सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 894, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 894

निर्देशः ] षष्ठं कोशस्थानम् ८७५
“यदार्याः सुखतः प्राहुस्तत् परे दुःखतो विदुः ।
यत् परे सुखतः प्राहुस्तदार्या दुःखतो विदुः ॥” ( )
इति गाथा । द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे ॥२॥
यदा वेदनैकदेशो दुःखस्वभावः, कथं सर्वे सास्रवाः संस्कारा दुःख-
मित्युच्यन्ते ?
दुःखास्त्रिदुःखतायोगाद् यथायोगमशेषतः ।
मनापा अमनापाश्च तदन्ये चैव सास्रवाः ॥३॥
तिस्रो हि दुःखताः—दुःखदुःखता, विपरिणामदुःखता, संस्कारदुःखता च ।
ताभिर्यथायोगमशेषतः सर्वे सास्रवाः संस्कारा दुःखाः ।
तत्र मनापा विपरिणामदुःखतया, अमनापा दुःखदुःखतया । तेभ्योऽन्ये
संस्कारदुःखतया ।
के पुनर्मनापाः ? केऽमनापाः ? के नोभयथा ?
इत्येवमादिभिराकारैर्दुःखसत्यं पश्यन्ति, समुदयमसमुदयत इत्येवमादिभिः,
निरोधमनिरोधत इत्येवमादिभिः, मार्गममार्गत इत्येवमादिभिरिति ।
तत् परे दुःखतो विदुरिति । तद्यथा निरोधसत्यं व्यथन्तेऽपुनर्भवात् प्रपाता-
दिव बालिशा इति ।
आर्यास्तु दुःखतो विदुरिति उपादानस्कन्धपञ्चकः ।
द्वे आर्याणां सत्ये इति । दुःखसमुदयसत्ये ; अविपरीतदर्शनात् । द्वे आर्ये ।
कुशलतया, अनास्रवतया च । आर्याणां च सत्ये, अविपरीतदर्शनात् । एवमेक-
शेषनिर्देशाच्चार्यसत्ये इति भवति ॥ २ ॥
यदा वेदनैकदेशो दुःखस्वभाव इति । वेदनास्कन्धैकदेशो दुःखदौर्मनस्य-
स्वभावः ।
“यथायोगमशेषतः” इति । मनापा अपि विपरिणामदुःखतया संस्कारदुःख-
तया च दुःखा । अमनापा दुःखदुःखतया संस्कारदुःखतया च । तदन्ये दुःखाः
संस्कारदुःखतयैवेति यथायोगार्थः । मन आप्नुवन्तीति मनापाः । पुनः सन्धि-
करणं चात्रेति व्याख्यातम् । तेभ्योऽन्य इति मनापामनापेभ्योऽन्य इति ।