अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 847, कुल 1258 में से
संदर्भ में पढ़ें८२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
तदेवं कृत्वा भवति—
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।
क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयम्; तत्सम्प्रयुक्ततदालम्बनैरप्रहीणैरन-
नुशयानैश्च तत्सम्प्रयुक्तैः प्रहीणैस्तत्सहितत्वात् । अक्लिष्टं तु चित्तमनुशया-
नैरेव तदालम्बनैरप्रहीणैरिति ।
अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति ? आदित एव तावदविद्यायोगात्
सत्येषु स मुह्यति, दुःखमस्मै न रोचते यावत् मार्गः । ततः
मोहात्काङ्क्षा,
मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते—दुःखं स्विदिदम्, न स्विद् दुःख-
मित्येवमादि ।
ततो मिथ्यादृष्टिः,
विचिकित्साया मिथ्यादृष्टिः प्रवर्तते । संशयितस्य मिथ्याश्रमणचित्तानां
मिथ्यानिश्चयोत्पत्तेः-—नास्ति दुःखमित्येवमादि ।
सत्कायदृक् ततः ॥ ३२ ॥
मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते; दुःखतः स्कन्धानपोह्यात्मतोऽभिनिवेशात् ।
ततोऽन्तग्रहणम्,
सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते; आत्मनः शाश्वतोच्छेदन्तग्रहणात् ।
तस्माच्छीलामर्शः,
अनुशया अनुशेरत इति विज्ञातव्याः । अनया दिशा अन्यदपि गन्तव्य-
मति ॥ ३१ ॥
“द्विधा सानुशयं क्लिष्टम्” इति । अनुशयानैरननुशयानैश्चानुशयैः सानुशयं
क्लिष्टमित्यर्थः । तत्सहितत्वात् । सदावस्थितत्वादित्यर्थः । अक्लिष्टं
चित्तमनुशयानैरेव सानुशयं विवेचयितुं शक्यत्वात् । तथा हि वक्ष्यति—
‘प्रहातव्यः क्लेश आलम्बनात्मतः’ (अभि० को० ६.६०) इति ॥ ३२॥
सर्वस्य सर्वानन्तरमुत्पत्तिरसम्भवान्नाप्येयमुत्पत्तौ सार्वजन्यः क्रमनियमः ।
दुःखतः स्कन्धानपोह्येति । नेदं दुःखमित्यात्मतोऽभिनिवेशात् । ‘रूपमात्मा’
इत्येवन्दृष्टिकस्य वेदनायामात्मग्राहदृष्टिः प्रत्यनीका ॥ ३३ ॥