेनाभ्यामेव ॥ ६९ ॥
किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते, न भूयस्यः ?
यस्मात्
तासां संकलनं धातुवैराग्यफललाभतः ।
द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवति, एकत्वेन व्यवस्थापनम् —
समन्वागतः । यस्मादसावार्यः षोडशक्षणं प्राप्तोऽनागामी एव भवति, न
स्रोतआपन्नः सकृदागामी वा। पञ्चावरभागीयप्रहाणाच्चानागामीति पठ्यते।
तस्माद् दर्शनहेयप्रहाणानां पञ्चावरभागीयप्रहाणस्य च संकलनाद् एकयैवावर-
भागीयप्रहाणपरिज्ञया समन्वागतः । पश्चाद् वा अभिसमयाद् आनुपूर्विकः
कामवैराग्यप्राप्तः एकयैवावरभागीयप्रहाणपरिज्ञया समन्वागतः । अर्हत्त्वप्राप्त
एकयैवेति । तदा परिज्ञासंकलनात् । परिहीणोऽपि रूपावचरेणेति विशेषणं
कामावचरेण परिहाणौ षट्परिज्ञासमन्वागमपरिहारार्थम्, आरूप्यावचरेण च
परिहाणौ द्विपरिज्ञासमन्वागमपरिहारार्थमिति । रूपवैराग्यं प्राप्तो द्वाभ्यामिति ।
अनागामी रूपवीतराग इत्यर्थः ।
धातुवैराग्येण कस्मान्न संकलनं भवति ? फलप्राप्त्यभावात् । धातुवैराग्य-
फलप्राप्तिभ्यां समस्ताभ्यां कारणाभ्यां परिज्ञासंकलनमिष्यते, न केवलेन
परिहीणोऽपि । आरूप्यावचरेणेति । अर्हत्त्वप्राप्तिसंकलितयोरवरभागीयप्रहाण-
रूपरागक्षयपरिज्ञयोरारूप्यावचरेण क्लेशेनाईत्त्वात् परिहाणौ पुनर्लाभात् ।
रूपावचरेण तु परिहाणावेकया समन्वागतः स्यात्, कामावचरेण च षड्भिः
समन्वागतः स्याद् इत्यारूप्यावचरपर्यवस्थानग्रहणम् ॥ ६९॥
अनागाम्यर्हतोरिति । कामवीतरागानागामी इह विवक्षितः, रूपवीतरागा-
नागामिनः परिज्ञाद्वयसमन्वागमवचनात् । न भूयस्य इति । न बहुतराः । आनु-
पूर्विकस्रोतआपन्नतत्वादित्यभिप्रायः । द्वाभ्यां कारणाभ्यामिति । व्याख्यातम् ।
सङ्कलनमिति कोऽर्थः ? एकत्वेन व्यवस्थापनमिति योऽर्थः । तयोश्चावस्थयोरिति ।
कामवीतरागानागाम्यर्हत्त्वावस्थयोरेतदुभयम्—धातुवैराग्यं फलप्राप्तिश्चेति ।
एकपरिज्ञोच्यत इति । रूपावीतरागस्यानागामिन एकावरभागीयप्रहाणपरिज्ञा
अर्हतोऽप्येका सर्वसंयोजनपर्यवदानपरिज्ञेति ।
१. प्रहीणो०-का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८६१
धातुवैराग्यात्, फलप्राप्तितश्च । तयोश्चावस्थयोरेतदुभयं भवति । अतः सर्वं प्रहाणं
संकलय्यैकपरिज्ञोच्यते¹ ।
अथ कः कति परिज्ञास्त्यजति ? लभते वा ?
एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न ॥६७॥
एकां त्यजति अर्हत्त्वात् कामवैराग्याद् वा परिहीयमाणः । द्वे परिज्ञे
त्यजति अनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाणः । पञ्च त्यजति
वीतरागपूर्वी मार्गान्वयज्ञाने । स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च
परिज्ञास्त्यजति । षट् परिज्ञास्त्यजत्यानुपूर्वीकः कामवैराग्यात् ।
लाभोऽप्येवमेव² । कश्चिदेकां³ लभते, यः कश्चिदपूर्वं⁴ लभते ।
“एकां द्वे” इति विस्तरः । एकां कश्चित् जहाति, त्यजतीत्यर्थः । कश्चित्
द्वे, कश्चित् पञ्च । कश्चित् षट् जहाति आप्नोति वा । ‘कश्चिदेकम्, कश्चिद् द्वे,
कश्चित् षट्, कश्चित् पञ्च आप्नोति’ इत्येतन्नास्ति, अत आह—पञ्च नेति ।
पञ्च नैव कश्चिदाप्नोति इति सूत्रार्थनयः ।
वृत्तिस्तु विव्रियते—अर्हत्त्वात् परिहीयमाणो येन केनचित् चित्तेन सर्व-
संयोजनपर्य्यादानपरिज्ञामेकां त्यजति, सङ्कलने तस्या एकैकस्या अर्हत्त्वावस्थाया-
मस्तित्वात् । एवं कामवैराग्यात् परिहीयमाणो रूपवीतरागोऽनागामी एकामे-
वावरभागीयप्रहाणपरिज्ञाम् । द्वे परिज्ञे त्यजतीति । अवरभागीयप्रहाणपरिज्ञाम्,
रूपरागक्षयपरिज्ञां च । कोऽसौ ? इत्याह—अनागामी रूपवीतरागः काम-
वैराग्यात् परिहीयमाण इति । पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञान इति ।
अभिसमयचित्ते षोडशे । स ह्यवरभागीयप्रहाणपरिज्ञालाभे । लौकिकमार्ग-
प्राप्तस्य तस्यानास्रवविसंयोगप्राप्त्या पूर्विकाः पञ्च परिज्ञाः पञ्चदशक्षण-
लाभास्त्यजति । षष्ठीं तु रूपारूप्यावचरमार्गदर्शनहेयप्रहाणपरिज्ञां न त्यजति ।
किन्तु धातुवैराग्यफललाभतोऽत्रावरभागीयप्रहाणपरिज्ञायां सङ्कलितेति तद्रूपेण
सा नोपन्यस्यते । आनुपूर्वीको यो न वीतरागपूर्वो कामवैराग्यात् कारणात्
षट् त्यजति यस्त्रैधातुकान दर्शनप्रहातव्यानां प्रहाणपरिज्ञाः ।
लाभोऽप्येवमिति । कश्चिदेकं लभते पञ्च मुक्त्वा । यावत् षट् लभते ।
यः कश्चिदपूर्वं लभत इति । दर्शनमार्गस्थो भावनामार्गस्थो वा नवानां
१. एका परिज्ञो°-का० । २. लाभे०-का० ।
३. °परिज्ञां-का० । ४. °दपूर्वां-का० ।
अभि० को० ३:८
कश्चिद् द्वे, यः केवलादारूप्यवैराग्यात्¹ परिहीयते । कश्चित् षट्, योऽना-
गामिफलात् परिहीयते । पञ्च तु नैव कश्चिल्लभते ॥ ७० ॥
समाप्तः परिज्ञाप्रसङ्गः ॥
अभिधर्मकोशभाष्येऽनुशयनिर्देशो नाम
पञ्चमं कोशस्थानं समाप्तमिति² ॥
परिज्ञानां योऽप्रतिलब्धपूर्वां प्रतिलभते प्रथमतः, स तामेकां लभते । भावना-
मार्गेऽपि हि वीतरागपूर्वी दर्शनमार्गान्तेऽवरभागीयप्रहाणपरिज्ञामेकां लभते ।
आनुपूर्वीकोऽपि कामवैराग्ये नवमे विमुक्तिमार्गे तामेव लभते । अर्हत्त्वेऽन्या-
मेकां लभत इति । केवलादारूप्यवैराग्यात् परिहीयत इति । नान्यवैराग्यादिति
दर्शयति । स ह्यवरभागीयप्रहाणपरिज्ञाम्, रूपरागक्षयपरिज्ञां च लभते ।
कश्चित् षड् योऽनागामिफलात् परिहीयत इति । आनुपूर्वीकोऽनागामी । न हि
वीतरागपूर्विणः परिहाणिरस्ति; तद्वैराग्यस्य द्विमार्गप्रापणात् । अत एव च
नैव कश्चित् पञ्च लभते । वीतरागपूर्विणो हि यदि परिहाणिरभविष्यत्, स एव
युगपत् पञ्च परिज्ञा अलप्स्यतेति ॥ ७० ॥
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायाम्
अनुशयनिर्देशो नाम पञ्चमं कोशस्थानं
समाप्तम्
१. ०आरूप्यधातुवैराग्यात्-का० । २. श्रीलामावाक्यस्य यदत्र पुण्यम्-का० ।
- नमो बुद्धाय *
षष्ठं कोशस्थानम्
(मार्गपुद्गलनिर्देशः)
उक्तं यथा प्रहाणं परिज्ञां¹ लभते । तदपि च—
क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनातू ।
दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणोक्तम्² । ताविदानीं
दर्शनभावनामार्गौ किमनास्रवौ ? सास्रवौ ? इति वक्तव्यम् । अत इदमुच्यते—
द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः ॥१॥
द्विविधो भावनामार्गः—लौकिकः, लोकोत्तरश्च । दर्शनमार्गस्तु लोकोत्तर
एव, त्रैधातुकप्रतिपक्षत्वात् । नवप्रकाराणां दर्शनहेयानां सकृत्प्रहाणाच्च । न हि
लौकिकस्य एषा शक्तिरस्ति ॥ १ ॥
स्फुटार्थाव्याख्यायाम्
षष्ठं कोशस्थानम्
पञ्चमस्य षष्ठस्य च कोशस्थानयोः सम्बन्धमुपदर्शयन्निदमुपन्यस्यति—
उक्तं यथा प्रहाणमित्यादि । यथा प्रहाणं परिज्ञा लभत इति । फले हेतूपचारादिति
वचनात् । तदपि च "क्लेशप्रहाणमाख्यातम्" उक्तम् । कथम् ? इत्याह—
“सत्यदर्शनभावनावू" इति । द्वन्द्वैकवद्भावनिर्देशः । सत्यानां दर्शनाद् भावनाच्च
भावनाया इति वा सत्यदर्शनभावनात् कारणाद् दर्शनहेया भावनाहेयाश्च
क्लेशा इति विस्तरेणोक्तम् ।
“दशैताः सप्त सप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ।
चत्वारो भावनाहेयाः" (अभि० को० ५. ४)
इत्यादिना । सत्यदर्शनं च दर्शनमार्गेण, सत्यभावनं च भावनामार्गेणेत्यत
इदमुच्यते । ताविदानीं दर्शनभावनामार्गो किमनास्रवौ सास्रावविति ।
१. परिज्ञाख्यां—का० । २. विस्तरेणाख्यातम्—का० ।
८७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
'सत्यदर्शनात्' इत्युक्तम्। कानीमानि सत्यानि ? कति च ?
सत्यान्युक्तानि चत्वारि,
क्वानि ? सास्रवानास्रवधर्मनिर्देशे¹। "अनास्रवा मार्गसत्यम्" इति
स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोगः" इति निरोधसत्यम्, ‘दुःखं
समुदयो लोकः” इत्यत्र दुःखसमुदयसत्ये।
किमेष एवैषामनुक्रमः ? नेत्याह । किं तर्हि ?
दुःखं समुदयस्तथा।
निरोधमार्ग इति,
एष एषामनुक्रमः। स्वभावस्तु यथा पूर्वमुक्तस्तथैवेतिप्रदर्शनार्थस्तथाशब्दः।
स पुनरयम्—
एष यथाऽभिसमयं क्रमः ॥२॥
यस्य हि सत्यस्याभिसमयः पूर्वस्तस्य² पूर्वनिर्देशः। इतरथा हि पूर्वं
हेतुनिर्देशोऽभविष्यत्, पश्चात् फलनिर्देशः। केषांचिदुत्पत्त्यनुकूला देशना, यथा
स्मृत्युपस्थानध्यानादीनाम्। केषांचित् प्ररूपणानुकूला देशना, यथा सम्यक्
मार्गनिर्देशोपन्यास इति सम्बन्धः। त्रैधातुकप्रतिपक्षत्वादिति। दर्शनमार्गस्य ।
लौकिकत्वे सति भवाप्रतिपक्षो न स्यादिति। कि च नवप्रकाराणां दर्शनहेयानां
सकृत्प्रहाणाच्च। न भावनामार्गवत्। न हि लौकिकस्यैषा शक्तिरस्ति।
त्रैधातुकप्रहाणे च प्रकारप्रहाणे च। यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे
शक्तिः, भावनाहेयानामपि लोकोत्तरेण सकृत्प्रहाणप्रसङ्गः। लोकोत्तरेणैव
सकृत्प्रहाणमित्यवधार्यते। न तु सकृत्प्रहाणमेव लोकोत्तरेणेति, अतो न
तत्प्रसङ्गः। भावनाहेया हि क्लेशा दृढाः, सवस्तुत्वात्। अतो लोकोत्तरेणा-
प्येषां न सकृत्प्रहाणम् ॥ १ ॥
इतरथा हीति। यदि यथाभिसमयं निर्देशो नाभिप्रियेत। पूर्वं हेतुनिर्देशः
समुदयसत्यनिर्देशः। हेतूनां लोके पूर्वं दृष्टत्वात्। यथा स्मृत्युपस्थानध्यानादीना-
मिति। तद्यथा स्मृत्युपस्थानादीनामुत्पत्त्यनुकूला देशना। कायस्मृत्युपस्थानं
१. द्र० अभि० को० प्र० को०, ४-८ का० । २. पूर्वस्य—का० ।
.निर्देशः ३ ] षष्ठं कोशस्थानम् ८७३
प्रहाणानाम् । न ह्येष नियमो यत् पूर्वमुत्पन्नानां प्रहाणाय छन्दं जनयति,
पश्चादनुत्पन्नानामनुत्पादायेति । सत्यानां त्वभिसमयानुकूला देशना ।
किं पुनः कारणमेवमेवैषां सत्यानामभिसमयः ? यत्र हि सक्तो येन च बाध्यते
यतश्च मोक्षं प्रार्थयते, तदेवाद्यौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते ।
पश्चात् कोऽस्य हेतुरिति समुदयसत्यम्, कोऽस्य निरोध इति निरोधसत्यम्,
कोऽस्य इति मार्गसत्यम् । व्याधिं दृष्ट्वा तन्निदानक्षयभैषज्यान्वेषणवत् ।
सूत्रेऽप्येष एव सत्यानां दृष्टान्तो दर्शितः । कतमस्मिन् सूत्रे ? “चतुर्भिरङ्गैः
समन्वागतो भिषक् शल्यापहर्त्ता¹” इत्यत्र । यथा च व्यवचारणावस्थायां सत्यपरीक्षा
हि पूर्वमुत्पद्यते यथौदारिकालम्बनतः, सूक्ष्भौदारिकप्रचारतो वा, पूर्वोत्तरहेतु-
फलभावतो वा । ततो वेदनास्मृत्युपस्थानम्, ततश्चित्तस्मृत्युपस्थानमित्येषा-
मुपपत्त्यनुकूला देशना । एवं ध्यानानाम् । आदिशब्देन विमोक्षाभिभ्वायतन-
कृत्स्नायतनादीनामुपपत्त्यनुकूला देशना । केषाञ्चित् प्ररूपणानुकूलेति ।
प्रदर्शनानुकूला । अवबोधानुकूलेत्यर्थः । यथा सम्यक्प्रहाणानामिति । कृष्णशुक्ल-
पक्षयोः प्रत्येकमुत्पन्नानुत्पन्नभेदतः । उत्पन्नं हि सुखावबोधम् नानुत्पन्नम् ।
कृष्णपक्षो वा विनेयजनेन सुखमवबुध्यते । कथम् ? उत्पन्नानां पापकानाम-
कुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं
प्रगृह्णाति प्रणिदधाति । अनुत्पन्नानामनुत्पादाय छन्दं जनयतीति पूर्ववत् ।
अनुत्पन्नानां कुशलानां धर्मानामुत्पादाय छन्दं जनयतीति पूर्ववत् । उत्पन्नानां
स्थितये असम्मोषतायै छन्दं जनयतीति पूर्ववत् । न ह्येष नियमो यत्पूर्वमुत्पन्नानां
प्रहाणाय छन्दं जनयतीति । पश्चादनुत्पन्नानामनुत्पादायेति । किं तर्हि ? पूर्वं
चानुत्पन्नानामनुत्पादाय छन्दं जनयति, पश्चाच्चोत्पन्नानां प्रहाणायेत्येदु-
दाहरणम् । एवं शुक्लपक्षोऽपि योज्यः । सत्यानां त्वभिसमयानुकूलेति । हेतु-
फलयोः पूर्वपश्चाद्भावेन दुःखसमुदयसत्ययोः पश्चात्पूर्वनिर्देशप्रसङ्ग इति
दर्शयति ।
यत्र हि सक्त इति । दुःखसत्ये । येन बाध्यत इति तेनैवम् । यतश्च
मोक्षमिति । तत एव दुःखसत्यात् । तदेवाद्यौ प्रयोगावस्थायाम् । कस्मात् ?
इत्याह—व्यवचारणावस्थायां परीक्षावस्थायाम् । निर्वेधभागीयावस्थायामित्यर्थः ।
व्याधिं दृष्ट्वेति । व्याधिर्दुःखसत्यस्योपमानम् । तन्निदानं समुदयसत्यस्य ।
तत्क्षयो निरोधसत्यस्य । तद्भैषजं मार्गसत्यस्योपमानम् ।
सूत्रेऽप्येष सत्यानां दृष्टान्त इति । व्याध्यादिसूत्रे । कथम् ? “चतुर्भिरङ्गैः
१. तत्पसर्ता—का०।
८७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
तथाभिसमयावस्थायां सत्याभिसमयः। पूर्वावेधात्, दृष्टभूमिनिःसङ्गाश्वप्रसरणवत्¹।
अभिसमय इति कोऽर्थः ? अभिसंबोधः । इणो बोधनार्थत्वात् । कस्मादनास्रव
एव, न सास्रवः ? स हि निर्वाणाभिमुखः सम्यग्बोधः । सम्यगिति तत्त्वेन । तत्र
फलभूता उपादानस्कन्धा दुःखसत्यम् । हेतुभूताः समुदयसत्यम्, समुदेत्यस्मादिति
कृत्वा । अत एव तयोः फलहेतुभावात्नामतो भेदः, न द्रव्यतः । निरोधमार्गयोस्तु
द्रव्यतोऽपि ।
आर्यसत्यानीति सूत्र उच्यन्ते । कोऽस्यार्थः ? आर्याणामेतानि सत्यानि
तस्मादार्यसत्यानीति सूत्र एवोक्तम् । किमन्येषामेतानि मृषा ? सर्वेषामेतानि
सत्यानि; अविपरीतत्वात् । आर्यैस्तु यथैतानि तथा दृष्टानि, नान्यैः । अत आर्याणा-
मेतानि सत्यान्युच्यन्ते न त्वनार्याणाम्; विपरीतदर्शनात् ।
समन्वागतो भिषक् शल्यापहर्ता राजार्हश्च भवति राजयोग्यश्च, राजाङ्गत्त्वे च
संख्यां गच्छति । कतमैश्चतुर्भिः ? आबाधकुशलो भवति, आबाधसमुत्थान-
कुशलः, आबाधप्रहाणकुशलः, प्रहीणस्य चाबाधस्यायत्यामनुत्पादकुशलः। एवमेव
चतुर्भिरङ्गैः समन्वागतस्तथागतोऽर्हन् सम्यक्सम्बुद्धोऽनुत्तरो भिषक् शल्याप-
हर्तेत्युच्यते । कतमैश्चतुर्भिः ? इह भिक्षवस्तथागतोऽर्हन् सम्यक्सम्बुद्ध इदं
दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । अयं दुःखसमुदयः, अयं दुःखनिरोधः,
इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति" इति। पूर्वावेधा-
दिति । पूर्वाक्षेपात् । दृष्टभूमिनिःसङ्गाश्वप्रसरणवदिति । यथा भूमौ दृष्टायां
निःसङ्गमश्वस्य प्रसरणम्, तद्वत् । अश्वधावनवदिति केचित् पठन्ति । 'धावि'
प्रकृत्यन्तरं व्याचक्षते । इणो बोधनार्थत्वादिति । सर्वो गत्यर्थो बोधनार्थोऽपि
भवतीति ।
द्रव्यतोऽपीत्यापिशब्दात् नामतोऽपीति दर्शितम् ।
अविपरीतत्वादिति । यस्मात् तदार्याणामन्येषां चाविपरीतम् । दुःखमेव
नान्यथा । आर्यैस्तु यथैतानि सत्यानि तथा दृष्टानि । दुःखसत्यं दुःखतः
अनित्यतः शून्यतोऽनात्मतश्च । एवं यावन्मार्गो मार्गतः न्यायतः प्रतिपत्तितो
नैर्याणिकतश्च । नान्यैरनार्यैः एवं दृष्टानि । अत आर्याणामेतानि सत्यान्युच्यन्ते ।
न त्वनार्याणां सत्यान्युच्यन्ते । कस्मात् ? विपरीतदर्शनात् । ते हि दुःखमदुःखत
१. धावनवत् — का० ।
निर्देशः ] षष्ठं कोशस्थानम् ८७५
“यदार्याः सुखतः प्राहुस्तत् परे दुःखतो विदुः ।
यत् परे सुखतः प्राहुस्तदार्या दुःखतो विदुः ॥” ( )
इति गाथा । द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे ॥२॥
यदा वेदनैकदेशो दुःखस्वभावः, कथं सर्वे सास्रवाः संस्कारा दुःख-
मित्युच्यन्ते ?
दुःखास्त्रिदुःखतायोगाद् यथायोगमशेषतः ।
मनापा अमनापाश्च तदन्ये चैव सास्रवाः ॥३॥
तिस्रो हि दुःखताः—दुःखदुःखता, विपरिणामदुःखता, संस्कारदुःखता च ।
ताभिर्यथायोगमशेषतः सर्वे सास्रवाः संस्कारा दुःखाः ।
तत्र मनापा विपरिणामदुःखतया, अमनापा दुःखदुःखतया । तेभ्योऽन्ये
संस्कारदुःखतया ।
के पुनर्मनापाः ? केऽमनापाः ? के नोभयथा ?
इत्येवमादिभिराकारैर्दुःखसत्यं पश्यन्ति, समुदयमसमुदयत इत्येवमादिभिः,
निरोधमनिरोधत इत्येवमादिभिः, मार्गममार्गत इत्येवमादिभिरिति ।
तत् परे दुःखतो विदुरिति । तद्यथा निरोधसत्यं व्यथन्तेऽपुनर्भवात् प्रपाता-
दिव बालिशा इति ।
आर्यास्तु दुःखतो विदुरिति उपादानस्कन्धपञ्चकः ।
द्वे आर्याणां सत्ये इति । दुःखसमुदयसत्ये ; अविपरीतदर्शनात् । द्वे आर्ये ।
कुशलतया, अनास्रवतया च । आर्याणां च सत्ये, अविपरीतदर्शनात् । एवमेक-
शेषनिर्देशाच्चार्यसत्ये इति भवति ॥ २ ॥
यदा वेदनैकदेशो दुःखस्वभाव इति । वेदनास्कन्धैकदेशो दुःखदौर्मनस्य-
स्वभावः ।
“यथायोगमशेषतः” इति । मनापा अपि विपरिणामदुःखतया संस्कारदुःख-
तया च दुःखा । अमनापा दुःखदुःखतया संस्कारदुःखतया च । तदन्ये दुःखाः
संस्कारदुःखतयैवेति यथायोगार्थः । मन आप्नुवन्तीति मनापाः । पुनः सन्धि-
करणं चात्रेति व्याख्यातम् । तेभ्योऽन्य इति मनापामनापेभ्योऽन्य इति ।
तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयोऽपि संस्कारा मनापादिसंज्ञां
लभन्ते। सुखाया हि वेदनाया विपरिणामेन दुःखता। सूत्र उक्तम्—"सुखा वेदना
उत्पादसुखा स्थितिसुखा विपरिणामदुःखा" इति। दुःखायाः दुःखस्वभावेनैव दुःखता।
"दुःखा वेदना उत्पाददुःखा स्थितिदुःखा" ( ) इति सूत्रे। अदुःखासुखा-
वेदनायाः संस्कारेणैव दुःखता। "प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखम्" इति।
वेदनावत् तद्वेदनीया अपि संस्कारा वेदितव्याः¹।
तिस्रो वेदना यथाक्रममिति। सुखा वेदना मनापा, दुःखा अमनापा,
अदुःखासुखा नैव मनापा नामनापेत्यर्थः। तद्वशेनेति। वेदनावशेन। अवेदना-
स्वभावा अपि रूपशब्दादयस्तदनुकूलत्वान् मनापादिसंज्ञां लभन्ते। विपरिणामेन
दुःखतेति। अनित्यताविपरिणामेनेत्यर्थः। यथोक्तम्—
"हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये।
इत्यार्त्ता विलपन्तोऽपि गां पतन्ति दिवौकसः"॥ ( )
इति। दुःखस्वभावेनैवेति। उपघातस्वभावेनेत्यर्थः। दुःखा वेदना उत्पाददुःखा
स्थितिदुःखेति। नन्वेषा अर्थापत्तितो विपरिणामसुखा प्राप्नोति, तथा च सति
लक्षणसङ्करः स्यात् ? नेदमस्या लक्षणम्। किं तर्हि ? विदूषणार्थमयमुपदेश
'इति। अथ वा भवत्वेव सात्र। येन रूपेण विदूष्यते, तदेवेहापेक्ष्यते² इति दुःखैव
भवति। यथा—सुखा वेदना उत्पादस्थितिसुखत्वात् सुखापि सती विपरिणाम-
दुःखतया दुःखेत्येव विदूष्यते; विदूषणीयत्वेनाभिप्रीयमाणत्वादिति। संस्कारेणैव
दुःखतेति। संस्करणेनैव जननेनैवेत्यर्थः। यदनित्यम् तद् दुःखम्, यन्न
नियतस्थितम् तद् दुःखम्, यज्जायते विनश्यति च तद् दुःखमित्यर्थः।
तेनोक्तम्—प्रत्ययाभिसंस्करणादिति। प्रत्ययैरभिसंस्क्रियते यस्मात्। तस्मात् तद्
दुःखमिति। वेदनावत्तद्वेदनीया अपि संस्कारा वेदितव्या इति। सुखवेदनीयानां
संस्काराणां विपरिणामेन दुःखता। सुखवेदनीयाः संस्कारा उत्पादसुखाः
स्थितिसुखा विपरिणामदुःखा इति। दुःखवेदनीयानां संस्काराणां दुःखवेदनीय-
स्वभावेनैव दुःखता। दुःखवेदनीयाः संस्कारा उत्पाददुःखा स्थितिदुःखा इति।
अदुःखासुखवेदनीयानां संस्काराणां संस्कारेणैव दुःखता; प्रत्ययाभिसंस्करणात्।
यदनित्यं तद् दुःखमिति।
१. उच्यन्ते—का०।
२. तदेवेपेक्षते—जा०।
निर्देशः ] षष्ठं कोशस्थानम् ८७७
दुःखमेव दुःखता दुःखदुःखता । एवं यावत् संस्कारा एव दुःखतेत्यपरे ।
असाधारणत्वात् मनापामनापानां विपरिणामदुःखदुःखते उक्ते । सर्वे तु
संस्काराः संस्कारदुःखतया दुःखाः । तांस्त्वार्या एव पश्यन्ति ।
आह चात्र—
“ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः ।
अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडां च ॥
करतलसदृशो बालो न वेत्ति^२ संस्कारदुःखतापक्ष्म ।
अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढम्” ॥ इति
न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते, यथार्याणां
भावाग्रिकेष्वपीति । एवं तर्हि मार्गेऽपि^१ संस्कारदुःखताप्रसङ्गः ? संस्कृतत्वात् ।
प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो^२ दुःखम् । न हि तस्योत्पाद आर्याणां
दुःखमेव दुःखता दुःखदुःखता । यावदिति वचनात् विपरिणाम एव
दुःखता विपरिणामदुःखता, संस्कार एव दुःखता संस्कारदुःखतेति वाच्यम् ।
अयं पर्यायो विग्रहेणैव विशिष्टो नार्थेन । स एव ह्यत्रार्थो गृहीतव्यः । असाधा-
रणत्वादिति विस्तरः । मनापाः संस्कारा असाधारणा दुःखदुःखतायाः ।
अतस्तेषामसाधारणत्वाद् विपरिणामदुःखतोक्ता । अमनापाश्चासाधारणा विप-
रिणामदुःखतायाः । अतस्तेषामसाधारणत्वाद् दुःखदुःखतोक्तेति । सर्वे तु
मनापादयः संस्कारदुःखतया दुःखाः, तस्या व्यापिनीत्वात् । यदि सर्वेऽपि तथा
दुःखाः, कस्मात् सर्वे (विपरिणामदुःखतया) न पश्यन्तीति ? अतः आह—
तां त्वार्या एव पश्यन्ति । नान्ये । कथमिदमुपन्यस्यते ? आह चात्रेति सर्वम् ।
एवं तर्हीति । यदि संस्कारदुःखतया सर्वेऽपि संस्कारा दुःखाः, मार्गेऽपि
संस्कारदुःखताप्रसङ्गः । संस्कृतत्वात् । प्रत्ययजनितत्वादित्यर्थः । प्रतिकूलं हि
दुःखमिति लक्षणान्मार्गो न दुःखमिति । किमिदमन्यदेवोच्यते, पूर्वमुक्तम्—
प्रत्ययाभिसंस्करणात् सर्वसंस्कारा अनित्याः । यच्चानित्यम् तद् दुःखमिति
मार्गश्च प्रत्ययाभिसंस्कृतत्वाद नित्यः । तस्माद् दुःखमिति प्रसज्येत । यदि हि
प्रतिकूलतैव दुःखलक्षणमिष्येत् तत्पूर्वोक्तमलक्षणं स्यात्; तच्चेद् दुःखता-
लक्षणम् इदमलक्षणमिति ? नैष दोषः । कथम् ? यदनित्यमार्याणां प्रतिकूलं
१. मार्गस्यापि—का० । २. मागौ न—जा० ।
प्रतिकूलः; सर्वदुःखक्षयावाहनात् । यदपि ते निर्वाणं शान्ततः पश्यन्ति, तदापि
यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्ति, न मार्गस्य । यदापि
दुःखमप्यत्रास्ति तस्माद् दुःखमेवार्यसत्यमुच्यते, सुखस्याल्पत्वात्; मुद्गादिभावेऽपि
माषराश्यपदेशवदित्येके । को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति
व्यवस्येत् ! आह खल्वपि—
“दुःखस्य च हेतुत्वाद् दुःखैश्चानल्पकैः समुदितत्वात् ।
दुःखे च सति तदिष्टेर्दुःखमिति¹ सुखं व्यवस्यन्ति” ॥ इति
सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति ; संस्कारदुःखतैकरसत्वात् ।
अतो दुःखमेवार्यसत्यं व्यवस्थाप्यते, न सुखम् । कथमिदानीं सुखस्वभावां वेदनां
तद् दुःखमित्ययमत्राभिप्रेतोऽर्थः । किं चानित्यमार्याणां प्रतिकूलम् ? यत्सास्रवं
वस्तु । कस्मात् पुनरनास्रवो मार्गस्तथैवानित्योऽपि न चार्याणां प्रतिकूलः ?
इत्यत आह – न हि तस्योत्पाद आर्याणां प्रतिकूलः; सर्वदुःखक्षयावाहनादिति ।
अविशेषाभिधानेऽपि हि लोके विशेषप्रतिपत्तिर्दृष्टा । तद्यथा—गमनाद् गौः,
न च गमनान्महिषोऽपि गौर्भवति । एवं ह्यर्थे नियते गौः (कस्मिंश्चिद्भवति)
कस्माद्भवति ? यस्माद् गच्छतीति । एवमिहापि यत् सास्रवं वस्तु तत्प्रतिकूल-
मार्याणाम् । कस्मात् ? अनित्यत्वादिति । यदेव दुःखतो दृष्टमिति । सास्रवं
वस्तु । तस्यैव निरोधं शान्ततः पश्यन्ति । न मार्गस्येत्यवगन्तव्यम् । मुद्गादि-
भावेऽपि माषराश्यपदेशवदिति । माषराशौ मुद्गमसूरकलायादिसद्भावेऽप्यल्प-
त्वात् मुद्गादीनां माषराशिरिति लोके व्यपदेशो दृश्यते, तद्वत् । परिषेकसुखाणु-
केनेति । सुखं च तदणुकं च सुखाणुकम्, परिषेकेण सुखाणुकं परिषेक-
सुखाणुकम्, तेन ।
आह खल्वपीति । भदन्तकुमारलातः दुःखसन्तत्याम् । दुःखस्य च हेतुत्वाद्
इति । सुखं दुःखस्य हेतुर्दुःखवेदनीयेन कर्मणा सम्प्रयुक्तत्वादिति ।
दुःखैश्चानल्पकैः समुदितत्वात् । यस्माच्चातिबहुभिर्दुःखैः परसेवा-
कृत्यादिकृतैः समुदितं सुखमुत्पद्यते । दुःखे च सति तदिष्टेः । यस्माच्च
क्षुत्पिपासादिकृते दुःखे सति भोजनपानादिकृतं सुखमिष्टम्,
नान्यथा । अत एभ्यः कारणेभ्यो दुःखमिति सुखं व्यवस्यन्तीति ।
सहैव तु सुखेनेति । तुशब्दः पूर्वपक्षव्यावर्तनार्थः । संस्कारदुःखतैकरसत्वादिति ।
संस्कारदुःखतैकप्रकारत्वात् । कथमिदानीं सुखस्वभावामिति । कथमदुःखस्वभावां
१-१. दुःखं सुखमिति—का० ।
निर्देशः ] षष्ठं कोशस्थानम् ९७६
दुःखतः पश्यन्ति ? अनित्यतया प्रतिकूलत्वात् । यथा रूपसंज्ञादीन्यपि दुःखतः
पश्यन्ति । न च तान्येवं दुःखानि, यथा दुःखा वेदनेति ।
यस्तु मन्यते—दुःखहेतुत्वादिति । तस्यासौ समुदायाकारः स्यान्न दुःखा-
कारः । आर्याणां च रूपारूप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्त्तते¹ ! न हि तेषां²
दुःखवेदनाहेतुः स्कन्धा भवन्ति । संस्कारदुःखता च सूत्रे किमर्थमुक्ता³ भवेत् !
यदि तर्ह्यनित्यत्वात् दुःखतः पश्यन्ति, अनित्यदुःखाकारयोः कः
प्रतिविशेषः ? उदयव्ययधर्मित्वादनित्यं पश्यन्ति । यथा⁴ प्रतिकूलत्वाद् दुःखम् ।
अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति ।
वेदनां दुःखतः पश्यन्ति । अनित्यतया प्रतिकूलत्वादिति । अनित्यत्वात् प्रतिकूलं
प्रतिकूलत्वाद् दुःखतः पश्यन्तीत्यर्थः । यथा रूपसंज्ञादीन्यपीति । यथा रूपसंज्ञा-
संस्कारविज्ञानान्यपि दुःखतः पश्यन्ति । न च तान्येवं दुःखानि । यथा दुःखा
वेदना । तस्या उपघातकस्वभावत्वात् , तेषां वा तल्लक्षणत्वात् ।
यस्तु मन्यत इति । भदन्तकुमारलातः । तस्य भदन्तस्यासौ समुदायाकारः
स्यान्न दुःखाकारः । दुःखहेतुतो दर्शनात् । किञ्च—आर्याणां चानागामिनां
रूपारूप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्त्तते । नैव प्रवर्त्तते इत्यर्थः । न हि तेषाम-
नागामिनां दुःखवेदनाहेतुः दुःखाया वेदनाया हेतुः । के ? स्कन्धा रूपारूप्या-
वचराः । कस्मान्न हेतुः ? पुनर्दुःखस्थानानागमनात् । संस्कारदुःखता च सूत्रे
किमर्थमुक्ता भवेदिति । यदि दुःखहेतुत्वात् सुखमपि दुःखतः पश्यन्ति, येयं
संस्कारदुःखतोक्ता—'यदनित्यम् तद् दुःखम्' इति, सा किम्प्रयोजना ? दुःख-
हेतुत्वेनैव तत्प्रयोजनसिद्धेः ।
दुःखहेतुवाद्याह—यदि तर्हीति । यदि यदनित्यम् तद् दुःखमित्यनित्यत्वाद्
दुःखतः पश्यन्ति न दुःखहेतुत्वादनित्यदुःखाकारयोः कः प्रतिविशेषः ।
अत्राचार्य आह—उदयव्ययधर्मित्वादिति विस्तरः । यथा प्रतिकूलत्वाद्
दुःखम् तथा तत्प्रतिपादयन्नाह—अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्या-
कारो दुःखाकारमाकर्षतीति । तदुक्तं भवति—यदिदमुक्तं 'यदनित्यम् तद् दुःखम्'
इति, नाकात्वादेवमुक्तम्; अपि त्वनित्यं तत् सुखं पश्यतां प्रतिकूलं भवति ।
प्रतिकूलत्वाद् दुःखतः पश्यन्तीति ।
१. प्रवर्तेत—का० । २. पुनस्तेषां—का० ।
३. पृथगुक्ता—का० । ४. का० पुस्तके नास्ति ।
नास्त्येव सुखा वेदनेत्येकीयाः, दुःखैव तु सर्वा। कथमिदं गम्यते ?
सूत्राद्, युक्तितश्च। कथं तावत् सूत्रात् ? उक्तं हि भगवता—"यत् किंचिद्वे-
दितमिदमत्र दुःखस्य" इति, "सुखा¹ वेदना दुःखतो द्रष्टव्या" इति, "दुःखे
सुखमिति संज्ञाविपर्यासः" इति। एवं तावत् सूत्रात्। कथं² युक्तितः ? सुखहेत्वन्य-
वस्थानात्। य एव हि केचित् पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवः, त
एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते। न च युक्ता सुखहेतु-
वृद्ध्या समेन वाऽन्यस्मिन् काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवः, न
सुखस्य। अन्ते तु तद् दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति। एवमीर्यापथ-
विकल्पेऽपि वक्तव्यम्। दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च। न हि तावत्
सुखमिति वेद्यते किञ्चिद् यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्ण-
श्रम~~[.....]~~। तस्मात् प्रतीकार एवाविदुषां सुखबुद्धिः, न सुखे
दुःखविकल्पे च बालाः सुखबुद्धिमुत्पादयन्ति, यथा—अंशादंशं भारं
सञ्चारयन्तः।
अस्त्येवेत्याभिधार्मिकाः। एष एव च न्यायः। कथं कृत्वा ? इदं हि
तावदयं प्रष्टव्यः सुखापवादी—किमिदं दुःखं नाम, यद् बाधनात्मकं चेत्,
एकीया इति। भदन्तश्रीलातादयः। इदमत्र दुःखस्येति। इदमत्र दुःखस्य
लक्षणमित्यर्थः। सुखा वेदना दुःखतो द्रष्टव्येति। अपरं सूत्रपदम्। शीतोष्णादय
इति। आदिशब्देनाम्लमधुरादयो गृह्यन्ते। अत्युपयुक्ता अतिपरिभुक्ताः।
अकालोपयुक्ताश्चेति। तद्यथा शीता हेमन्ते, उष्णा ग्रीष्मे। समेन वेति।
सुखहेतुना। एवमीर्यापथविकल्पेऽपि वक्तव्यमिति। य एव हि शयनादय
इष्यन्ते सुखहेतवः त एवेति सर्वं यावद् व्यक्तिमापद्यन्त इति वक्तव्यम्।
दुःखप्रतीकारे च सुखबुद्धेः। किम् ? नास्ति सुखा वेदनेति प्रकृतम्। दुःखविकल्पे
च। किम् ? सुखबुद्धेः। तथैव नास्ति सुखा वेदनेति। दुःखप्रतीकारे सुखबुद्धिं
प्रतिपादयन्नाह—न हि तावत्सुखमिति विस्तरः। दुःखविकल्पेनेति प्रतिपादय-
न्नाह—दुःखविकल्पे च बाला इति विस्तरः। अंशादंशं भारं सञ्चारयन्तो भार-
वाहका दुःख एवावस्थिते भारातिक्रामणे सुखमिति बुद्धिमुत्पादयन्ति।
१. दुःखा—का०। २. कथः—का०।
कथमिति वक्तव्यम् ? उपघातकं चेत् , अनुग्राहकं सुखमिति सिद्धम् । अनभिप्रेतं
चेत् , अभिप्रेतं सुखमिति सिद्धम् । तदेव ह्यभिप्रेतं पुनरनभिप्रेतं१ भवत्यार्याणां
नैवाल्पकाले । तस्मादनिष्पन्नमभिप्रेतत्वं चेत् ? न; अन्यथाऽनभिप्रेतत्वात् ।
या हि वेदना स्वेन लक्षणेनाभिप्रेता, नासौ पुनस्तेनैव जात्वनभिप्रेता भवति । तथा
ह्येनामाकारान्तरेण विदूषयन्त्यार्याः, प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां
च विपरिणामिनीं चानित्यां च, येनानभिप्रेता भवति । न तु खलु स्वलक्षणाकारेण ।
यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्, यतो वैराग्यार्थ-
माकारान्तरेणापि२ दोषवतीं पश्येयुः । तस्मादस्त्येव स्वलक्षणतः सुखा वेदना ॥
यत्तु भगवतोक्तम्—"यत् किञ्चिद्वेदितमिदमत्र दुःखस्य" इति तद्भगवतैव
नीतार्थम्—"संस्कारानित्यतामानन्द मया सन्धाय भाषितं संस्कारविपरिणामतां च,
यत् किञ्चिद्वेदितमिदमत्र दुःखस्य" इति । अतो न दुःखदुःखतां सन्धायैतदुक्तमिति
सिद्धं भवति । यदि च स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्, किमर्थमार्या-
नन्द एवं भगवन्तमप्रक्ष्यत्—'तिस्र इमे वेदना उक्ता भगवता सुखा दुःखाऽ-
दुःखासुखा च । उक्तं चेदं भगवता—यत् किञ्चिद्वेदितमिदमत्र दुःखस्य इति ।
किं नु सन्धाय भगवता भाषितम्—यत्किञ्चिद्वेदितमिदमत्र दुःखस्य' इति । एवं हि
एष एव च न्याय इति । आचारः । अनभिप्रेतं भवत्यार्याणामिति कामसुखम् ।
अन्यथानभिप्रेतत्वादिति । प्रमादपदत्वादीना कारान्तरेण । तदर्थं दर्शयन्नाह—
या हि वेदनेति विस्तरः । प्रमादपदमिति । कुशलप्रच्युतिकारणमित्यर्थः ।
महाभिसंस्कारसाध्यां च विपरिणामिनीं च । समनन्तरदुःखोत्पादिनीमदुःखा-
सुखोत्पादिनीं चेत्यर्थः । न्यूनरूपत्वमापन्नामिति वा । अनित्यां च विनाशिनीं
चेत्यर्थः । न तु खलु स्वलक्षणाकारेणेति । अनुग्राहकस्वलक्षणाकारेण आर्याणा-
मपि हि सुखवेदनानुग्राहकेभ्यो विसंवादः । यदि चासौ सुखा वेदना स्वेनात्मना-
नुग्राहकात्मनानभिप्रेता भवेत् नैव तस्यां सुखायां वेदनायां कस्यचिद्रागो भवेत् ।
दुःखवेदनावदित्यभिप्रायः । यतो वैराग्यार्थमिति । यतः कारणात् वैराग्यार्थ-
माकारान्तरेणापि दोषवतीं पश्येयुः । अन्यथानायासेनैव रागभावसिद्धेः
वैराग्यार्थं प्रयत्नोऽनर्थकः स्यात् ।
उक्तं चेदं भगवतेति । स्थविरानन्दवचनमेवैतत् सूत्रपदम् । एवं हि
१. अनभिप्रेतं—जा० । २. प्रकारान्तरेणापि—का० ।
८८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
सोऽप्रक्ष्यत्—'किं नु संधाय भगवता भाषितं तिस्रो वेदनाः' इति । भगवानपि चैवं^१
व्याकरिष्यत्—'इदं मया संधाय भाषितं तिस्रो वेदनाः' इति, न त्वेवमाह ।
तस्मात् सन्त्येव स्वभावतस्तिस्रो वेदनाः । 'इदं तु संधाय मया भाषितं
यत्किंचिद्वेदितमिदमत्र दुःखस्य' इत्याभिप्रायिकमेतद्वाक्यं दर्शयति ।
यदप्युक्तम्—"सुखा वेदना दुःखतो द्रष्टव्या" इति । उभयं तस्यामस्ति ।
सुखत्वं च स्वभावतो मनापत्वाद्, दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मित्वात्^२ ।
सा तु सुखतो दृश्यमाना बन्धाय कल्पते, तदास्वादनात् । दुःखतो दृश्यमाना
मोक्षाय कल्पते, तद्वैराग्यादिति । यथा दृश्यमाना मोक्षाय कल्पते तथैनां
द्रष्टुमाज्ञापयन्ति बुद्धाः ।
कथमिदं गम्यते—स्वभावतः सा सुखेति ? यदाह—
"संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् ।
वेदना दुःखतः प्रोक्ता सम्बुद्धेन प्रजानता ॥ इति ( ) ।
यदपि चोक्तम्—"दुःखे सुखमिति संज्ञाविपर्यासः" इति ? आभिप्रायिक
एष निर्देशः । लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च । तत्र सुखां
सोऽप्रक्ष्यदिति । यत्किंचिद्वेदितम् । इदमत्र दुःखस्येति एतदयुक्तरूपं वचनमिति
पश्यन् स्थविरानन्दस्तदेव पृष्टवान् । यत्किंचिद्वेदितमिदमत्र दुःखस्येति
विरुद्धमेवेति कृत्वा । यदि तु तिस्रो वेदना इत्येतदयुक्तरूपमद्रक्ष्यत्, तदेवा-
प्रक्ष्यत्, किं नु संधाय भगवता भाषितं तिस्रो वेदना इत्येतद् विरुद्धमेवेति
कृत्वा । भगवानपि चैवं व्याकरिष्यदिदं मया सन्धाय भाषितं तिस्रो वेदना
इति । न त्वेवं व्याकरिष्यत् । संस्कारानित्यतामानन्द सन्धाय मया भाषितम्,
संस्कारविपरिणामताम् । यत्किंचिद् वेदितमिदमत्र दुःखस्येति । न त्वेवमाह ।
पुनश्च तिसृणां वेदनानां वचनात् तस्मात् सन्त्येव स्वभावतस्तिस्रो वेदनाः ।
इदं तु संधाय मया भाषितं यत्किंचिद् वेदितमिदमत्र दुःखस्येति वचनादाभि-
प्रायिकमेतद्वाक्यं दर्शयति भगवान् । यत्किंचिद् वेदितमत्र दुःखस्येति संस्कार-
विपरिणामताभिप्रायत् । विपरिणामानित्यधर्मित्वादिति । विपरिणामधर्मित्वा-
दनित्यधर्मित्वाच्च । विपरिणामः पुनरन्यथात्वम् । कामगुणा इति । इष्टानां
१. भगवानप्येवं—का० । २. ०धर्मत्वात्—का० ।
वेदनां पर्यायेण दुःखां सतीमेकान्तसुखां पश्यतो विपर्यासः । एवमुपपत्तिम् ।
तस्मान्नान्तः सुखवेदनाऽभावसिद्धिः ।
यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत्, 'तिस्रो वेदनाः' इति
वचने को गुणोऽभविष्यत् । लोकानुवृत्त्येति चेत् न ? सर्ववेदितदुःखत्वस्य
संस्कारविपरिणामानित्यतां संधायभाषितवचनात्, यथाभूतवचनाच्च । “यच्च
सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्या” इति विस्तरेणोक्त्वा
“येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक् प्रज्ञया दृष्टानि, त्रीणि चास्य
संयोजनानि प्रहीणानि भवन्ति” इत्येवमादि । लोकोऽपि च कथं दुःखां वेदनां
त्रिविधां व्यवस्येत् !
मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् ? न ; सुखस्यापि
त्रिविधत्वात् मृद्वादिषु दुःखेष्वधिमात्राद