अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 840, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] पञ्चमं कोशस्थानम् ८२१
चित्तानामालम्बनम् । स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावना-
हेयस्यैव, अनास्रवस्य चेति ॥ २९ ॥
स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।
रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् । स्वधातु-
कानां त्रयाणां तेषामेव । अधरधातुकानां त्रयाणां तेषामेव । ऊर्ध्वधातुकस्यैकस्य
भावनाहेयस्यैव, अनास्रवस्य चेति ।
तत्सहभुवस्तत्प्राप्तयश्च सानुचराः । भावनाहेयाश्चतुरनुशयाः, तत्सहभुवः,
तत्प्राप्तयश्च सानुचराः । सर्वं सास्रवं रूपम्, अन्ये चाक्लिष्टा धर्माः । एते धर्माः
पञ्चानां चित्तानामालम्बनम् । केषाम् ? इत्याह—स्वधातुकानां त्रयाणां तेषामेवेति ।
कामावचराणां दुःखसमुदयदर्शन-भावनाहेयानाम् । कथं कृत्वा ? दुःखदर्शनहेया-
स्तावद् दुःखदर्शनहेयस्य सर्वत्रगासर्वत्रगसम्प्रयुक्तस्य । समुदयदर्शनप्रहातव्यस्य
च सर्वत्रगसम्प्रयुक्तस्य, भावनाहेयस्य च कुशलस्य । रूपावचरस्यैकस्य भावनाहेय-
स्यैव । लौकिकेन मार्गेण कामधातूपपन्नस्य कामावचरधर्मालम्बनावस्थायाम् ।
रूपधातूपपन्नस्य च कामधातुदर्शनावस्थायाम् । अनास्रवस्य च धर्मज्ञानपक्षस्य
चेति पञ्चानां चित्तानामालम्बनं भवन्ति । न कामावचरयोर्निरोध-मार्गदर्शन-
हेययोश्चित्तयोरालम्बनम् ; अनास्रवालम्बनयोश्चित्तयोर्निरोधमार्गालम्बनत्वात् ।
सास्रवालम्बनयोश्च निरोधमार्गदर्शनहेयमात्रालम्बनत्वात् । नोर्ध्वभूमिकानां
क्लिष्टानाम् ; अधरभूमिकानालम्बनत्वात् । नारूप्यावचरस्य कुशलस्य; चत-
सृभिर्दूरताभिर्दूरत्वात् । एवं समुदयदर्शनहेया अपि द्विप्रकारस्य समुदयदर्शनहेयस्य ।
दुःखदर्शने हेयस्य च सर्वत्रगसम्प्रयुक्तस्य, भावनाहेयस्य कुशलस्य, रूपावचर-
स्यैकस्य भावनाहेयस्यैव, अनास्रवस्य चेति पञ्चानामेवालम्बनानां भवन्ति ।
व्याख्यानं च पूर्ववदेव कर्तव्यम् । भावनाहेया अपि पञ्चानामेवालम्बनानां
भवन्ति । दुःखसमुदयदर्शनहेययोः सर्वत्रगसम्प्रयुक्तयोश्चित्तयोर्भावनाहेयस्य
च कुशलाकुशलाव्याकृतस्य यथासम्भवम् । रूपावचरस्यैकस्य भावनाहेयस्यैव,
अनास्रवस्य चेति पूर्ववदेव वाच्यम् ॥ २८ ॥
“स्वकाधरत्रयोर्ध्वैकामलानाम्” इति । स्वकानामधराणां च त्रयं स्वकाधर-
त्रयम् च ऊर्ध्वैकं चामलं चेति विग्रहः । रूपावचरास्त एव त्रिप्रकारा धर्मा
इति । दुःख-समुदयदर्शन-भावनाहेयाः, तेषामधिकृतत्वात् । तेऽष्टानां चित्ताना-
मालम्बनम् । स्वधातुकानां त्रयाणां तेषामेव दुःख-समुदयदर्शन-भावनाहेया-
नाम् । पूर्ववदेव व्याख्येयम् । अधरधातुकानां त्रयाणां तेषामेव । तेषां दुःख-
दर्शनसमुदयहेययोर्विसभागधातुसर्वत्रगसम्प्रयुक्तयोश्चित्तयोर्भावनाहेययोश्च,
श्रुतमयस्य च चिन्तामयस्य वा । ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव, आकाशा-
अभि० को० ३ : ५