सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 891, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 891

८७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
'सत्यदर्शनात्' इत्युक्तम्। कानीमानि सत्यानि ? कति च ?
सत्यान्युक्तानि चत्वारि,
क्वानि ? सास्रवानास्रवधर्मनिर्देशे¹। "अनास्रवा मार्गसत्यम्" इति
स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोगः" इति निरोधसत्यम्, ‘दुःखं
समुदयो लोकः” इत्यत्र दुःखसमुदयसत्ये।
किमेष एवैषामनुक्रमः ? नेत्याह । किं तर्हि ?
दुःखं समुदयस्तथा।
निरोधमार्ग इति,
एष एषामनुक्रमः। स्वभावस्तु यथा पूर्वमुक्तस्तथैवेतिप्रदर्शनार्थस्तथाशब्दः।
स पुनरयम्—
एष यथाऽभिसमयं क्रमः ॥२॥
यस्य हि सत्यस्याभिसमयः पूर्वस्तस्य² पूर्वनिर्देशः। इतरथा हि पूर्वं
हेतुनिर्देशोऽभविष्यत्, पश्चात् फलनिर्देशः। केषांचिदुत्पत्त्यनुकूला देशना, यथा
स्मृत्युपस्थानध्यानादीनाम्। केषांचित् प्ररूपणानुकूला देशना, यथा सम्यक्
मार्गनिर्देशोपन्यास इति सम्बन्धः। त्रैधातुकप्रतिपक्षत्वादिति। दर्शनमार्गस्य ।
लौकिकत्वे सति भवाप्रतिपक्षो न स्यादिति। कि च नवप्रकाराणां दर्शनहेयानां
सकृत्प्रहाणाच्च। न भावनामार्गवत्। न हि लौकिकस्यैषा शक्तिरस्ति।
त्रैधातुकप्रहाणे च प्रकारप्रहाणे च। यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे
शक्तिः, भावनाहेयानामपि लोकोत्तरेण सकृत्प्रहाणप्रसङ्गः। लोकोत्तरेणैव
सकृत्प्रहाणमित्यवधार्यते। न तु सकृत्प्रहाणमेव लोकोत्तरेणेति, अतो न
तत्प्रसङ्गः। भावनाहेया हि क्लेशा दृढाः, सवस्तुत्वात्। अतो लोकोत्तरेणा-
प्येषां न सकृत्प्रहाणम् ॥ १ ॥
इतरथा हीति। यदि यथाभिसमयं निर्देशो नाभिप्रियेत। पूर्वं हेतुनिर्देशः
समुदयसत्यनिर्देशः। हेतूनां लोके पूर्वं दृष्टत्वात्। यथा स्मृत्युपस्थानध्यानादीना-
मिति। तद्यथा स्मृत्युपस्थानादीनामुत्पत्त्यनुकूला देशना। कायस्मृत्युपस्थानं
१. द्र० अभि० को० प्र० को०, ४-८ का० । २. पूर्वस्य—का० ।