अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] पञ्चमं कोशस्थानम् ८१३
चैतदेवं यत् परमार्थशून्यतायामुक्तं भगवता—"चक्षुरुत्पद्यमानं न कुतश्चि-
दागच्छति निरुध्यमानं न क्वचित् संनिचयं गच्छति। इति हि भिक्षवश्चक्षुरभूत्वा
भवति भूत्वा च प्रतिगच्छति” इति। यदि चानागतं चक्षुः स्यान्नोक्तं स्याद्—भूत्वा
न भवतीति। वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत् ? न; अध्वनो भावादनर्थान्तर-
त्वात्। अथ स्वात्मन्यभूत्वा भवति ? सिद्धमिदमनागतं चक्षुर्नास्तीति।
यदप्युक्तम्—"द्वयं प्रतीत्य विज्ञानस्योत्पादात्" इति, इदं तावदिह
सम्प्रधार्यम्—यन्मनः प्रतीत्य धर्मंश्चोत्पद्यते मनोविज्ञानम्, किं तस्य यथा मनोजनकः
प्रत्यय एवं धर्माः, आहोस्विदालम्बनमात्रं धर्मा इति। यदि तावत् जनकः प्रत्ययो
धर्माः, कथं यदनागतं सहस्रैर्भविष्यति१ वा, न वा तदिदानीं विज्ञानं जनयिष्यति।
निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपद्यते। अथालम्बनमात्रं धर्मा भवन्ति ?
अतीतानागतमप्यालम्बनं भवतीति ब्रूमः। यदि नास्ति कथमालम्बनम् ? अत्रे-
दानीं ब्रूमः—यदा तदालम्बनं तथास्ति, कथं तदालम्बनम् अभूत् भविष्यति
चेति। न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति। किं तर्हि ?
इत्थं चैतदेवमिति। यथाऽनागतं द्रव्यतो नास्त्यतीतं चेति। वर्त्तमानेऽ-
ध्वनीति विस्तरः। वर्तमानभावेनाभूत्वा भवतीत्यर्थः। न, अध्वनो भावादनर्था-
न्तरत्वात्। नैव तदेवम्। अध्वनः प्रत्युत्पन्नस्य भावाच्चक्षुःसंज्ञाकादनर्थान्तर-
त्वाद्। अद्रव्यान्तरत्वादित्यर्थः। य एव वर्तमानोऽध्वा स एव भावः, तत् कथं
स एव वर्तमानः स्वात्मन्यध्वन्यभूत्वा भविष्यति। तथा ह्युक्तम्—"त एवाध्वा
कथावस्तु" (अभि० को० १.७) इति।
अथ स्वात्मनि चक्षुषि चक्षुर्भूत्वा भवति, सिद्धमिदम्—अनागतं चक्षुर्नास्ति।
आलम्बनमात्रमिति। मात्र-शब्दो जनकत्वव्यावर्त्तनार्थः। तद्रूपोत्पत्तेरालम्बनम्
धर्मा इत्यभिप्रायः। यदनागतं सहस्रैरिति। सन्निकृष्टमप्यनागतं जनकं न
युज्यते, किमङ्ग अतिचिरेण कालेन यद् भविष्यति ! नहि पूर्वकालीनस्य फलस्य
पश्चात्कालीनो हेतुर्युज्यत इति। निर्वाणं चेति। निर्वाणं हि विज्ञानं निरुद्धं न
जनयेत्। संसारप्रवृत्तिनिरोधदित्यभिप्रायः। अभूद् भविष्यति चेति। यद्
वर्तमानावस्थायां रूपमभूत्, भविष्यांत च तदालम्बनमित्यर्थः। कथं ज्ञायते
१. कल्पसहस्रेण ०---का०।
८१४ भाषस्फुटार्थासहितेऽभिधर्मकोशे [अनुशय-
अभूदिति । यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते ।
यथा चानागतं वर्तमानं भविष्यति तथा बुद्ध्या गृह्यते । यदि च तत्तथैवास्ति
वर्त्तमानं प्राप्नोति, अथ नास्ति असदप्यालम्वनं भवतीति सिद्धम् ।
तदेव तद्विकीर्णमिति चेत् ? न; विकीर्णास्याग्रहणात् । यदि च तत्तदेव रूपं
केवलं परमाणुशो विभक्तम् ? एवं सति परमाणवो नित्याः स्युः१ । परमाणु-
सञ्चयविभागमात्रं चैवं सति प्रप्नोति । न तु किञ्चिदुत्पद्यते नापि निरुध्यत
इत्याजीविकवादः परिगृहीतो२ भवति ।
सूत्रं चापविद्धं भवति—"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इति
एवम्—तदालम्ब्यते, न पुनरस्तीति ? अत आह—नहि कश्चिदतीतं रूपं वेदनां
वा स्मरन्नस्तीति पश्यति, किं तर्हि ? अभूदिति स्मरति तद्रूपं यथा दृष्टं यथानुभूतां
च वेदनां चक्षुर्विज्ञानानुभवबलेन । यथा खल्वपीति । विस्तरेणाचार्य एवोपचय-
हेतुमाह। वर्तमानरूपमिव भूतं भविष्यच्च गृह्यत इत्यभिप्रायः । यदि च
तथैवास्तीति । यथा वर्तमानम् । वर्तमानं तत् प्राप्नोति । अथ नास्ति तत्तथैव,
असदप्यालम्बनं भवतीति सिद्धम्; वर्तमानवद् रूपस्याभावात् । तस्य च स्मर्य-
माणत्वात् । तदेव तद्विकीर्णमिति । यदेव तद् वर्तमानम्, तदेव विकीर्णमतीता-
नागतम् । न, विकीर्णास्याग्रहणादिति । न युक्तमेतत्; विकीर्णस्याग्रहणात् ।
पूर्वं न विकीर्णम्, इदानीं विकीर्णमेतद्रूपम्—इत्येवमस्याग्रहणात् । यदि च तत्
तदेवेति विस्तरः । यदि च वर्तमानावस्थायां पिण्डीभूतं रूपम्, तदतीतावस्थाया-
मनागतावस्थायां च परमाणुषु विभक्तम्, अतो न वर्तमानवद् गृह्यते । एवं सति
तादवस्थ्यान्नित्याः परमाणवः स्युः । अनागताः प्रत्युत्पन्ना अतीताश्च त एव त
इति । एवं च सति परमाणुसञ्चयविभागमात्रमेव प्राप्नोति, न तु कश्चिदुत्पादो
नापि निरोध इत्याजीविकानां पाषण्डिनां वादः परिगृहीतो भवति ।
तथा चेष्यमाणे सूत्रमपास्तं भवति—"चक्षुर्भिक्षवः उत्पद्यमानं न
कुतश्चिदागच्छति । निरुध्यमानं न क्वचित् सन्निचयं गच्छति । इति हि
भिक्षवः चक्षुरभूत्वा भवति, भूत्वा च प्रतिविगच्छति” ( ) इति ।
कथं पुनरिदं सूत्रमपविद्ध विरोधितं भवति ? यस्माच्चक्षुरुत्पद्यमानं स्वेन
रूपेण न कुतश्चिद् आगच्छतीत्येतत्पदं वाधितं भवति । निरुध्यमानं न क्वचित्
सन्निचयं गच्छतीत्येतदपि पदं बाधितं भवति; अतीतेऽध्वनि तत्परमाणूनां
१. प्राप्नुवन्ति—का० । २. आलम्बितो—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८१५
विस्तरः । अपरमाणुसंचितानां वेदनादीनां कथं विप्रकीर्णत्वम्¹ । तेऽपि च यथो-
त्पन्नानुभूताः स्मर्यन्ते । यदि च ते तथैव सन्ति, नित्याः प्राप्नुवन्ति । अथ न
सन्ति, असदप्यालम्वनमिति सिद्धम् । यद्यसदप्यालम्वनं स्यात्, त्रयोदशमप्या-
लम्वनायतनं² स्यात् ।
अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् ? एतदेव
नामालम्बनम् । एवं तर्हि नाम एव नास्तीति प्रतीयते । यश्च शब्दस्य प्राग-
भावमालम्बते किं तस्यालम्बनम् ? शब्द एव । एवं तर्हि यः शब्दाभावं प्रार्थयते
तस्य शब्द एव कर्तव्यः स्यात् । अनागतावस्थ इति चेत् ? सति कथं नास्ति-
बुद्धिः । वर्तमानो नास्तीति चेत् ? न; एकत्वात् । यो³ वा³ तस्य विशेषस्तस्या-
भूत्वाभावसिद्धिः । तस्मादुभयं विज्ञानस्यालम्बनम्—भावश्च, अभावश्च ।
विप्रकीर्णसञ्चितत्वाभ्युपगमात् । अपरमाणुसञ्चितानामिति । वेदनादीनामपर-
माण्वात्मनां कथं विप्रकीर्णत्वम् ? मूर्तानां हि सञ्चितत्वं विप्रकीर्णत्वं वा अभवत्
भवेत् , नामूर्तानाम् । तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते इति । वर्तमानरूपा
एव स्मर्यन्ते । यदि च ते तथैव सन्ति यथा वर्तमानाः, नित्याः प्राप्नुवन्ति ।
अथ न सन्ति तद्रूपाः, असदप्यालम्बनमिति सिद्धम् ।
त्रयोदशमप्यायतनमालम्बनं स्यादिति । त्रयोदशानामायतनानां पूरणं
त्रयोदशमायतनम् । तद्विज्ञानस्यालम्बनं स्यात् । असदालम्बनत्व इष्यमाणे
तदालम्बनं वा विज्ञानं स्यात् । एवं वैभाषिकेनोक्ते आचार्य आह—अथ त्रयोदश-
मिति विस्तरः । एतदेव नामेति वैभाषिकः । यदेतन्नाम त्रयोदशमायतनमिति
तदालम्बनम् । एवं तर्हि नामैव नास्तीति प्रतीयते । नाभिधेयं त्रयोदशायतना-
भावलक्षणम् । किञ्च यश्च शब्दस्य प्रागभावमालम्बते, किं तस्यालम्बनम् ।
भवतीति वाक्यशेषः । एवं प्रकृते वैभाषिक आह—शब्द एव । आलम्बनमिति
प्रकृतम् । एवं तर्हीति विस्तरेणाचार्यः । यः शब्दस्य प्रागभावमालम्बते, शब्द
एव तेनालम्बितो भवति, न प्रागभावः । प्राप्तमिदं भवति—यः शब्दाभावं
प्रार्थयते, तस्य शब्द एव कर्तव्यः स्यादिति । अनागतावस्था इति चेत् ।
स्यान्मतम्—यस्यासौ प्रागभावः, सोऽनागतावस्थस्तेनालम्ब्यते । तस्माद् यः
शब्दाभावं प्रार्थयते, तस्य न शब्द एव कर्तव्यः स्यादिति । तदुच्यते—सति
कथं नास्तीति बुद्धिरिति । विद्यमाने तस्मिन् शब्दे यस्यासौ प्रागभावः कथमस्य
नास्तिबुद्धिः, या प्रागभावमालम्बते । वर्तमानो नास्तीति चेत् । तत्रैतत् स्यात्—
१. विकीर्णत्वम्—का० । २. ॰मप्यायतनं—का० । ३-३. यावता—का० ।
१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यत्तर्हि बोधिसत्त्वेनोक्तम्—"यल्लोके¹ नास्ति तदहं ज्ञास्यामि वा द्रक्ष्यामि
वा नेतं स्थानं विद्यते" इति । अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं
पश्यन्ति । अहं तु सन्तमेवास्तीति पश्यामीत्यर्थं तत्राभिप्रायः । इतरथा हि सर्व-
बुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्, को वा विशेषः ! इत्थं चैतदेवम् ।
यदन्यत्र भगवतोक्तम्--"एतत् भिक्षुमम श्रावको यावत्स मया कल्प-
मवोदितः सार्थं विशेषाय परैष्यति । सायमवोदितः कल्पं विशेषाय परैष्यति ।
सच्च सतो ज्ञास्यति, असच्चासतः, सोत्तरं च सोत्तरतः, अनुत्तरं चानुत्तरतः"
इति । तस्मादयमप्यहेतुः, सदालम्बनत्वाद् विज्ञानस्येति ।
वर्तमानो नास्तीत्येवं तदालम्बनात् नास्तिबुद्धिस्तस्योत्पद्यत इति । न, एकत्वात् ।
यदेव तदनागतम् तदेव वर्तमानं भवति, न तस्मादन्यदिति व्यर्थं तस्मिन्नेव
वर्तमाने नास्तिबुद्धिरुत्पद्यते । यो वा तस्य विशेषः । यो वा तस्यानागतस्य
पश्चाद्विशेषो वर्तमानावस्थायां भवति, तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धि-
रुत्पद्यते । तस्याभूत्वाभावसिद्धिः । तस्य विशेषस्याभूत्वा पूर्वं पश्चाद् भावः,
तस्य सिद्धिरिति । भावश्चाभावश्चेति। भावो वर्तमानावस्थायाम , अभावोऽतीता-
नागतावस्थयोः । इति विज्ञानस्योभयमालम्बनं भवति ।
यद्यभावो विज्ञानस्या लम्बनम्, यत्तर्हीति विस्तरः। बोधिसत्त्वेन चरम-
भविकेनैवमुक्तम्—'यल्लोकेनास्ति, तञ्ज्ञास्यामीत्येष सम्भवो नास्ति" इति
वचनात् अभावालम्बनं न भवतीति दर्शितं भवति ।
आचार्योऽन्याभिप्रायतामस्य सूत्रस्य दर्शयन्नाह -- अपरे आभिमानिका इति
विस्तरः। अपरिशुद्धसमाधयोऽपरे आभिमानिका भवन्ति । असन्तमप्यवभासम् ।
दिव्यचक्षुरवभासम् प्रयोगावस्थायां सन्तमित्येव पश्यन्ति । अहं तु सन्तमेवाव-
भासं पूर्वरूपं दिव्यचक्षुषोऽस्तीति पश्यामीति अयं तत्र सूत्रेऽभिप्रायः ।
कुतोऽस्य विमर्श इति । सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतोऽस्य विमर्शः
विचारः सन्देहो वा स्यात् यदुत लोके नास्तीति विस्तरेण य उक्तः । सद्सदा-
लम्बने तु बुद्धीनामयं विमर्शः सम्भवति, नान्यथा । को वा विशेष इति । को वा
बोधिसत्त्वस्यान्येभ्यो विशेषो यदि तेऽपि सन्तमेवावभासं पश्यन्ति, नासन्तम् ।
सदसदालम्बनत्वे हि बुद्धीनामयं विशेषो भवति । इत्थं चैतदेवं सत् । असदा-
लम्बना बुद्धय इति । सच्च सतो ज्ञास्यति, असच्चासत इतिदमत्रोदाहरणम् ।
१. यत्तत् लोके—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८१७
यदप्युक्तम्—फलादिति। नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्तिं
वर्णयन्ति। किं तर्हि ? तत्पूर्वकात् सन्तानविशेषादित्यात्मवादप्रतिषेधे सम्प्रवेद्-
यिष्यामः ।
यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र
कर्मणः सामर्थ्यम् ? उत्पादने सामर्थ्यम् । उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् ।
अथ सर्वमेवास्ति¹, कस्येदानीं क्व सामर्थ्यम् ? वार्षगण्यवादश्चैवं द्योतितो
भवति—"यदस्त्यस्येव तत् । यन्नास्ति नास्त्येव तत् । असतो नास्ति सम्भवः,
सतो नास्ति विनाशः" इति । वर्तमानीकरणे तर्हि सामर्थ्यम् । किमिदं वर्त्तमानी-
करणं नाम ? देशान्तराकर्षणं चेत्, नित्यं प्रसक्तम् । अरूपिणां च कथ तत् ?
यच्च तदाकर्षणं तदभूत्वाभूतम् । स्वभावविशेषणं चेत्, सिद्धमभूत्वा-
भवनम् ।
सच्च वस्तु सत्त्वतः परैष्यति, ज्ञास्यति; असच्चासत्त्वत इत्यसद्दालम्बना
बुद्धय इति सिद्धम् । 'सद्भूतम्' इत्यादि । यदेतद् बोधिसत्त्वेनोक्तमिति ।
तत्पूर्वकादिति । कर्मपूर्वकात् चित्तसन्तानविशेषात् । आत्मवादप्रतिषेध
इति । शास्त्रस्याने वात्सीपुत्रीयमतप्रतिषेधे । उत्पादस्तर्हि अभूत्वा भवतीति ।
उत्पादः पूर्वं नास्ति, इदानीं भवतीति सिद्धोऽपूर्वप्रादुर्भावः । उत्पादस्योत्पाद-
वता सह तुल्यवातेत्त्वात् । अथ सर्व एवास्तीति । उत्पादोऽपि यद्यस्ति, न
केवलं हेतुः, अनागतं च फलमित्यभिप्राय । कस्येदानीं क्व सामर्थ्यमिति । कस्य
हेतोः क्व फले सामर्थ्यम् । हेतुश्च यथोक्त उत्पादं फलं चानागतमस्तीति ।
वर्तमानीकरण इति वैभाषिकः । किमिदानीं वर्तमानीकरणमिति विस्तरेणाचार्यः ।
नोत्पादो वर्तमानीकरणम्; तस्य वर्तमानत्वात् । अत एवं पृच्छति । देशान्तरा-
कर्षणं चेत् । यदि मन्यसे—हेतुना फलस्य देशान्तराकर्षणं वर्तमानीकरणमिति ?
अत्र ब्रूमः—नित्यं प्रसक्तम् । फलमिति वाक्यशेषः । केवलं देशान्तराद् देशान्तरा-
कर्षणम् । न किञ्चिदपूर्वमुत्पद्यत इति । नित्यं प्रसक्तम् अरूपिणां च वेदनादीनाम्।
कथं तद्देशान्तराकर्षणा । अमूर्तत्वेनादेशस्थत्वान्न तद्युज्यत इत्यभिप्रायः ।
यच्च तदाकर्षणम् क्रियासंज्ञकम्, तदभूत्वा भूतमित्यभूत्वा-भावसिद्धिरित्यभि-
प्रायः । स्वभावविशेषणं चेत् । यदि मन्यसे—हेतुना स्वभावोऽस्य फलस्य
१-१. सर्वमेव चास्ति—का०-।
८१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति यदतीतानागतं द्रव्यतोऽ-
स्तीति वदति ।
एवं तु साधुर्भवति—यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति । कथं च
सूत्रे सर्वमस्तीत्युक्तम् ? "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानि" इति ।
अध्वत्रयं वा । यथात्र १ तदस्ति तथोक्तम् ।
अथासत्यतीतानागते कथं तेन तस्मिन् वा संयुक्तो भवति ? तज्जतद्धेत्वनुशय-
भावात् क्लेशेन तदालम्बनक्लेशानुशयभावाद् २ वस्तुनि संयुक्तो भवति । अस्त्येव
त्वतीतानागतमिति वैभाषिकाः । यत्र नेतुं शक्यते तत्रात्मकात्मनैवं वेदितव्यम् ।
गम्भीरा खलुधर्मता ॥२७॥
नावश्यं तर्कसाध्या भवतीति । अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते ।
रूपमुत्पद्यते रूपं निरुध्य
मुत्पद्यते वर्त्तमानं निरुध्यते । अध्वाऽप्युत्पद्यते; उत्पद्यमानस्याध्वसंगृहीतत्वात् ।
अध्वनोऽप्युत्पद्यते; अनेकक्षणिकत्वादनागतस्याध्वनः ॥ २७ ॥
गतमेतत् यत्प्रसङ्गेनागतम् ॥
इदानीमिदं विचार्यते—यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन् वस्तुनि; यत्र
वा विसंयुक्तः प्रहीणं तस्य तद्वस्त्विति । यत्र तावद्विसंयुक्तः प्रहीणं तस्य
तद्वस्तु । स्यात्तु प्रहीणं न च तत्र विसंयुक्तः, तद्यथा—
प्रहीणे दुःखदृग्ध्येये संयुक्तः शेषसर्वगैः ।
प्राक् प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः ॥ २८ ॥
दुःखज्ञाने समुत्पन्ने समुदयज्ञानेऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो
भवति । तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः ।
भावनाप्रहातव्येऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक् प्रहीणस्तस्मिन्
प्रहीणेऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः ॥ २८ ॥
कस्मिन् वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं
वक्तव्यं जायते, तस्मात् पिण्डविभाषां कुर्वन्ति—कथमल्पेनाल्पेन यत्नेन महतो
महतः प्रश्नौघान् प्रतिपादयेमहीति ? समासतः इमे षोडश धर्माः कामरूपा-
(अभि० को० १.७) इति लक्षणात् । अध्वनोऽप्युत्पादनरूपादुत्पद्यते धर्मः ।
कस्माद् ? इत्याह—अनेकक्षणिकत्वादनागतस्याध्वन इति । यस्मादनेकेषां
क्षणानां राशिरूपाणां कश्चिदेव क्षण उत्पद्यते, अतोऽध्वनोऽप्युत्पद्यते—
इत्युच्यते ॥ २७ ॥
प्रसङ्गेनागतमिति । “शेषैस्तु सर्वैः सर्वत्र” (अभि० को० ५.२४) इति
प्रसङ्गेनागतमतीतानागतविचारणम् ।
यद् वस्तु प्रहीणमित्यादि । इह प्रहाणम्, प्राप्तिविगमात्, विसंयोगः
तदालम्बनक्लेशप्रहाणात्, दर्शनभावनामार्गावधिकृत्य । प्रहीणे दुःखदृग्हेय
इत्यादि । प्राक् प्रहीण इत्यादि । शेषसर्वगैरिति । समुदयदर्शनप्रहातव्यै
सर्वगैः । शेषैस्तद्विषयैर्मलैरिति । प्रहीणप्रकारविषयानुशयैरित्यर्थः । तद्यथा—
अधिमात्राधिमात्रे प्रकारे प्रहीणेऽधिमात्रमध्यादिभिः शेषैरपरीहीणैरनुशयैः
संयुक्तः । तथा हि असावधिमात्राधिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तो-
ऽपि संयुक्त एव तैः शेषैरिति ॥ २८ ॥
पिण्डविभाषां कुर्वन्ति । संक्षेपव्याख्यां कुर्वन्तीत्यर्थः । के ? वैभाषिकाः ।
रूप्यावचराः पञ्चप्रकाराः अनास्रवाश्च । चित्तान्यपि षोडश एतान्येव । तत्र
कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा 'अमुष्मिन्नियन्तोऽनुशया अनुशेरते'
इत्येतदभ्यूहितव्यम् । तत्र तावत् —
दुःखेहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्व*त्र्यैकरूपाप्तामलविज्ञानगोचराः ॥ २९ ॥
स्वकं च तत् त्रयं च स्वकत्रयम्, एकं च तद्रूपाप्तं च एकरूपाप्तम् — एषा
विग्रहजातिः ।
कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां
षोडशेति । कामावचराः पञ्चप्रकाराः—दुःख-समुदय-निरोध-मार्गदर्शनप्रहा-
तव्याः चत्वारः, भावनाप्रहातव्यश्च पञ्चमः । एवं यावद् आरूप्यावचरा पञ्च-
प्रकाराः इति पञ्चदश । अनास्रवश्च षोडश इति षोडश धर्मा । इमे च धर्मा
ये दर्शनप्रहातव्याः, ते चतुःस्कन्धस्वभावाः । ये भावनाप्रहातव्यास्ते पञ्च-
स्कन्धस्वभावाः । कथम् ? या वेदना यैर्दर्शनप्रहातव्यैरनुशयै सम्प्रयुक्ता, स
वेदनास्कन्धः । याः संज्ञाः संज्ञास्कन्धः । येऽनुशयाः, ये च तत्सम्प्रयुक्ताश्चेतना-
दयो यश्चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जाति-जरा-स्थित्य-
नित्याश्च विप्रयुक्ताः, स संस्कारस्कन्धः । यच्चैभिः सम्प्रयुक्तं मनोविज्ञानम्, स
विज्ञानस्कन्धः । इति चतुःस्कन्धस्वभावाः दर्शनप्रहातव्याः । भावनाप्रहातव्याः
पुनरतोऽन्ये सास्रवा धर्माः । कथम् ? बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूप-
स्कन्धः । अनास्रवदर्शनप्रहातव्यवर्ज्याश्च वेदना-संज्ञा-संस्कार-विज्ञानस्कन्धा
इति पञ्चस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः ।
चित्तान्यपि षोडशैतान्येवेति । कामावचरं दुःखदर्शनप्रहातव्यं यावद्
भावनाप्रहातव्यमिति पञ्च चित्तानि । एवं रूपावचराणि अरूपावचराणि च
पञ्च पञ्च, अनास्रवं च चित्तमिति षोडश चित्तानि । तानि तत्षोडशधर्मा-
लम्बनानि वर्ण्यन्ते । अमुष्मिन्नियन्ताऽनुशया इति । अमुष्मिन् धर्मे इयन्तो
ऽनुशयाः, ये तेन चित्तेन सम्प्रयुक्ता आलम्बनतः सम्प्रयोगतो वाऽनुशेरते—
इत्येतदभ्यूहितव्यम् ।
“दुःखेहेतुदृगभ्यासप्रहेयाः कामधातुजाः” इति । दुःखसमुदयदर्शनभावना-
प्रहातव्याः कामावचरा इत्यर्थः ।
एषा विग्रहजातिरिति । स्वकत्रयं चैकरूपाप्तं चामलं च स्वकत्रयैकरूपाप्ता-
मलानि विज्ञानानि । स्वकत्रयैकरूपाप्तामलविज्ञानानि तेषां गोचराः । कामावचरा-
स्तावदिति विस्तरः । कामावचराः दुःखसमुदयदर्शनप्रहातव्या दश-सप्तानुशयाः ।
निर्देशः ] पञ्चमं कोशस्थानम् ८२१
चित्तानामालम्बनम् । स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावना-
हेयस्यैव, अनास्रवस्य चेति ॥ २९ ॥
स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।
रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् । स्वधातु-
कानां त्रयाणां तेषामेव । अधरधातुकानां त्रयाणां तेषामेव । ऊर्ध्वधातुकस्यैकस्य
भावनाहेयस्यैव, अनास्रवस्य चेति ।
तत्सहभुवस्तत्प्राप्तयश्च सानुचराः । भावनाहेयाश्चतुरनुशयाः, तत्सहभुवः,
तत्प्राप्तयश्च सानुचराः । सर्वं सास्रवं रूपम्, अन्ये चाक्लिष्टा धर्माः । एते धर्माः
पञ्चानां चित्तानामालम्बनम् । केषाम् ? इत्याह—स्वधातुकानां त्रयाणां तेषामेवेति ।
कामावचराणां दुःखसमुदयदर्शन-भावनाहेयानाम् । कथं कृत्वा ? दुःखदर्शनहेया-
स्तावद् दुःखदर्शनहेयस्य सर्वत्रगासर्वत्रगसम्प्रयुक्तस्य । समुदयदर्शनप्रहातव्यस्य
च सर्वत्रगसम्प्रयुक्तस्य, भावनाहेयस्य च कुशलस्य । रूपावचरस्यैकस्य भावनाहेय-
स्यैव । लौकिकेन मार्गेण कामधातूपपन्नस्य कामावचरधर्मालम्बनावस्थायाम् ।
रूपधातूपपन्नस्य च कामधातुदर्शनावस्थायाम् । अनास्रवस्य च धर्मज्ञानपक्षस्य
चेति पञ्चानां चित्तानामालम्बनं भवन्ति । न कामावचरयोर्निरोध-मार्गदर्शन-
हेययोश्चित्तयोरालम्बनम् ; अनास्रवालम्बनयोश्चित्तयोर्निरोधमार्गालम्बनत्वात् ।
सास्रवालम्बनयोश्च निरोधमार्गदर्शनहेयमात्रालम्बनत्वात् । नोर्ध्वभूमिकानां
क्लिष्टानाम् ; अधरभूमिकानालम्बनत्वात् । नारूप्यावचरस्य कुशलस्य; चत-
सृभिर्दूरताभिर्दूरत्वात् । एवं समुदयदर्शनहेया अपि द्विप्रकारस्य समुदयदर्शनहेयस्य ।
दुःखदर्शने हेयस्य च सर्वत्रगसम्प्रयुक्तस्य, भावनाहेयस्य कुशलस्य, रूपावचर-
स्यैकस्य भावनाहेयस्यैव, अनास्रवस्य चेति पञ्चानामेवालम्बनानां भवन्ति ।
व्याख्यानं च पूर्ववदेव कर्तव्यम् । भावनाहेया अपि पञ्चानामेवालम्बनानां
भवन्ति । दुःखसमुदयदर्शनहेययोः सर्वत्रगसम्प्रयुक्तयोश्चित्तयोर्भावनाहेयस्य
च कुशलाकुशलाव्याकृतस्य यथासम्भवम् । रूपावचरस्यैकस्य भावनाहेयस्यैव,
अनास्रवस्य चेति पूर्ववदेव वाच्यम् ॥ २८ ॥
“स्वकाधरत्रयोर्ध्वैकामलानाम्” इति । स्वकानामधराणां च त्रयं स्वकाधर-
त्रयम् च ऊर्ध्वैकं चामलं चेति विग्रहः । रूपावचरास्त एव त्रिप्रकारा धर्मा
इति । दुःख-समुदयदर्शन-भावनाहेयाः, तेषामधिकृतत्वात् । तेऽष्टानां चित्ताना-
मालम्बनम् । स्वधातुकानां त्रयाणां तेषामेव दुःख-समुदयदर्शन-भावनाहेया-
नाम् । पूर्ववदेव व्याख्येयम् । अधरधातुकानां त्रयाणां तेषामेव । तेषां दुःख-
दर्शनसमुदयहेययोर्विसभागधातुसर्वत्रगसम्प्रयुक्तयोश्चित्तयोर्भावनाहेययोश्च,
श्रुतमयस्य च चिन्तामयस्य वा । ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव, आकाशा-
अभि० को० ३ : ५
८२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
आरूप्याजास्त्रिधात्वाप्तत्रयानास्रवगोचराः ॥३०॥
आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् । त्रैधातु-
कत्रिप्रकाराणां तेषामेव । अनास्रवस्य चेति ॥ ३० ॥
उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेयाश्च धर्माः ।
निरोधमार्गाद्दृग्धेयाः सर्वस्वाधिकगोचराः१।
निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव । तस्याधिकस्य ते
धर्मा आलम्बनं ज्ञेयाः । कथं कृत्वा ? कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां
विज्ञानानामालम्बनम्—पूर्वोक्तानां पञ्चानाम्, तस्यैव च निरोधदर्शनप्रहातव्यस्या-
धिकस्य । मार्गदर्शनप्रहातव्या अप्येवम्—पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शन-
प्रहातव्यस्याधिकस्य । एवं रूपारूप्यावचराणि । निरोधमार्गदर्शनप्रहातव्यास्तस्यैव
निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां
च चित्तानामालम्बनं भवन्ति ।
नवम्यायतनसामग्र्यसंगृहीतस्य, अनास्रवस्य चान्वयज्ञानपक्षस्येति ।
“त्रिधात्वाप्तत्रयानास्रवगोचराः” इति । त्रिधात्वाप्तानां त्रयाणामनास्रवस्य च
गोचराः । त एवेति । त एव दुःखसमुदयदर्शनभावनाहेया अधिकृताः । त्रिप्रका-
राणां तेषामेवेति । काम-रूपावचराणां दुःखसमुदयदर्शनहेयानां विसभागतु-
सर्वत्रग-सम्प्रयुक्तानां चतुर्णां भावनाप्रहातव्योर्द्वयोर्यथायोगम् । स्वधातुकानां
च त्रयाणाम् । कतमेषाम् ? सर्वत्रगासर्वत्रगसम्प्रयुक्तयोर्यथायोगं द्वयोर्भाव-
नाप्रहातव्यस्य चानास
निर्देशः ] पञ्चमं कोशस्थानम् ८२३
उक्तास्त्रैधातुकाः पञ्चप्रकारा धर्माः ॥
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ३१ ॥
अनास्रवा धर्मा दशानां चित्तानामालम्बनम् । त्रैधातुकानामन्त्यानां त्रिप्रकाराणां
निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति । पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन
संग्रहो भवति—
"दुःखहेतुदृगभ्यासहेया धातुत्रयेऽमलाः ।
पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः ।
प्रहातव्या नवानां चित्तानामालम्बनं भवन्ति । आरूप्यावचरा एकादशानामिति ।
कथम् ? रूपावचरा निरोधमार्गदर्शनप्रहातव्या धर्माः कामावचराणां विसभागा-
धातु-सर्वत्रगसम्प्रयुक्त-भावनाहेयानां त्रयाणाम् । स्वधातुकानां च त्रयाणां
द्विनिकाय सर्वत्रगसम्प्रयुक्तऋभावनाप्रहातव्यानाम् । आरूप्यावचरस्य भावना-
प्रहातव्यस्य आकाशानन्त्यायतनसंगृहीतस्य अनास्रवस्य चान्वयज्ञानपक्षस्य ।
तस्यैव चाधिकस्य निरोधदर्शनप्रहातव्यस्य मार्गदर्शनप्रहातव्यस्य वा चित्तस्य ।
इति नवानां प्रत्येकमालम्बनं भवन्ति । आरूप्यावचरा अपि निरोधमार्ग-
दर्शनप्रहातव्या धर्माः प्रत्येकमेकादशानां चित्तानामालम्बनं भवन्ति—
कामरूपावचराणां विसभागा-धातु-सर्वत्रग-सम्प्रयुक्तभावनाप्रहातव्यानां षण्णाम्,
स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसम्प्रयुक्तऋभावनाप्रहातव्यानाम्,
निरोधमार्गदर्शनप्रहातव्यस्य च प्रत्येक़मधिकस्य, अनास्रवस्य चान्वयज्ञान-
पक्षस्य—इत्येकादशानामालम्बनं भवन्ति ।
“अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः” इति । अनास्रवाः निरोधादयः ।
त्रिषु धातुषु यानि अन्त्यानि त्रयाणि निरोधमार्गदर्शनभावनाप्रहातव्यलक्षणैः ।
तेषां यथायोगमनास्रवस्य च गोचराः । कथम् ? प्रतिसङ्ख्यानिरोधार्यमार्गौ
तावत् तदालम्बनानां मिथ्यादृष्टिविचिकित्साऽविद्यासम्प्रयुक्तानां भावनाप्रहा-
तव्यानामनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगमालम्बनम् । आकाशा-
प्रतिसङ्ख्यानिरोधौ तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालम्बनमिति
वेदितव्यम् ।
आचार्यगुणमति-वसुमित्रौ तु व्याख्याक्षाते—आकाशाप्रतिसंख्यानिरोधौ
भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालम्बनमिति, तदयुक्तम्;
“मिथ्यादृग्धिमती ताभ्यां युक्ताऽविद्याऽथ केवला ।
निरोधमार्गदृग्धेयाः षडनास्रवगोचराः ॥” (अभि० को० ५.१४)
इति नियमात् । अतो न क्लिष्टचित्तस्य भावनालम्बनमिति सिद्धान्तः ।
८२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
निरोधमार्गदृग्धेयाः सर्वस्वाधिकगोचराः” ॥ इति ॥
एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशय-
कार्यं योजयितव्यम् ? दिङ्मात्रं दर्शयिष्यामः—
‘सुखेन्द्रियालम्बने विज्ञाने कत्यनुशया अनुशेरते' इति प्रश्न आगते विचार-
यितव्यम्—सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्च-
प्रकारमनास्रवं चेति ।
तदेतत् समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति; कामावचरस्य
चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् । रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य
“पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः” इति। दुःखसमुदयदर्शनभावनाहेयाः
पञ्चानां गोचराः । रूपावचरा अष्टानाम् । आरूप्यावचरा दशानाम् । अमला
अपि दशानामेवेति पूर्वव्याख्यानसारेण योज्यम् । एतान्येव षोडश चित्तानि
षट्त्रिंशत् भवन्ति । कामधातुदुःखसमुदयदर्शनहेयमसर्वत्रगसम्प्रयुक्तं च । एवं
रूपधातौ दुःखसमुदयदर्शनहेयं प्रत्येकं त्रिप्रकारम् । आरूप्यधातौ अन्यत्र-
विसभागाधातुभूमिसर्वत्रगसम्प्रयुक्तान् । निरोधमार्गदर्शनहेयं धातुत्रयेऽपि प्रत्येकं
द्विधा, सास्रवानास्रवालम्बनत्वात् । भावनाहेयमपि क्लिष्टाक्लिष्टभेदात्
द्विप्रकारम् । अनास्रवमपि धर्मज्ञानपक्षम्, अन्वयज्ञानपक्षं चेति द्विधा ।
कामावचरं भावनाप्रहातव्यमिति । पञ्चविज्ञानकायिकं सुखेन्द्रियम् ।
रूपावचरं पञ्चप्रकारमिति । प्रथमध्यानभूमिकं त्रिविज्ञानकायिकम् । तृतीय-
ध्यानभूमिकं मानसमित्यभिसमस्य यथायोगं पञ्चप्रकारं दुःखदर्शनप्रहातव्यम्,
यावद् भावनाप्रहातव्यम् । अनास्रवं च तृतीयध्यानभूमिकमेव ।
कामावचरस्य चतुःप्रकारस्येति । दुःखसमुदयमार्गदर्शनभावनाप्रहेयस्य ।
दुःखसमुदयदर्शनहेययोः सुखेन्द्रियमालम्बनं भवति । यस्माद् दुःखसमुदय-
सत्यसंगृहीतं स्वभूमिकम्, ऊर्ध्वभूमिकं वा सुखेन्द्रियं सत्कायमिथ्यादृष्ट्यादीना-
मालम्बनं भवति । मार्गदर्शनहेयस्य च मिथ्यादृष्ट्यादिसम्प्रयुक्तस्य मार्गसत्य-
संगृहीतं सुखेन्द्रियमालम्बनम् । भावनाहेयरागादिसम्प्रयुक्तस्य च चित्तस्य
तत्पञ्चविज्ञानकायिकं सुखेन्द्रियमालम्बनम् । इति चतुःप्रकारस्यास्य तदा-
लम्बनम् । न तु निरोधदर्शनहेयस्य चित्तस्य; तत्र मिथ्यादृष्ट्यादीनां निरोधा-
लम्बनत्वात् । दृष्टिपरामर्शादीनां च स्वनिकायालम्बनत्वात्, तत्र च सुखेन्द्रिया-
भावात् । तेनोच्यते—अन्यत्र निरोधदर्शनहेयादिति ।
रूपावचरस्य पञ्चप्रकारस्येति । यस्मात् तृतीयध्यानसंगृहीतं पञ्चप्रकारं
निर्देशः ] पञ्चमं कोशस्थानम् ८२५
द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च । इदं द्वादशविधं सुखेन्द्रिया-
लम्बनं विज्ञानम् ।
तत्र यथासम्भवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृता-
लम्बनाः, आरूप्यावचरौ च द्वौ निकायौ, सर्वत्रगाश्चानुशया अनुशेरत इति
विज्ञातव्यम्¹ ।
सुखेन्द्रियं भवति । मार्गदर्शनभावनाहेयस्येति । आरूप्यावचरस्य मार्गदर्शन-
हेयस्य मिथ्यादृष्ट्यादिसम्प्रयुक्तस्य चित्तस्य मार्गसंगृहीतं सुखेन्द्रियमालम्बनम् ।
तदेव च भावनाहेयस्य कुशलस्य चित्तस्यालम्बनम् । अनास्रवस्य च सर्वमप्या-
लम्बनं भवति ।
तत्र यथासम्भवमिति । यस्माद् अनास्रवेऽनुशया अनुशेरते, यस्मात् क्वचि-
देव केचिदनुशेरते, तस्माद् 'यथासम्भवम्' इत्युच्यते । तत्र विज्ञाने कामा-
वचराश्चत्वारो निकायाः । तद्यथा—मिथ्यादृष्टिसम्प्रयुक्ते सुखेन्द्रियालम्बने दशापि
दुःखदर्शनप्रहातव्या अनुशया आलम्बनतोऽनुशेरते, सम्प्रयोगतो वा यथासम्भ-
वम्। एवं समुदयदर्शनप्रहातव्याः। मार्गदर्शनप्रहातव्या अपि तत्र सुखेन्द्रियालम्बने
विज्ञानेऽनुशेरते । मार्गसुखेन्द्रियालम्बने हि मिथ्यादृष्ट्यादिसम्प्रयुक्ते विज्ञाने
मिथ्यादृष्ट्यादयः सम्प्रयोगतोऽनुशेरते । दृष्टिपरामर्शादयोऽप्यालम्वनतो ऽनु-
शेरते । तस्मात् सोऽपि निकायस्तत्रानुशेते । भावनाहेयोऽपि निकायोऽप्यत्रा-
नुशेते; तत्र रागादीनां सुखेन्द्रियालम्बनविज्ञानालम्बनयोगात् । निरोधदर्शन-
प्रहातव्यनिकायस्तु तत्र नानुशेते; सुखेन्द्रियालम्बनविज्ञानाभावात् ।
रूपावचराः संस्कृतालम्बना इति । रूपावचरं सुखेन्द्रियालम्बनं पञ्चप्रकार-
मस्ति । तत्र चत्वारो निकाया अनुशेरत इति सुगममेतत् । निरोधदर्शन-
प्रहातव्यास्तु संस्कृतालम्बनाः कथमनुशेरन् ? तृतीये ध्याने दृष्टिपरामर्शादयः
सुखेन्द्रियेण सम्प्रयुज्यन्ते, ते चान्योन्यालम्बनाः । ते तत्र सुखेन्द्रियालम्बन-
विज्ञाने सम्प्रयोगत आलम्बनतो वाऽनुशेरते ।
आरूप्यावचरौ द्वौ निकायाविति । मार्गदर्शन-भावनाहेयनिकायौ । मार्ग-
सुखेन्द्रियालम्बने मिथ्यादृष्ट्यादिसम्प्रयुक्ते मिथ्यादृष्ट्यादयः सम्प्रयोगतोऽनु-
शेरते । दृष्टिपरामर्शादयस्तु तत्रालम्बनतोऽनुशेरते । भावनाहेयोऽपि निकायोऽनु-
शेते । भावनाहेयं हि कुशलं चित्तं मार्गमालम्बते । तत्र सरागादिनिकायोऽनुशेते ।
सर्वत्रगाश्चारूप्यावचरा अनुशयास्तत्रैव विज्ञाने, मार्गालम्बनमिथ्यादृष्ट्यादि-
सम्प्रयुक्ते वा विज्ञानेऽनुशेरते— इति विज्ञातव्यम् ।
१. ज्ञातव्यम्—का० ।
सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनः
सुखेन्द्रियालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव
द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य ।
इदं चतुर्दशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्रारूप्यावचरौ¹ दुःखसमुदयदर्शन-
हेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृता-
लम्बना अनुशया अनुशेरत इति ज्ञातव्यम् ।
अनया वर्तन्याऽन्यदपि गन्तव्यम्² । यैरनुशयैर्यच्चित्तं सानुशयं तेऽनुशया-
तस्यैव द्वादशविधस्येति । कामावचरस्य चतुःप्रकारस्यान्यत्र निरोधदर्शन-
हेयात् । रूपावचरस्य पञ्चप्रकारस्य, अरूपावचरस्य च द्विप्रकारस्य मार्ग-
दर्शनभावनाहेयस्यानास्रवस्य चेति अन्योन्यालम्बनयोगतस्तस्य सुखेन्द्रिया-
लम्बनं विज्ञानमालम्बनं भवति । आरूप्यावचरस्य च भूयो द्विप्रकारस्य तत्
सुखेन्द्रियालम्बनं विज्ञानमालम्बनं भवति । कतमस्य ? इत्याह—दुःखसमुदय-
दर्शनप्रहातव्यस्येति । आरूप्यावचरस्य सर्वत्रगसम्प्रयुक्तस्य हि दुःखसमुदय-
दर्शनहेयभेदाद् द्विप्रकारस्य चित्तस्य आरूप्यावचरमार्गदर्शनहेय-मिथ्यादृष्ट्या-
दिसम्प्रयुक्तं विज्ञानं मार्गालम्बनं चारूप्यावचरं भावनाहेयं कुशलमालम्बनं
भवति । एवमिदं चतुर्दशविधं सुखेन्द्रियालम्बनविज्ञानालम्बनम् । तत्रारूप्या-
वचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वेति । पूर्वं सर्वत्रगा एवारूप्यावचरा
सुखेन्द्रियालम्बने विज्ञानेऽनुशेरते । सुखेन्द्रियालम्बनालम्बने तु सकलावप्या-
रूप्यावचरौ दुःखदर्शनसमुदयहेयौ निकायावनुशयाते । तस्मात् तत्र सर्वत्रग-
सम्प्रयुक्ते चित्ते दुःखसमुदयदर्शनहेया अनुशयाः सम्प्रयोगत आलम्बनतो वा
यथायोगमनुशेरते । शेषास्तु पूर्ववद् योज्याः ।
अनया वर्तन्या अन्यदपि गन्तव्यमिति । अनेन वर्त्मना अन्यदपि बोद्ध-
व्यम् । कथम् ? ‘दुःखेन्द्रियालम्बने कत्यनुशयाः अनुशेरते’--इति प्रश्ने
आगते विचारयितव्यम्—दुःखेन्द्रियमेकविधं कामावचरं भावनाप्रहातव्यम् ;
पञ्चविज्ञानकायिकत्वात् । तत् समासतः पञ्चविधस्य विज्ञानस्यालम्बनं भवति ।
कामावचरस्य त्रिप्रकारस्य, दुःखसमुदयदर्शनहेययोः सर्वत्रगसम्प्रयुक्तयो-
र्विज्ञानयोर्भावनाप्रहातव्यस्य च । रूपावचरस्य च भावनाप्रहातव्यस्य,
अनास्रवस्य च । इदं पञ्चविधं दुःखेन्द्रियालम्बनं विज्ञानम् । तत्र यथासम्भवं
कामावचरास्त्रयो निकाया दुःखसमुदयदर्शनभावनाहेयाः । तत्र हि सर्वत्रग-
१. ॰वचरौ द्वौ—का० । २. अनुगन्तव्यम्—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८२७
स्तस्मिंश्चित्तेऽनुशेरते । स्युरनुशेरते । येऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणा-
स्तदालम्बनाश्चाप्रहीणाः । स्युर्नानुशेरते । येऽनुशयास्तेन चित्तेन संप्रयुक्ताः
प्रहीणास्तदालम्बनाश्च ॥ ३१॥
संप्रयुक्ते चित्ते भावनाहेये च दुःखसमुदयदर्शनहेयौ निकायौ संप्रयोगत
आलम्बनतो वा यथासम्भवमनुशयाते । भावनाहेये च भावनाहेयो निकायोऽ-
नुशेते । रूपावचर एको भावनाहेयः । तत्र भावनाहेये चित्तेऽनुशेते ।
सर्वत्रगाश्च रूपावचरास्तत्रैव — इत्यवगन्तव्यम् ।
दुःखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनर्दुःखे-
न्द्रियालम्बनं पञ्चविज्ञानं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव पञ्चविधस्या-
न्योन्यालम्बनयोगेन । कामावचरस्य च भूयो मार्गदर्शनहेयस्यानास्रवालम्ब-
नस्य । रूपावचरस्य च सर्वत्रगसंप्रयुक्तस्यालम्बनं भवति । तेन हि
रूपावचरं दुःखेन्द्रियालम्बनं कुशलं भावनाप्रहातव्यमालम्बते । आरूप्यावचर-
मप्याकाशानन्त्यायतनसामन्तकसंगृहीतौदारिकाकारं दुःखेन्द्रियालम्बनमा-
लम्बते । तदिदमष्टविधं दुःखेन्द्रियालम्बनालम्बनं विज्ञानम् । तत्र कामावचरा-
श्चत्वारो निकायाः—दुःख-समुदय-मार्गदर्शन-भावनाहेयाः । रूपावचरास्त्रयो
निकायाः—दुःख-समुदयदर्शन-भावनाप्रहातव्याः । आरूप्यावचर एकः—
भावनाप्रहातव्यः । सर्वत्रगाश्चानुशया अनुशेरत इति विज्ञातव्यम् ।
सौमनस्येन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरते ?—इति प्रश्ने
विचारयितव्यम् । तत् पुनः सौमनस्येन्द्रियालम्बनं विज्ञानं एकादशविधम् ।
काम-रूपावचरं पञ्च-पञ्चप्रकारम्, अनास्रवं च । तदेतत् समासतःत्रयो-
दशविधस्य विज्ञानस्यालम्बनं भवति । कामावचरस्य पञ्चप्रकारस्य संस्कृता-
लम्बनस्य; तस्य संस्कृतत्वात् । एवं रूपावचरस्य । आरूप्यावचरस्य तु द्विप्रकारस्य
मार्गदर्शनभावनाहेयस्य, अनास्रवस्य च । इदं त्रयोदशविधं सौमनस्येन्द्रिया-
लम्बनविज्ञानम् । तत्र यथासम्भवं कामावचर-रूगावचराः पञ्चनिकायाः
संस्कृतालम्बनाः, आरूप्यावचरौ द्वौ निकायौ, सर्वत्रगाश्चानुशया अनुशेरते—
इति विज्ञातव्यम् ।
सौमनस्येन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनः
सौमनस्येन्द्रियालम्बनं त्रयोदशविज्ञानं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव
त्रयोदशविज्ञानस्य । आरूप्यावचरस्य च भूयो द्विप्रकारस्य दुःख-समुदय-
दर्शनप्रहातव्यस्य । इदं पञ्चदशविधं सौमनस्येन्द्रियालम्बनं विज्ञानम् । तत्रा-
रूप्यावचरौ द्वौ—दुःख-समुदयदर्शनहेयौ वर्धयित्वा । कामावचर
८२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
तदेवं कृत्वा भवति—
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।
क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयम्; तत्सम्प्रयुक्ततदालम्बनैरप्रहीणैरन-
नुशयानैश्च तत्सम्प्रयुक्तैः प्रहीणैस्तत्सहितत्वात् । अक्लिष्टं तु चित्तमनुशया-
नैरेव तदालम्बनैरप्रहीणैरिति ।
अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति ? आदित एव तावदविद्यायोगात्
सत्येषु स मुह्यति, दुःखमस्मै न रोचते यावत् मार्गः । ततः
मोहात्काङ्क्षा,
मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते—दुःखं स्विदिदम्, न स्विद् दुःख-
मित्येवमादि ।
ततो मिथ्यादृष्टिः,
विचिकित्साया मिथ्यादृष्टिः प्रवर्तते । संशयितस्य मिथ्याश्रमणचित्तानां
मिथ्यानिश्चयोत्पत्तेः-—नास्ति दुःखमित्येवमादि ।
सत्कायदृक् ततः ॥ ३२ ॥
मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते; दुःखतः स्कन्धानपोह्यात्मतोऽभिनिवेशात् ।
ततोऽन्तग्रहणम्,
सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते; आत्मनः शाश्वतोच्छेदन्तग्रहणात् ।
तस्माच्छीलामर्शः,
अनुशया अनुशेरत इति विज्ञातव्याः । अनया दिशा अन्यदपि गन्तव्य-
मति ॥ ३१ ॥
“द्विधा सानुशयं क्लिष्टम्” इति । अनुशयानैरननुशयानैश्चानुशयैः सानुशयं
क्लिष्टमित्यर्थः । तत्सहितत्वात् । सदावस्थितत्वादित्यर्थः । अक्लिष्टं
चित्तमनुशयानैरेव सानुशयं विवेचयितुं शक्यत्वात् । तथा हि वक्ष्यति—
‘प्रहातव्यः क्लेश आलम्बनात्मतः’ (अभि० को० ६.६०) इति ॥ ३२॥
सर्वस्य सर्वानन्तरमुत्पत्तिरसम्भवान्नाप्येयमुत्पत्तौ सार्वजन्यः क्रमनियमः ।
दुःखतः स्कन्धानपोह्येति । नेदं दुःखमित्यात्मतोऽभिनिवेशात् । ‘रूपमात्मा’
इत्येवन्दृष्टिकस्य वेदनायामात्मग्राहदृष्टिः प्रत्यनीका ॥ ३३ ॥
निर्देशः ] पञ्चमं कोशस्थानम् ८२६
अन्तग्रहाच्छोलव्रतपरामर्शः । यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् ।
ततो दृशः ।
'आमर्शः' इति वर्तते । शीलव्रतपरामर्शाद् दृष्टिपरामर्शः प्रवर्तते । येन शुद्धिं
प्रत्येति तस्याग्रतो ग्रहणात् । ततः—
रागः स्वदृष्टौ मानश्च
तस्यामभिष्वङ्गात्, तया चोन्नतिगमनात् ।
द्वेषोऽन्यत्र
स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते ।
अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति । दर्शनहेयानां
रागादीनां स्वसान्तानिकदृष्ट्यालम्बनत्वात् ।
इत्यनुक्रमः ॥ ३३ ॥
एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः ॥ ३३ ॥
उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते—
अप्रहीणादनुशयाद् विषयात् प्रत्युपस्थितात् ।
अयोनिशो मनस्कारात् क्लेशः,
तद्यथा—रागानुशयोऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च
धर्मा आभासगता भवन्ति । तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते ।
तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि ।
अप्रहीणो भवत्यपरिज्ञात इति । अप्रहाणः; तत्प्राप्त्यनुच्छेदात् । अपरिज्ञातः;
तत्प्रतिपक्षस्य चानुत्पत्तेः । कामरागपर्यवस्थानीया इति । पर्यवतिष्ठत एभि-
रिति पर्यवस्थानीयाः स्नानीयवत् । कामरागस्य पर्यवस्थानीया अनुकूला इति ।
कामराग एव वा पर्यवस्थानम् कामरागपर्यवस्थानम् , तस्मै हिताः कामराग-
पर्यवस्थानीयाः । ते पुनः रूपादयो विषया आभासगता भवन्तीति । विषय-
रूपतामापन्ना भवन्तीत्यर्थः । तत्र चायोनिशोमनस्कार इति । तत्र चाभास-
गतेषु विषयेषु विपरीतं समनन्तरप्रत्यय इत्यर्थः । हेतुविषयप्रयोगबलानिति ।
हेतुबलम्—कामरागोत्पत्तये कामरागानुशयोऽप्रहीणो भवत्यपरिज्ञातः । काम-
रागपर्यवस्थानीया विषयबलम् । तत्र चायोनिशोमनस्कारः—प्रयोगबलम् । एव-
८३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
एवमन्योऽपि क्लेश उत्पद्यत इति वेदितव्यः, यः—
सम्पूर्णकारणः ॥ ३४ ॥
कदाचित्किल विषयबलेनैवोत्पद्यन्ते, न हेतुबलेन । यथा—परिहाणधर्म-
कस्यार्हत इति ॥ ३४ ॥
एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः—कामास्रवः,
भवास्रवः, अविद्यास्रव इति । चत्वार ओघाः—कामोघः, भवोघः, दृष्ट्योघः,
अविद्यौघश्च । चत्वारो योगा एत एव । चत्वार्युपादानानि—कामोपादानम्,
दृष्ट्युपदानम्, शीलव्रतोपादानम्, आत्मवादोपादानमिति । तत्र तावत्
कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना ।
मोहेन,
अविद्यां वर्जयित्वाऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो
वेदितव्य एकचत्वारिंशद् द्रव्याणि । एकत्रिंशदनुशयाः पञ्चप्रकारमविद्यां हित्वा
दश पर्यवस्थानानि ।
अनुशया एव रूपारूप्ये भवास्रवः ॥ ३५ ॥
‘विना मोहेन’ इति वर्तते । रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो
द्वापञ्चाशद् द्रव्याणि—रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा,
आरूप्यावचराः षड्विंशतिः ।
मन्योऽपि क्लेश उत्पद्यत इति । प्रतिघानुशयोऽप्रहीणो भवत्यपरिज्ञातः, प्रतिघ-
पर्यवस्थानीया धर्मा आभासगता भवन्ति, तत्र चायोनिशोमनस्कार इत्येष
नयः ॥ ३४ ॥
चत्वारो योगा एत एवेति कामयोगः, भवयोगः, दृष्टियोगः, अविद्यायोग-
श्चेति ।
“विना मोहेन” इति । अविद्यास्रवस्य पृथगुक्तत्वात् । सह पर्यवस्थानै-
राह्रीक्यादिभिर्भेद्यमानैः एकचत्वारिंशद् द्रव्याणि एकत्रिंशदनुशया इति ।
द्वादश दृष्टयः—दुःखदर्शनप्रहातव्याः पञ्च, समुदयदर्शनप्रहातव्ये द्वे, निरोध-
दर्शनप्रहातव्ये द्वे एव, तिस्रो मार्गदर्शनप्रहातव्याः । चतस्रो विचिकित्साः । पञ्च
रागाः । एवं प्रतिघाः, मानाश्च दश पर्यवस्थानानि—इत्येवमेकचत्वारिंशत् ।
“अनुशया एव” इति । एवकारः पर्यवस्थाननिरासार्थः । षड्विंशतिरनुशया
इति । द्वादश दृष्टयः, चतस्रो विचिकित्साः, पञ्च रागाः, पञ्च माना इति ।
निर्देशः ] पञ्चमं कोशस्थानम् ८३१
ननु च तत्राप्यस्ति पर्यवस्थानद्वयम्—स्त्यानमौद्धत्यं च, प्रकरणेषु चोक्तम्-
“भवास्रवः कतमः ? अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रति-
संयुक्तानि । संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि” ( ) इति, कस्मा-
दिह तस्याग्रहणम् ? अस्वात्त्र्यादिति काश्मीराः ॥ ३५ ॥
किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवराग उक्तः ?
अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।
अत एकीकृताः
ते ह्युभयेऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन
साधर्म्येणैकीकृताः । येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रव इत्यविधे-
दानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् । तानि पञ्चदश द्रव्याणि ।
किं कारणमसौ पृथग्व्यवस्थाप्यते ? सर्वेषां तेषाम्¹---
मूलमविद्येत्यास्रवः पृथक् ॥ ३६ ॥
यथा चैते आस्रवा उक्ता वेदितव्या ,
ननु च तत्राप्यस्ति पर्यवस्थानद्वयमिति । तत्र रूपारूप्यधात्वोः । “स्त्यानौद्धत्य-
मदा धातुत्रये” (अभि० ५.५३) इति वचनात् । कस्मादिह तस्याग्रहणमिति ।
तस्य पर्यवस्थानद्वयस्य । अस्वात्त्र्यादिति । कथमस्वातन्र्यम् ? रागादि-
संप्रयोगित्वाद्दीर्ष्यावद् अविद्यामात्रासम्प्रयोगित्वाच्च । एतद्धि द्वयं रागादिभिः
संप्रयुज्यते । न तथा ईर्ष्यामात्सर्यकौकृत्यक्रोधम्रक्षाः स्वतन्त्राः, अविद्यामात्रेण
संप्रयोगादिति ॥ ३५ ॥
ते ह्युभयेऽपीति । रूपारूपावचरा अपीत्यर्थः । अन्तर्मुखप्रवृत्ता इति । न
विषयप्रधाना इत्यर्थः । येनैव च कारणेन भवराग उक्त इति । “अन्तर्मुख-
त्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः” (अभि० ५ २) इति । अनेन च भवास्रव
इति । अविद्यास्रव इति सिद्धमिति । अविद्या पूर्वोक्ताभ्यामास्रवाभ्यां
बहिष्कृता । तस्मात् सा त्रैधातुकी अपि अविद्यास्रव इति सिद्धमेतत् ।
पञ्चदश द्रव्याणीति । त्रिष्वपि धातुष्वविद्यायाः प्रत्येकं पञ्चप्रकारत्वात् । सर्वेषां
तेषामिति । कामास्रवादीनां संसारस्य च । उक्तो ह्यविद्याहेतुः संरागायेत्यादि ।
“याः काश्चन दुर्गतयो ह्यस्मिन् लोके परत्र च ।
१. हि तेषाम्—का० ।
८३२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
कामास्रव एव कामौघः कामयोगश्च । एवं भवास्रव एव भवौघो भव-
योगश्च, अन्यत्र दृष्टिभ्यः । ताः किल पटुत्वादोधयोगेषु पृथक् स्थापिताः ।
नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ३७ ॥
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यति । न च किल केवला दृष्टय
आस्यानुकूलाः, पटुत्वात् । अत आस्रवेषु न पृथक् स्थापिताः । मिश्रीकृत्य
स्थापिता इति । तदेवं कामौघ एकान्नत्रिंशद् द्रव्याणि । रागप्रतिघमानाः पञ्चदश
विचिकित्साश्चतस्रो दश पर्यवस्थानानीति । भवौघोऽष्टाविंशतिद्रव्याणि । रागमाना
विंशतिः । विचिकित्साऽष्टौ । दृष्ट्योधः षट्त्रिंशद् द्रव्याणि । अविद्यौधः पञ्चदश
द्रव्याणि ।
अविद्यामूलिकाः सर्वा इच्छालोभसमुत्थिताः ॥” ( ) इति च ॥ ३६ ॥
“तथौघयोगा” इति । आस्रवा एवौघा योगाश्च भवन्ति । केवलम् दृष्टयः
पृथग् अवस्थाप्यन्ते । कथम् ? इति विव्रियते—कामास्रव एव कामौघः,
कामयोगश्च । एवं भवास्रव एव भवौघः, भवयोगश्च । अविद्यौघयोगस्तु पूर्व-
वदेवावगन्तव्यः । दृष्टियोग इह चतुर्थ उक्तः । तेनाह—अन्यत्र दृष्टिभ्य इति ।
ताः किलेति । किल-शब्दः परमतद्योतकः । विनेयजनवशात्तु दृष्टियोगः पृथगुक्त
इत्यभिप्रायो युज्यते ।
आस्रवेषु दृष्टयः किमर्थं न पृथक् स्थापिताः ? इत्याह—“नास्रवेष्वसहा-
यानाम्” इत्यादि । असहायानां दृष्टीनामास्यानुकूलता = अवस्थानानुकूलता,
चलत्वात् पटुत्वाच्च न भवति । नासनानुकूलतेत्यर्थः । आसेति रूपे प्राप्ते,
आपिशलेष्ट्या ‘आस्या’ इति रूपं भवात् । तदिदमुक्तं भवति—यस्मादेता
दृष्टयोऽसहायाः, नासनानुकूलाः । ससहायास्त्वासनानुकूला भवन्ति । तस्मात्
ससहाया एवैता आस्रवेषूक्ताः । मिश्रीकृत्योक्ता इत्यर्थः । किमर्थम् ? इत्याह—
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद् वक्ष्यतीत्यद आसनार्थमास्रवेषु भवितव्य-
मित्यभिप्रायः । तदेवं कामौघ एकान्नत्रिंशद् द्रव्याणीति । द्वादशदृष्ट्यपनयनात्
नास्रववद् एकचत्वारिंशद् द्रव्याणि भवन्ति, किं तर्हि ? एकान्नत्रिंशद् द्रव्याणि
भवन्ति । कथम् ? इत्याह—राग-प्रतिघ-माना इति सर्वम् । भवौघोऽष्टाविंशति-
द्रव्याणीति । भवास्रवो द्वापञ्चाशद् द्रव्याण्युक्तानि, ततश्चतुर्विंशतिर्दृष्टीरपनीय
अष्टाविंशतिर्द्रव्याणि । राग-माना विंशतिरिति । द्विधातुका रागा दश भवन्ति,
माना अपि दशेति विंशतिः । दृष्ट्यौघः षट्त्रिंशद् द्रव्याणीति । त्रिषु धातुषु
त्रिद्वादश दृष्टय इति । अविद्यौघः पञ्चदशद्रव्याणि । पूर्ववत् ।