सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 842, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 842

निर्देशः ] पञ्चमं कोशस्थानम् ८२३
उक्तास्त्रैधातुकाः पञ्चप्रकारा धर्माः ॥
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ३१ ॥
अनास्रवा धर्मा दशानां चित्तानामालम्बनम् । त्रैधातुकानामन्त्यानां त्रिप्रकाराणां
निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति । पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन
संग्रहो भवति—
"दुःखहेतुदृगभ्यासहेया धातुत्रयेऽमलाः ।
पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः ।
प्रहातव्या नवानां चित्तानामालम्बनं भवन्ति । आरूप्यावचरा एकादशानामिति ।
कथम् ? रूपावचरा निरोधमार्गदर्शनप्रहातव्या धर्माः कामावचराणां विसभागा-
धातु-सर्वत्रगसम्प्रयुक्त-भावनाहेयानां त्रयाणाम् । स्वधातुकानां च त्रयाणां
द्विनिकाय सर्वत्रगसम्प्रयुक्तऋभावनाप्रहातव्यानाम् । आरूप्यावचरस्य भावना-
प्रहातव्यस्य आकाशानन्त्यायतनसंगृहीतस्य अनास्रवस्य चान्वयज्ञानपक्षस्य ।
तस्यैव चाधिकस्य निरोधदर्शनप्रहातव्यस्य मार्गदर्शनप्रहातव्यस्य वा चित्तस्य ।
इति नवानां प्रत्येकमालम्बनं भवन्ति । आरूप्यावचरा अपि निरोधमार्ग-
दर्शनप्रहातव्या धर्माः प्रत्येकमेकादशानां चित्तानामालम्बनं भवन्ति—
कामरूपावचराणां विसभागा-धातु-सर्वत्रग-सम्प्रयुक्तभावनाप्रहातव्यानां षण्णाम्,
स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसम्प्रयुक्तऋभावनाप्रहातव्यानाम्,
निरोधमार्गदर्शनप्रहातव्यस्य च प्रत्येक़मधिकस्य, अनास्रवस्य चान्वयज्ञान-
पक्षस्य—इत्येकादशानामालम्बनं भवन्ति ।
“अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः” इति । अनास्रवाः निरोधादयः ।
त्रिषु धातुषु यानि अन्त्यानि त्रयाणि निरोधमार्गदर्शनभावनाप्रहातव्यलक्षणैः ।
तेषां यथायोगमनास्रवस्य च गोचराः । कथम् ? प्रतिसङ्ख्यानिरोधार्यमार्गौ
तावत् तदालम्बनानां मिथ्यादृष्टिविचिकित्साऽविद्यासम्प्रयुक्तानां भावनाप्रहा-
तव्यानामनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगमालम्बनम् । आकाशा-
प्रतिसङ्ख्यानिरोधौ तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालम्बनमिति
वेदितव्यम् ।
आचार्यगुणमति-वसुमित्रौ तु व्याख्याक्षाते—आकाशाप्रतिसंख्यानिरोधौ
भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालम्बनमिति, तदयुक्तम्;
“मिथ्यादृग्धिमती ताभ्यां युक्ताऽविद्याऽथ केवला ।
निरोधमार्गदृग्धेयाः षडनास्रवगोचराः ॥” (अभि० को० ५.१४)
इति नियमात् । अतो न क्लिष्टचित्तस्य भावनालम्बनमिति सिद्धान्तः ।