अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 896, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ८७७
दुःखमेव दुःखता दुःखदुःखता । एवं यावत् संस्कारा एव दुःखतेत्यपरे ।
असाधारणत्वात् मनापामनापानां विपरिणामदुःखदुःखते उक्ते । सर्वे तु
संस्काराः संस्कारदुःखतया दुःखाः । तांस्त्वार्या एव पश्यन्ति ।
आह चात्र—
“ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः ।
अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडां च ॥
करतलसदृशो बालो न वेत्ति^२ संस्कारदुःखतापक्ष्म ।
अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढम्” ॥ इति
न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते, यथार्याणां
भावाग्रिकेष्वपीति । एवं तर्हि मार्गेऽपि^१ संस्कारदुःखताप्रसङ्गः ? संस्कृतत्वात् ।
प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो^२ दुःखम् । न हि तस्योत्पाद आर्याणां
दुःखमेव दुःखता दुःखदुःखता । यावदिति वचनात् विपरिणाम एव
दुःखता विपरिणामदुःखता, संस्कार एव दुःखता संस्कारदुःखतेति वाच्यम् ।
अयं पर्यायो विग्रहेणैव विशिष्टो नार्थेन । स एव ह्यत्रार्थो गृहीतव्यः । असाधा-
रणत्वादिति विस्तरः । मनापाः संस्कारा असाधारणा दुःखदुःखतायाः ।
अतस्तेषामसाधारणत्वाद् विपरिणामदुःखतोक्ता । अमनापाश्चासाधारणा विप-
रिणामदुःखतायाः । अतस्तेषामसाधारणत्वाद् दुःखदुःखतोक्तेति । सर्वे तु
मनापादयः संस्कारदुःखतया दुःखाः, तस्या व्यापिनीत्वात् । यदि सर्वेऽपि तथा
दुःखाः, कस्मात् सर्वे (विपरिणामदुःखतया) न पश्यन्तीति ? अतः आह—
तां त्वार्या एव पश्यन्ति । नान्ये । कथमिदमुपन्यस्यते ? आह चात्रेति सर्वम् ।
एवं तर्हीति । यदि संस्कारदुःखतया सर्वेऽपि संस्कारा दुःखाः, मार्गेऽपि
संस्कारदुःखताप्रसङ्गः । संस्कृतत्वात् । प्रत्ययजनितत्वादित्यर्थः । प्रतिकूलं हि
दुःखमिति लक्षणान्मार्गो न दुःखमिति । किमिदमन्यदेवोच्यते, पूर्वमुक्तम्—
प्रत्ययाभिसंस्करणात् सर्वसंस्कारा अनित्याः । यच्चानित्यम् तद् दुःखमिति
मार्गश्च प्रत्ययाभिसंस्कृतत्वाद नित्यः । तस्माद् दुःखमिति प्रसज्येत । यदि हि
प्रतिकूलतैव दुःखलक्षणमिष्येत् तत्पूर्वोक्तमलक्षणं स्यात्; तच्चेद् दुःखता-
लक्षणम् इदमलक्षणमिति ? नैष दोषः । कथम् ? यदनित्यमार्याणां प्रतिकूलं
१. मार्गस्यापि—का० । २. मागौ न—जा० ।