सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 846, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 846

निर्देशः ] पञ्चमं कोशस्थानम् ८२७
स्तस्मिंश्चित्तेऽनुशेरते । स्युरनुशेरते । येऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणा-
स्तदालम्बनाश्चाप्रहीणाः । स्युर्नानुशेरते । येऽनुशयास्तेन चित्तेन संप्रयुक्ताः
प्रहीणास्तदालम्बनाश्च ॥ ३१॥
संप्रयुक्ते चित्ते भावनाहेये च दुःखसमुदयदर्शनहेयौ निकायौ संप्रयोगत
आलम्बनतो वा यथासम्भवमनुशयाते । भावनाहेये च भावनाहेयो निकायोऽ-
नुशेते । रूपावचर एको भावनाहेयः । तत्र भावनाहेये चित्तेऽनुशेते ।
सर्वत्रगाश्च रूपावचरास्तत्रैव — इत्यवगन्तव्यम् ।
दुःखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनर्दुःखे-
न्द्रियालम्बनं पञ्चविज्ञानं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव पञ्चविधस्या-
न्योन्यालम्बनयोगेन । कामावचरस्य च भूयो मार्गदर्शनहेयस्यानास्रवालम्ब-
नस्य । रूपावचरस्य च सर्वत्रगसंप्रयुक्तस्यालम्बनं भवति । तेन हि
रूपावचरं दुःखेन्द्रियालम्बनं कुशलं भावनाप्रहातव्यमालम्बते । आरूप्यावचर-
मप्याकाशानन्त्यायतनसामन्तकसंगृहीतौदारिकाकारं दुःखेन्द्रियालम्बनमा-
लम्बते । तदिदमष्टविधं दुःखेन्द्रियालम्बनालम्बनं विज्ञानम् । तत्र कामावचरा-
श्चत्वारो निकायाः—दुःख-समुदय-मार्गदर्शन-भावनाहेयाः । रूपावचरास्त्रयो
निकायाः—दुःख-समुदयदर्शन-भावनाप्रहातव्याः । आरूप्यावचर एकः—
भावनाप्रहातव्यः । सर्वत्रगाश्चानुशया अनुशेरत इति विज्ञातव्यम् ।
सौमनस्येन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरते ?—इति प्रश्ने
विचारयितव्यम् । तत् पुनः सौमनस्येन्द्रियालम्बनं विज्ञानं एकादशविधम् ।
काम-रूपावचरं पञ्च-पञ्चप्रकारम्, अनास्रवं च । तदेतत् समासतःत्रयो-
दशविधस्य विज्ञानस्यालम्बनं भवति । कामावचरस्य पञ्चप्रकारस्य संस्कृता-
लम्बनस्य; तस्य संस्कृतत्वात् । एवं रूपावचरस्य । आरूप्यावचरस्य तु द्विप्रकारस्य
मार्गदर्शनभावनाहेयस्य, अनास्रवस्य च । इदं त्रयोदशविधं सौमनस्येन्द्रिया-
लम्बनविज्ञानम् । तत्र यथासम्भवं कामावचर-रूगावचराः पञ्चनिकायाः
संस्कृतालम्बनाः, आरूप्यावचरौ द्वौ निकायौ, सर्वत्रगाश्चानुशया अनुशेरते—
इति विज्ञातव्यम् ।
सौमनस्येन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनः
सौमनस्येन्द्रियालम्बनं त्रयोदशविज्ञानं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव
त्रयोदशविज्ञानस्य । आरूप्यावचरस्य च भूयो द्विप्रकारस्य दुःख-समुदय-
दर्शनप्रहातव्यस्य । इदं पञ्चदशविधं सौमनस्येन्द्रियालम्बनं विज्ञानम् । तत्रा-
रूप्यावचरौ द्वौ—दुःख-समुदयदर्शनहेयौ वर्धयित्वा । कामावचर