अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 845, कुल 1258 में से
संदर्भ में पढ़ेंसुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनः
सुखेन्द्रियालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव
द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य ।
इदं चतुर्दशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्रारूप्यावचरौ¹ दुःखसमुदयदर्शन-
हेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृता-
लम्बना अनुशया अनुशेरत इति ज्ञातव्यम् ।
अनया वर्तन्याऽन्यदपि गन्तव्यम्² । यैरनुशयैर्यच्चित्तं सानुशयं तेऽनुशया-
तस्यैव द्वादशविधस्येति । कामावचरस्य चतुःप्रकारस्यान्यत्र निरोधदर्शन-
हेयात् । रूपावचरस्य पञ्चप्रकारस्य, अरूपावचरस्य च द्विप्रकारस्य मार्ग-
दर्शनभावनाहेयस्यानास्रवस्य चेति अन्योन्यालम्बनयोगतस्तस्य सुखेन्द्रिया-
लम्बनं विज्ञानमालम्बनं भवति । आरूप्यावचरस्य च भूयो द्विप्रकारस्य तत्
सुखेन्द्रियालम्बनं विज्ञानमालम्बनं भवति । कतमस्य ? इत्याह—दुःखसमुदय-
दर्शनप्रहातव्यस्येति । आरूप्यावचरस्य सर्वत्रगसम्प्रयुक्तस्य हि दुःखसमुदय-
दर्शनहेयभेदाद् द्विप्रकारस्य चित्तस्य आरूप्यावचरमार्गदर्शनहेय-मिथ्यादृष्ट्या-
दिसम्प्रयुक्तं विज्ञानं मार्गालम्बनं चारूप्यावचरं भावनाहेयं कुशलमालम्बनं
भवति । एवमिदं चतुर्दशविधं सुखेन्द्रियालम्बनविज्ञानालम्बनम् । तत्रारूप्या-
वचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वेति । पूर्वं सर्वत्रगा एवारूप्यावचरा
सुखेन्द्रियालम्बने विज्ञानेऽनुशेरते । सुखेन्द्रियालम्बनालम्बने तु सकलावप्या-
रूप्यावचरौ दुःखदर्शनसमुदयहेयौ निकायावनुशयाते । तस्मात् तत्र सर्वत्रग-
सम्प्रयुक्ते चित्ते दुःखसमुदयदर्शनहेया अनुशयाः सम्प्रयोगत आलम्बनतो वा
यथायोगमनुशेरते । शेषास्तु पूर्ववद् योज्याः ।
अनया वर्तन्या अन्यदपि गन्तव्यमिति । अनेन वर्त्मना अन्यदपि बोद्ध-
व्यम् । कथम् ? ‘दुःखेन्द्रियालम्बने कत्यनुशयाः अनुशेरते’--इति प्रश्ने
आगते विचारयितव्यम्—दुःखेन्द्रियमेकविधं कामावचरं भावनाप्रहातव्यम् ;
पञ्चविज्ञानकायिकत्वात् । तत् समासतः पञ्चविधस्य विज्ञानस्यालम्बनं भवति ।
कामावचरस्य त्रिप्रकारस्य, दुःखसमुदयदर्शनहेययोः सर्वत्रगसम्प्रयुक्तयो-
र्विज्ञानयोर्भावनाप्रहातव्यस्य च । रूपावचरस्य च भावनाप्रहातव्यस्य,
अनास्रवस्य च । इदं पञ्चविधं दुःखेन्द्रियालम्बनं विज्ञानम् । तत्र यथासम्भवं
कामावचरास्त्रयो निकाया दुःखसमुदयदर्शनभावनाहेयाः । तत्र हि सर्वत्रग-
१. ॰वचरौ द्वौ—का० । २. अनुगन्तव्यम्—का० ।