अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] तृतीयं कोशस्थानम् ५५५
भिन्नम् । तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां
गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः । एष आरम्भः कामिनां कामभूत-
ग्रहावेशस्य ।
ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेश-
यन्ति स्म । अथान्यतमः सत्त्वोऽलसजातीयः सन्निधिकारमकार्षीत् । अन्येऽपि
च सत्त्वाः सन्निधिकारमकार्षुः । तेषां तत्र ममकार उत्पन्ने स शालिलूनो लूनो
न पुनर्जायते स्म ।
ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः । प्रथम
आरम्भश्चौर्यस्य । तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं
षष्ठभागेन भृतः । तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना ।
महाजनकायस्य सम्मतः प्रजां च रञ्जयतीति महासम्मतो राजेति संज्ञोत्पन्ना ।
एष आरम्भो राजपरम्परायाः ।
तत्र ये गृहेभ्यो बहिर्मनसः संवृत्तास्तेषाम् 'ब्राह्मणाः' इति संज्ञोत्पन्ना ।
अथान्यतमस्य राज्ञो लोभात् संविभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्य-
मापन्नम् । स तान् शस्त्रेणोपसंकमते स्म । ततोऽन्ये 'नैवङ्कारकाः स्म' इति
मृषा वाचं वक्तुमारब्धा इति ।
ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ९८ ॥
तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुष्याणां दशवर्षायुषो
मनुष्याः सम्भवन्ति ।
अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः—रसरागः, आलस्यं
च ॥ ९८ ॥
अयोनिशोमनस्कारस्य ग्राहभूतस्य ग्रासतां गतानां सत्त्वानां काम एव ग्रहः,
तेनावेशस्तस्यारम्भ इति ।
सायमाशार्थमिति । अपराह्णभोजनार्थम् । प्रातराशार्थमिति । प्रातर्भोज-
नार्थम् । सन्निधिकारः संग्रहः । क्षेत्राणि विभज्य अकृष्टोप्तेन शालिना तद्वृत्ति-
कल्पनात् । क्षत्रियदिसंज्ञानां नैरुक्तेन विधिना सिद्धिः ॥ ९७-९८ ॥
अभि० को०२ : १२
५५६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
मनुष्याणामन्तरकल्पस्य निर्याणं भवति । कथं भवति ?
इत्याह —
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।
त्रिभिरन्तरकल्पस्य निर्याणं भवति—शस्त्रेण, रोगेण, दुर्भिक्षेण च ।
अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्या अधर्मरागरक्ता भवन्ति विषम-
लोभाभिभूता मिथ्याधर्मपरीताः अमातृज्ञा^१ अपितृज्ञाः^१ । तेषां व्यापाद उत्कर्षं
गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति ।
तद्यथा—इदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठं वा लोष्ठं
वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति, तेऽन्योन्यं सत्त्वं जीविताद् व्यपरोपयन्ति ।
नः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या
ईतिमुत्सृजन्ति, यतस्तेषामसाध्या^२ व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते ।
पुनर्दशवर्षायुषां मनुष्याणां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति, यतो दुर्भिक्षं
जायते—चञ्चुः, श्वेतास्थि, शलाकावृत्तिः ।
कथं च चञ्चुः ? द्वाभ्यां कारणाभ्याम् । य इदानीं समवायः स तदानीं
'चञ्चुः' इत्युच्यते । समुद्गोऽपि चञ्चुः । ते च मनुष्या निघसांदौर्बल्यपरीताः
निर्याणमिति । परिसमाप्तिः । अधर्मरागरक्ता इति । काममिथ्याचाररागा-
ध्यवसिताः । विषमलोभाभिभूता इति । विषमलोभः = परकीयस्वीकरणेच्छा
चौर्याद् बलाद्वा, तेनाभिभूताः । मिथ्याधर्मपरीता इति । विपरीतधर्मपरि-
दीपकाः । अमातृज्ञा अपितृज्ञा इति विस्तरः ।
पुनः कल्पस्य निर्याणकाल इति । इह कल्पस्य निर्याणानि त्रीण्युच्यन्ते—
शस्त्र-रोग-दुर्भिक्षाणि । किमेकस्य दशवर्षायुःकल्पस्य त्रीणि निर्याणानि क्रमेण
भवन्ति, आहोस्विदेकैकस्यैकैकं क्रमेणेति ? एके तावदाहुः—एकैकमिति ।
अपरे पुनराहुः—एकस्य क्रमेण त्रीणि भवन्ति । पूर्वं दुर्भिक्षम्, तदनन्तरो रोगः,
तदनन्तरं शस्त्रमिति । पूर्वकस्तु पक्ष इष्ट इति पश्यामः ।
तैरेव दोषैरिति । अधर्मादिरागादिभिः । अमनुष्याः पिशाचादयः । ईति
व्याध्यादिकामुत्सृजन्ति, ओजो वा हरन्ति, प्रभावतो वा पुष्पफलौषधिप्रभृतीनां
महाभूतानि दूषयन्ति । यतस्तेषामसाध्या व्याधयः प्रादुर्भवन्ति यतो म्रियन्ते ।
१-१. का० पुस्तके नास्ति । २. तेषाम०—का० ।
यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण (transcription) नीचे दिया गया है:
निर्देशः ] तृतीयं कोशस्थानम् ५५७
समेत्य कालं कुर्वन्ति, समुद्गेषु चानागतजनतानुग्रहार्थं बीजान्ववस्थापयन्ति ।
अतस्तद् दुर्भिक्षम्, 'चञ्चुम्' इत्युच्यते ।
कथं श्वेतास्थि ? द्वाभ्यां कारणाभ्याम् । तेषां हि शुष्करूक्षकक्षायानां कालं
कुर्वतामाध्वेवास्थीनि श्वेतानि भवन्ति, बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथ-
यित्वा पिबन्ति ।
कथं शलाकावृत्तिः ? द्वाभ्यां कारणाभ्याम् । ते हि सत्त्वाः शलाकोद्दे-
शिकया गृहेष्वामिषं संविभजन्ते—अद्य गृहस्वामी भोक्ष्यते, श्वो गृहस्वामिनी-
त्येवमादि; धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन
क्वाथयित्वा पिबन्ति ।
एवं वर्णयन्ति—"यैनेकाहमपि प्रा
५५८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
१. सप्तभिः सूर्यैस्तेजःसंवर्तनी भवति । २. वर्षोदकेनाप्संवर्तनी ।
३. वायुप्रकोपाद् वायुसंवर्तनी । ताभिश्च भाजनानां सूक्ष्मोऽप्यवयवो नावशिष्यते ।
अत्र तु केचित् तीर्थकरा इच्छन्ति—"परमाणवो नित्यास्ते तदानीं
शिष्यन्ते" इति ।
कस्मात् त एवमिच्छन्ति ? मा भूद्बीजकः स्थूलानां प्रादुर्भाव इति ।
ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् । संवर्तनीशीर्ष-
वायुर्वा तस्य निमित्तं भविष्यति । "वायुना लोकान्तरेभ्यो बीजान्याह्रियन्ते" इति
महीशासकाः सूत्रे पठन्ति ।
एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति । किं तर्हि ?
स्वेभ्य एवावयवेभ्यः, तेषामपि स्वेभ्य एव, एवं यावत् परमाणुभ्यः ।
किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् ? न किञ्चिदन्यत्र परमाणूप-
सर्पणात्¹।
किं पुनः कारणं त एवमिच्छन्ति ? नहि विजातीयात् सम्भवो युक्त इति ।
कस्माच्च युक्तः ? अनियमो हि स्यात् ।
तीर्थकराः कणभुकप्रभृतयः ।
वायुर्बीजमुक्तमिति । "दृष्टविप्रत्रभावभिन्नेष्वदृग्भिरभिमघ्ननानाः²" इति
वचनात् । तस्य निमित्तमिति । रूपावचरो वायुरविनष्टः । कामावचरस्य विवर्त-
काले प्रथमक्षणोत्पन्नस्य वायोर्निमित्तम् । बीजान्याह्रियन्त इति । पञ्च बीज-
जातानि मूलबीजादीनि । मूलबीजम्, फलबीजम्, बीजबीजम्, अग्रबीजम्,
स्कन्धबीजम् ।
एवमपीति । यद्यप्याह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो
बीजाङ्कुरगण्डादिभ्यो, — । बीजादीनि
हि तेषां निमित्तकारणानि, न समवायिकारणानि, समवायिकारणैश्च भवि-
तव्यम् ? अत आह--किं तर्हि, स्वेभ्य एवावयवेभ्य इति विस्तरः । तद्यथा—
अङ्कुराद्यवयवी अङ्कुराद्यवयवेभ्यः । तेषामप्यङ्कुराद्यवयवानां स्वेभ्य एवावय-
वेभ्यः । तेषामपि स्वेभ्य एवेति । एवं यावत् परमाणुभ्यः ।
अन्यत्र परमाणूपसर्पणादिति । न जनने बीजादीनां सामर्थ्यं किञ्चिदस्ति ।
अङ्कुरादिपरमाणूपसर्पणात्तु तेषां सामर्थ्यमिष्यत इत्यभिप्रायः । अनियमो हि
१. तत्परमाणू०—फा० । २. द्र०—अभि० को० ३.४९; ५०८ तमे पृष्ठे ।
निर्देशः 1 ] तृतीयं कोशस्थानम् ५५९
शक्तिनियमान्नैवं भविष्यति । शब्दपाकजोत्पत्तिवत् ।
चित्रो हि गुणधर्मः, द्रव्यं तु नैवम् । समानजातीयेभ्यः एव हि द्रव्येभ्यः
समानजातीयानां दृष्ट उत्पादः, तद्यथा—वीरणेभ्यः कटस्य, तन्तुभ्यः पटस्येति ।
इदमयुक्तं वर्तते ।
किमत्रायुक्तम् ? यदसिद्धं साधनायोदाह्रियते ।
किमत्रासिद्धम् ? अन्यो वीरणेभ्यः कटः, अन्यश्च तन्तुभ्यः पट इति ।
त एव हि ते तथासन्निविष्टास्तां संज्ञां लभन्ते, पिपीलिकापङ्क्तिवत् ।
कथं गम्यते १ ? एकतन्तुसंयोगे पटस्यानुपलम्भात् । को हि तदा सतः
पटस्योपलब्धौ प्रतिबन्धः !
स्यादिति । तन्त्वादिभ्योऽपि कटाद्युत्पत्तिः स्यादित्यर्थः । शक्तिनियमादिति ।
यथा बीजादीनां सामर्थ्यनियमान्नानियमो भविष्यति । शब्दपाकजोत्पत्तिवत् ।
यथा शब्दोऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते, अथ च न यतः कुतश्चिद्
गन्धरसादेर्विजातीयादुत्पद्यते, अभिघातादीनामेव विजातीयानां तदुत्पादने
सामर्थ्यात्; तथा पाकजा रूपादयो विजातीयादग्न्यादेरुत्पद्यन्ते, अथ च न यतः
कुतश्चिद् विजातीयाच्चक्षुरादेरुत्पद्यन्ते, अग्न्यादेरेव तदुत्पादने सामर्थ्यात् ।
वैशेषिक आह—चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश्चोत्पद्यते ।
स्वजातीयेभ्यस्तावद् :परसगन्धस्पर्शादयः कारणपूर्वा रूपरसगन्धस्पर्शादिभ्यः
एवोत्पद्यन्ते, विजातीयेभ्योऽपि संयोगविभागपाकजादयः कर्मादिभ्यः । तदेवं
गुणधर्मो द्रव्यधर्मं प्रत्यनुदाहरणम् ।
त एव हि ते तथेति विस्तरः । वीरणादय एव हि ते तथा तेन प्रकारेण
कटादिरूपेण सन्निविष्टा व्यवस्थितास्तां कटसंज्ञां लभन्ते ।
यथा पिपीलिकास्तथासन्निविष्टाः पंक्तिरिति संज्ञां लभन्ते, न च ताभ्योऽन्यत्
पंक्तिद्रव्यमस्ति भवतामपि सिद्धान्ते ।
कथं गम्यते तानि वीरणादीनि तथासन्निविष्टानि कटादिसंज्ञां लभन्ते, न
पुनस्तेभ्यो द्रव्यान्तराणीति ? अत आह—एकतन्तुसंयोगे पटस्यानुपलम्भात् ।
आरब्धकार्ये ह्येकस्मिन् तन्तौ चक्षुःसंस्पर्शाभ्यां संयुक्ते तत्समवेतः, पटोऽपि च
ताभ्यां सन्निकृष्ट इत्यसावपि तथैवोपलभ्येत । यदि ब्रूयात्—प्रतिबन्धात्तस्यानुप-
लब्धिरिति ? अत आह—को हि तदा सतः विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध
इति । नास्ति प्रतिबन्ध इत्यभिप्रायः । तस्मान्न पटो नाम द्रव्यान्तरमस्तीति ।
स्यान्मतम्, एकैकस्मिंस्तन्तौ प्रदेशेन पटो वर्तते, न सर्वात्मना वर्तत इति ?
१. गम्येत—का० ।
अकृत्स्नवृत्तौ पटभागोऽत्र स्यात्, न पटः । समूहमात्रं च पटः १ । कश्च
तन्तुभ्योऽन्यः पटभागः ! अनेकाश्रयसंयोगापेक्षायां २ दशामात्रसङ्घाते३ पटोपलब्धिः
स्यात् । न वा कदाचित् ; मध्यपरभागानामिन्द्रियेणासन्निकर्षात् । क्रमसन्निकर्षे
चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं ४ न स्यात् । तस्मात् क्रमेण सन्निकर्षाद-
वयविव्यवसायादवयवेष्वेव तद्बुद्धिः, अलातचक्रवत् । भिन्नरूपजातिक्रियेषु
———
अत उच्यते—अकृत्स्नवृत्ताविति विस्तरः । अकृत्स्नवृत्तौ पटस्य कल्प्यमानायां
पटभागोऽत्रैकैकस्मिन् तन्तौ स्यान्न पटः । ततः किमिति चेत् ? अत आह—
समूहमात्रं च पटः । स्यादिति वर्त्तते । एकस्मिन् तन्तावेको भागः, अपरस्मिन्नपर
इति तन्तुवर्त्तिनां बहूनां भागानां समुदायः पट इति च प्राप्नोति, न चेष्यते ।
कश्च तन्तुभ्योऽन्यः पटभाग इति कणभुग्भक्ताः प्रष्टव्याः, येन भागेनायमिन्द्रिय-
सन्निकृष्टे तन्तौ वर्त्तते । तस्मादेतामपि कल्पनां कल्पयित्वा नातोऽन्यः पटः
सिध्यति ।
स्यान्मतम्—एकैकस्मिन्नपि तन्तौ पटो वर्त्तते, पटोपलब्धेस्तु पटेन्द्रिय-
सन्निकर्षः पटस्यानेकाश्रयसंयोगापेक्षो निमित्तमिति । अतोऽनेकाश्रयसंयोगा-
पेक्षायामुपलब्धौ कल्प्यमानायां दशामात्रसङ्घाते गृह्यमाणे पट उपलभ्येत, न तूप-
लभ्यते; पटमध्यभागाद्यदर्शनात् ।
अथ मतम्—नैव तदानीमपीन्द्रियेण मध्यादिभागाः सम्प्रयुज्यन्त इति,
अतो दशामात्रसङ्घाते पटोपलब्धिर्न भवतीति ? तत इदमभिधीयते—न वा
कदाचिदिति विस्तरः । न वा कदाचित् पटोलब्धिः स्यात् । मध्यपरभागाना-
मिन्द्रियेणासन्निकर्षात् । नैव हि सम्भवोऽस्ति यत्तदारम्भका मध्यपरभागाः सर्वं
एवेन्द्रियेण सन्निकृष्येरन् । तथा च सति तन्त्वादिष्वप्येष प्रसङ्ग इति । न च
किञ्चिदपि कार्यमुपलभ्येत । किञ्च—क्रमसन्निकर्षे चेति विस्तरः । यदा क्रमेण
चक्षुः संस्पर्शनैन्द्रियं वा पटं गृह्णीयात्, तदा पटग्रहणं न स्यात्; युगपदनेकाश्रयं-
संयोगाभावाच्चक्षुःस्पर्शनैन्द्रिययोः । एवमन्येषामप्यवयवानां ग्रहणं न स्यात् ।
तस्मादिति विस्तरः । यस्मात् क्रमेण पटबुद्धिः कटबुद्धिर्वा, तस्मादवयवेष्वेव
पटावयवेषु कटावयवेषु वा तद्बुद्धिः पटबुद्धिः, कटबुद्धिर्वा विकल्पवशाद्
भवति । अलातचक्रवत् । यथालाते ऽशीघ्रसञ्चारात् तत्र तत्रोत्पद्यमाने अलात-
चक्रबुद्धिर्भवति, तद्वत् । साधनं चात्र—'न द्रव्यसत् पटः, अवयवग्रहणसापेक्ष-
ग्रहणत्वात्, अलातचक्रवत्' । भिन्नरूपजातिक्रियेष्विति विस्तरः । भिन्नरूपेषु
१. पटः स्यात्—का० । २. ०गापेक्षेण—का० । ३. ०संयोगे—का० ।
४. ०मवयववि०—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ५६१
तन्तुषु पटस्य रूपाद्यसम्भवात् ।
चित्ररूपादित्वे विजातीयारम्भोऽपि स्यात्, अविचित्रे १ च पार्श्वान्तरे
पटस्यादर्शनं स्यात् २, चित्ररूपदर्शनं ३ वा । क्रियापि च चित्रेत्यतिचित्रम् ।
तापप्रकाशभेदे चाग्निप्रभाया ४ आदिमध्यान्तेषु ५ तद्रूपस्पर्शयोरनुपपत्तिः ।
परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं
तन्तुषु नीलपीतादिभेदात्, भिन्नजातिषु दुकूलकर्पासादिभेदात्, भिन्नक्रियेषू-
र्ध्वाधोगमभेदात् । पटस्य रूपाद्यसम्भवात् । कीदृशं तत्र रूपं भवतु, जातिः
क्रिया वा ?
स्यादेषा बुद्धिः—चित्रमस्य रूपादीति ? तदेवं चित्ररूपादित्वे कल्प्यमाने
विजातीयारम्भोऽपि स्यात्, तन्तुवीरणयोरपि कटारम्भः स्यात् । तथा सति धर्म-
विशेषविपर्ययः प्राप्नोति । अत्यन्तविजातीयारम्भकत्वं द्रव्याणां प्राप्नोतीत्यर्थः ।
अविचित्रे च पार्श्वान्तरे एकपार्श्वचित्रस्य पटस्यादर्शनं स्यात्, तस्य चित्र-
रूपाभिमतत्वात् । रूपदर्शने हि तदाश्रयद्रव्योपलब्धिरिष्यते वैशेषिकैः,
“महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः”, “रूपसंस्काराभावाद् वायोरनुपलब्धिः”
(वै० सू० ४.१.६-८) इति वचनात् । चित्ररूपदर्शनं वा अचित्रे पार्श्वे स्याद् यदि
पटो दृश्येत । चित्रं हि तस्य रूपमिष्यते । क्रियापि च चित्रेत्यतिचित्रमिति । एकं
तद् द्रव्यं विचित्रक्रियमिति न युज्यते । क्रियावैचित्र्ये हि क्रियावदभिमतानां
द्रव्याणामन्यत्वमिष्यते । तापप्रकाशभेदे चेति विस्तरः । अग्निप्रभालक्षणस्या-
वयविन आदिमध्यान्तेष्वारम्भकेषु तापप्रकाशभेदे स्पर्शनभेदो दृष्टः । स च
तद्भेदस्तत्र यथाक्रमं तीव्रमध्यमन्दता । तस्यावयविनः प्रभाद्रव्यस्य तौ रूप-
स्पर्शौ नोपपद्येते । न ह्येकस्यावयविनोऽनेकं रूपं स्पर्शो वा युज्यते । तेन
नावयवेभ्योऽवयविद्रव्यमन्यदस्तीति ।
अथ मतम्—यदि तन्त्वादिभ्योऽवयवेभ्यो न पटाद्यवयवी व्यतिरिक्तोऽस्ति,
परमाणूनामतीन्द्रियत्वात्, न च तैरवयवैरैन्द्रियक आरब्ध इति कृत्स्नं जगद-
प्रत्यक्षं स्यात्, प्रत्यक्षं च गवादि दृश्यते। तस्मादतीन्द्रियैः परमाणुभिरर्थान्तरम-
न्यदैन्द्रियकमारब्धमिति सिद्धिरिति ? अत्रोच्यते—परमाण्वतीन्द्रियत्वेऽपीति
विस्तरः । यथा भवतां वैशेषिकाणामतीन्द्रियत्वेऽपि समस्तानां कार्यारम्भकत्वम्,
१. अचित्रे—का० । २. का० पुस्तके नास्ति ।
३. चित्रदर्शनं—का० । ४. वा०—का० ।
५. आदिमध्यान्ते—का० ।
५६२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः । तेषां परमाणुवदेकः
केशोऽतीन्द्रियः ।
रूपादिष्वेव च परमाणुसंज्ञाविनिवेशात्¹ तद्विनाशे सिद्धः परमाणुविनाशः ?
द्रव्यं हि परमाणुः, अन्यच्च रूपादिभ्यो द्रव्यमिति न तेषां विनाशे
तद्विनाशः सिद्ध्यति ।
अप्रयुक्तमन्यान्यत्वम् ; यावता न परिच्छिद्यन्ते² केनचित्—इमानि पृथिव्य-
प्तेजांसि, इम एषां रूपादय इति । चक्षुःस्पर्शनग्राह्याणि च प्रतिज्ञायन्ते³ ।
दग्धेषु चोर्णाकार्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद् रूपादिष्वेव⁴ तद्बुद्धिः ।
न व्यस्तानाम्; एवमस्माकमपि समस्तानामेव प्रत्यक्षत्वं न व्यस्तानामसत्यवय-
विन्यर्थान्तरभूते । यथा चक्षुरादीनां चक्षूरूपालोकमनस्काराणां समस्तानां चक्षु-
र्विज्ञानोत्पत्तौ कारणत्वम्, नैकैकस्य; एवं परमाणूनामतीन्द्रियत्वेऽपि समस्तानां
प्रत्यक्षत्वम्, नैकैकस्य। तैमिरिकाणां च पुरुषाणां विकीर्णानामसंयुक्तानां केशानां
समूह उपलभ्यते अनारब्धेऽप्यवयविनि, न त्वेकैकः केशः। तेषां तैमिरिकाणां
परमाणुवदेकः केशोऽतीन्द्रिय इति । अतो नास्ति तेऽन्यद् द्रव्यम्।
तदेवमवयविनं प्रतिषिध्य रूपादिभ्यो गुणेभ्योऽर्थान्तरं गुणिनं प्रतिषेद्धुकाम
आह—रूपादिष्वेव चेति विस्तरः। रूपादिष्वेव परमाणुरिति संज्ञाविनिवेशः।
तद्विनाशे रूपादिविनाशे सिद्धः परमाणुविनाश इति ।
वैशेषिका आहुः—द्रव्यं हि परमाणुः। अन्यच्च रूपादिभ्यो द्रव्यम्; “रूप-
रसगन्धस्पर्शवती पृथिवी” (वै० सू० २.१.१) इत्येवमादिसिद्धान्तवचनात् ।
अप्रयुक्तमन्यान्यत्वम् । यस्मान्न केनचित् परिच्छिद्यन्ते इमानि पृथिव्यप्तेजांसि,
इमे एषां पृथिव्यादीनां रूपादयो रूपरसगन्धस्पर्शा गुणा इति । ब्रूयाद्—अती-
न्द्रियाणि तत्त्वतो न निर्धार्यन्त इति ? अत आह—चक्षुःस्पर्शनग्राह्याणि च तानि
पृथिव्यादीनि प्रतिज्ञायन्त इति । दग्धेषु चेति विस्तरः। ऊर्णादीन्यवयविद्रव्याणि
न पच्यन्त इति पैलुकाः। तदुक्तं भवति—प्राक्तनगुणनिवृत्तौ पाकजगुणोत्पत्तौ
तदाश्रयास्तु द्रव्याणि तदवस्थान्यान्येव भवन्तीति । तथैवोर्णादिबुद्धिः स्यात् ।
न च भवति । तस्माद् द्रव्यबुद्ध्यभावात्, रूपादिष्वेव तद्बुद्धिर्न द्रव्येऽर्थान्तरभूत
इति । यदि हि ऊर्णादिद्रव्यं रूपादिभ्योऽन्यत् स्यात्, तत्तदवस्थानं भवतीति
१. संज्ञानिवेशात्—का०। २. निर्धार्यन्ते—का० ।
३. प्रज्ञायन्ते—का० । ४. रूपादिभेदेष्वेव—का० ।
".
L24:
"सामान्यादन्यस्यामपि³ तत्परिज्ञानं भवति—सैवेयं पिपीलिकानां पंक्तिरिति ।"
Note the reference ³: "सामान्यादन्यस्यामपि³"
L25:
"आह—कथमेतद् गम्यते संस्थानसामान्यात् परिज्ञानम्, न तु तादवस्थ्यादिति ?"
L26:
"अत्रोच्यते—चिह्नमपश्यतोऽपरिज्ञानादिति । यस्मात् खण्डनिम्नोन्नतादि चिह्नम्-"
L27:
"अपश्यतस्तत्परिज्ञानं न भवति, अतः संस्थानसामान्यादिति सिद्धम् ॥ १०० ॥"
L28:
"सा चेति विस्तरः । सा च प्रीतिः । प्रस्रब्धियोगेन । 'प्रीतेर्मनसः प्रस्रब्धि-"
L29:
"र्जायते' इति प्रस्रब्धियोगेनाश्रयमुदुकरणादप्कल्पा ।"
Wait, look at L29:
"र्जायते' इति प्रस्रब्धियोगेनाश्रयमुदुकरणादप्कल्पा ।"
Yes, 'मुदुकरणादप्कल्पा'.
Footnotes at bottom:
L30:
"१. परिज्ञानाभावात्—का० । २. ०मृदूकरणादाकल्पाः—का० ।"
L31:
"
५६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अत एव च¹ तस्मिन् कृत्स्नकायस्थैर्यापगमात्² दुःखेन्द्रियनिरोध³ उक्तः सूत्रे ।
तृतीये ध्याने आश्वासप्रश्वासाः । ते च वायव एव । इति यस्यां
ध्यानसमापत्तौ यथाभूत आध्यात्मिकोऽपक्षालः, तस्यां ध्यानोपपत्तौ तथाभूतो बाह्य
इति ।
कस्मात् पृथिवीसंवर्तनी न भवति ? पृथिव्येव हि भाजनाख्या, तस्यां
तेजोजलवायुभिर्विरोधः, न पृथिव्येति ।
अथ चतुर्थध्याने कथं न संवर्तनी ?
न चतुर्थेऽस्त्यनिञ्जनात् ।
चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेज्यमुक्तं⁴ भगवता । अतो-
ऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी ।
शुद्धावासप्रभावादित्यपरे । न⁵ तैः शक्यमारूप्यान् प्रवेष्टुम्, नाप्यन्यत्र
गन्तुमिति ।
नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्नोति ?
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ १०१ ॥
अत एव चेति विस्तरः। आश्रयमृदुकरणात्। तस्मिन् द्वितीये समापत्तिध्याने
कृत्स्नस्य कायस्थैर्यस्यापगमाद् दुःखेन्द्रियनिरोध उक्तः। "सुखस्य च प्रहाणाद्
दुःखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षा-
स्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति” ( ) इति वचनात् ।
आध्यात्मिकापक्षालरहितत्वादिति। ये वितर्कविचारादयोऽष्टावाध्यात्मिका-
पक्षालाः—"वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम्” (अभि० को० ८.११)
इति, तद्रहितत्वादित्यर्थः। आनेज्यमिति। "एजू कम्पने" (मा० धा० १.१४६)
इत्यस्य धातोरेतद् रूपम्—आनेज्यमिति। यदा त्वानिञ्ज्यमिति पाठः, तदा
इगेः⁶ प्रकृत्यन्तरस्यैतद् रूपं द्रष्टव्यम्। न तैः शुद्धावासकायिकैः शक्यमारूप्यान्
प्रवेष्टुं विपश्यनाचरितत्वात्। शमथचरिताश्चारूप्याः। नाप्यन्यत्र गन्तुमधरां
भूमि विशेषगामित्वात् ॥ १०१ ॥
१. का० पुस्तके नास्ति । २. ०क्रौर्या०—क० ।
३. ०न्द्रियस्य०—का० । ४. दानेअमु०—का० ।
५. नहि—का० । ६. द्र०—मा० धा० १.९१ ।
न हि चतुर्थं ध्यानमेकभूमिसम्बद्धम् । किं तर्हि ? विच्छिन्नस्थानान्तरम्;
तास्त्वाकाशवत् । तत्राप्ययं सत्त्व उपपद्येत, च्यवेत वा, स सार्धं विमानेनेति
नास्त्यस्य नित्यत्वम् ॥ १०१ ॥
केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति ? निरन्तरं तावत्—
सप्ताग्निना,
सप्त संवर्तन्यस्तेजसा भवन्ति । ततः—
अद्भिरेका,
सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति ।
एवं गतेऽद्भिः सप्तके पुनः ।
तेजसा सप्तकः,
एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनाना सप्तको
भवति ।
पश्चाद् वायुसंवर्तनी ततः ॥ १०२ ॥
पश्चादेका वायुसंवर्तनी भवति । किं कारणम् ? यथैव हि तेषां सत्त्वानां
समापत्तिविशेषादात्मभावानां स्थितिविशेषः, तथा भाजनानामपामिति ता एता
भवन्ति । एवं¹ च कृत्वा¹—षट्पञ्चाशत् तेजःसंवर्तन्यः, सप्त अप्संवर्तन्यः, एका
एतेन क्रमेणेति । यथोक्तेन । सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी
भवत्यैकाँ। पुनः सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति द्वितीया।
एवं यावत् सप्तम्यद्भिः संवर्तनी।
“एवं गतेऽद्भिः सप्तके पुनः तेजसा सप्तकः” । “ततः” पश्चात् एका वायु-
संवर्तनी भवति, किं कारणम् ? यथा वर्णितम्—बहुना कालप्रकर्षेणाप्संवर्तनी
भवति, ततोऽपि बहुतेरेण वायुसंवर्तनीति, अत इदमुच्यते—यथैव हि तेषामिति
विस्तरः। यथा प्रथमध्यानाद् द्वितीयध्यानसमापत्तिविशेषादात्मभावानां द्वितीय-
ध्यानभूमिकानां स्थितिविशेषः। अर्धमहाकल्पार्धं प्रथमध्यानोपपन्नानामायुः-
प्रमाणम्, कल्पद्वयं द्वितीयध्यानोपपन्नानामिति। तथा भाजनानामपामपि। किम् ?
स्थितिविशेष इति। एवं द्वितीयादपि तृतीयध्यानस्य विशेषो वक्तव्यः। एवं च
कृत्वेति । यस्मादष्टकृत्वस्तेजःसंवर्तनीसप्तका इति षट्पञ्चाशत् तेजःसंवर्तन्यो
१-१. का० पुस्तके नास्ति ।
५६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
वायुसंवर्त्तनी ।
एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति—"चतुःषष्टिः कल्पाः शुभकृत्स्ना-
नामायुःप्रमाणम्"१ ( ) इति ॥ १०२ ॥
अभिधर्मकोशभाष्ये लोकनिर्देशो नाम
तृतीयं कोशस्थानं
समाप्तमिति२ ।
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥ इति ।
भवन्ति, सप्ताप्संवर्त्तन्धः, एका वायुसंवर्त्तनीति चतुःषष्टिः संवर्त्तन्त्यो भवन्ति ।
तस्माद् यदुक्तं प्रज्ञप्तिभाष्ये—चतुःषष्टिः कल्पाः शुभकृत्स्नानामायुःप्रमाणमिति,
तत् सूक्तं भवति । यथा "ऊर्ध्वं तु परीत्ताभेभ्य आश्रयः। द्विगुणद्विगुणः"
( अभि० को० ३.७७ ) इत्यत्रोक्तं शुभकृत्स्नानां चतुःषष्टियोजनानां शरीरप्रमा-
णम् । शरीरप्रमाणेण च तेषामायुःप्रमाणमुक्तम् । "आयुस्तु कल्पैः स्वाश्रय०"
( अभि० को० ३.८० ) इति वचनात् । एकैका संवर्त्तनी महाकल्प इति कृत्वा ।
इयता हि कालेन तेषामायुषः परिसमाप्तिरिति ॥ १०२ ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायाः
अभिधर्मकोशव्याख्यायां
तृतीयं कोशस्थानम् ॥
१. शुभकृत्स्नानां देवानामायुः०—का० ।
२. ०श्रीलामावाकस्य यदत्र पुण्यम्—का० ।
☸ ॐ नमो बुद्धाय ☸
चतुर्थं कोशस्थानम्
( कर्मनिर्देशः )
अथ यदेतत् सत्त्वभाजनलोकस्य 'बहुधा वैचित्र्यमुक्तं तत् केन कृतम् !
न खलु केनचिद् बुद्धिपूर्वकं कृतम् । किं तर्हि ? सत्त्वानां
कर्मजं लोकवैचित्र्यम्,
यदि कर्मजम्, कस्मात् सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा
जायन्ते, न तेषां शरीराणि ? कर्माण्येव तान्येवञ्जातीयानि व्यामिश्रकारिणां
सत्त्वानाम् यदाश्रयाश्च व्रणभूता जायन्ते, भोगाश्च रम्यास्तत्प्रतीकारभूताः ।
अव्यामिश्रकारिणां तु देवानामुभयेऽपि रम्याः ।
किं पुनस्तत् कर्म ? इत्याह—
चेतना तत्कृतं च तत् ।
सूत्र उक्तम्—"द्वे कर्मणी चेतना कर्म चेतयित्वा च" ( )
इति । यत् तच्चेतयित्वा चेतनाकृतं च तत् ।
ते एते द्वे कर्मणी त्रीणि भवन्ति—काय-वाङ्-मनस्कर्माणि ।
कथमेषां कर्मणां व्यवस्थानम्, किमाश्रयतः ? आहोस्वित् स्वभावत. .
स्फुटार्थाव्याख्यायाम्
चतुर्थं कोशस्थानम्
तीर्थंकरविप्रतिपत्त्या समुत्पादित-सन्देहः पृच्छति—अथ यदेतदिति
विस्तरः ।
तत्र सत्त्ववैचित्र्यं धातु-गति-योन्यादिभेदेन । भाजनवैचित्र्यं मेरु-द्वीपादि-
भेदेन । व्यामिश्रकारिणामिति । कुशलाकुशलकर्मकारिणाम् । अथ कस्मात् तेषा-
माश्रया रम्या न भवन्ति, भोगास्तु रम्या इति ? सति चैवं विषयोपभोगः
सम्भवति । आश्रयरम्यत्वे हि कस्य प्रतीकाराय रम्यविषयोपभोगः स्यात् ।
अव्यामिश्रकारिणामिति । रूपावचराणाम् । कामावचरा अपि देवा अव्यामिश्र-
कारिकल्पा आश्रयविषयरम्याः; रम्यताहेतुकर्मद्वयकारित्वात् ।
चेतयित्वा चेति । 'एवं चेदं करिष्यामीति ।
समुत्थानतो वा ? आश्रयतश्चेद्, एकं कायकर्म प्राप्नोति, सर्वेषां कायाश्रितत्वात् ।
स्वभावतश्चेद्, वाक्कर्मैकं प्राप्नोति; वचसः कर्मस्वभावत्वात् । समुत्थानतश्चेत्,
मनस्कर्मैकं प्राप्नोति; सर्वेषां मनःसमुत्थितत्वात् ?
यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः ।
तत्र पुनः—
चेतना मानसं कर्म,
चेतना मनस्कर्मेति वेदितव्यम् ।
तज्जं वाक्कायकर्मणी ॥ १ ॥
यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तम्, कायवाक्कर्मणी ते वेदितव्ये ।
ते तु विज्ञप्त्यविज्ञप्ती,
ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये ।
तत्र तु—
कायविज्ञप्तिरिष्यते ।
संस्थानम्,
चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः । गतिरित्यपरे ।
प्रस्यन्दमानस्य हि कायकर्म, नोऽप्रस्यन्दमानस्येति¹ ।
न गतिर्यस्मात् संस्कृतं क्षणिकं
कोऽयं क्षणो नाम ? आत्मलाभोऽनन्तरविनाशी, सोऽस्यास्तीति
स्वभावतश्चेद्वाक्कर्मैकमिति । वागेव कर्मेति कृत्वा । इतरयोस्तु न कर्मत्वम् ।
कायेन कायस्य वा कर्म कायकर्म, एवं मनस्कर्मं । इति न स्वभावतः कर्म ।
त्रिभिः कारणैरिति । आश्रयतः, स्वभावतः, समुत्थानतश्चेति । त्रयाणामिति ।
कायवाङ्मनस्कर्मणाम् । आश्रयतः कायकर्म—कायाश्रयं कर्म कायकर्मेति,
स्वभावतो वाक्कर्म—वागेव कर्मेति, समुत्थानतो मनस्कर्म—मनःसमुत्थित-
मिति कृत्वा ॥ १ ॥
गतिरित्यपर इति । वात्सीपुत्रीयाः ।
आत्मलाभोऽनन्तरविनाशीति । क्षणस्यानन्तरक्षण इति नैरुक्तेन विधिना
आत्मलाभः । अनन्तरविनाशी क्षणशब्देनाभिधीयते । अथ वा—कालपर्यन्तः
१ ॰ष्येति । त उच्यन्ते—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५६९
क्षणिकः¹ । दण्डिकवत् । सर्वं हि संस्कृतमात्मलाभादूर्ध्वं न भवतीति यत्रैव
जातं तत्रैव ध्वस्यते । तस्यायुक्ता देशान्तरसंक्रान्तिः । तस्मान्न गतिः कायकर्म ।
स्यादेतदेव, यदि सर्वस्य क्षणिकत्वं सिद्ध्येत् ? सिद्धमेवैतद् विद्धि ।
कुतः ? संस्कृतस्यावश्यं—
व्ययात् ॥ २ ॥
आकस्मिको हि भावानां विनाशः । किं कारणम् ? कार्यस्य हि कारणं
भवति, विनाशश्चाभावः । यश्चाभावस्तस्य किं कर्तव्यम् ! सोऽसावाकस्मिको
विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात्, पश्चादपि न स्याद्; भावस्य तुल्य-
त्वात् । अथान्यथीभूतः ? न युक्तं तस्यैवान्यथात्वम् । न हि स एव तस्माद्
विलक्षणो युज्यते । दृष्टो वै काष्ठादीनामग्नयादिसंयोगाद् विनाशः । न च दृष्टाद्
गरिष्ठं प्रमाणमस्तीति । न च सर्वस्याकस्मिको विनाशः ।'
कथं तावद् भवान् काष्ठादीनामग्नयादिसंयोगाद् विनाशं पश्यामीति मन्यते ?
तेषां पुनरदर्शनात् । सम्प्रधार्य तावदेतत्—किमग्निसंयोगात् काष्ठादयो विनष्टाः,
क्षणः स्वावस्थानः । सोऽस्यास्तीति क्षणिकः । "अत इनिठनौ” ( पा० सू०
५.२.११५) इति ठन् ।
संस्कृतस्यावश्यं व्ययादिति । उत्पत्त्यनन्तरविनाशिरूपं चित्तचेत्तवत् ।
आकस्मिको हि भावानां विनाश इति । अकस्माद्भव आकस्मिकः । अहेतुक
इत्यर्थः । साधनं चात्र—'अहेतुको विनाशः; अभावत्वाद्, अत्यन्ताभाववत्' ।
दृष्टो वै काष्ठादीनामिति विस्तरः । आदिशब्देन रूपादीनां ग्रहणम् । दृष्टोऽग्नि-
संयोगाद् विनाश इति । प्रत्यक्षद्वारापतितो धर्मस्वरूपविपर्यय इति प्रतिज्ञादोषं
दर्शयति । अत एवाह—न च दृष्टाद् गरिष्ठं प्रमाणमिति । न प्रत्यक्षाद् गुरुतमं
प्रमाणमस्तीत्यर्थः ।
आचार्यः प्रत्यक्षाभिमानं परेषां दर्शयन्नाह—कथं तावद्भवान् यावन् मन्यत
इति । न हि काष्ठादिविनाशो रूपाविवत् प्रत्यक्षत उपलभ्यते । अक्षणिकवादि-
नस्त आहुः । तेषां पुनरदर्शनादिति । तेषां काष्ठादीनामदर्शनात् । तदेवमनुमानतः
सिद्धिं दर्शयन्ति—'अग्निसंयोगहेतुकः, काष्ठादिविनाशः; तदापाते भावात् । यस्य
यदापाते भावः स तद्धेतुकः, तद्यथा—बीजपातभाव्योऽङ्कुरः । सम्प्रधार्य ताव-
देतदिति । अनेकान्तिकतामुद्भावयति² । न हि यस्यापाते यो विनाशो भवति
१. क्षणिकम्—का० । २. नैकान्तिक०—मुद्रितः पाठः ।
अतो न दृश्यन्ते ? उताहो स्वयं विनष्टाः अन्ये च पुनर्नोत्पन्नाः, अतो न
दृश्यन्ते; यथा वायुसंयोगात् प्रदीपः, पाणिसंयोगाद् घण्टाशब्द इति ? तस्माद-
नुमानसाध्योऽयमर्थः ॥ २ ॥
किं पुनरत्रानुमानम् ? उक्तं तावत् अकार्यत्वादभावस्येति । पुनः—
न कस्यचिद्धेतोः स्यात्,
यदि विनाशो हेतुसामान्यान्न कस्यचिद्धेतुकः स्यादुत्पादवत् । क्षणिक-
कानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते ।
यस्तु मन्यते—बुद्ध्यन्तराद् बुद्धेर्विनाशः, शब्दान्तराच्छब्दस्येति ? न १
युक्तमेतत् २; बुद्ध्योरसमवधानात् । न हि संशयनिश्चयज्ञानयोर्युक्तं समवधानम् ।
स तद्धेतुक इति । वायुसंयोगपाते हि सति प्रदीपस्य विनाशः । न च स विनाशो
वायुसंयोगकृतः । क्षणिकत्वाभ्युपगमाद्धि प्रदीपस्याकस्मिको विनाश इष्यते ।
स हि उत्पन्नप्रध्वंसित्वात् स्वयं विनष्टः प्रदीपः । वायुप्रतिबन्धादन्यस्यानुत्पत्तौ
न दृश्यते, न तेन विनाश इति । तथा घण्टाशब्दैः क्षणिक इष्यते । पाणि-
संयोगपाते च सति घण्टाशब्दस्य विनाशः, न स तत्कृतः । क्षणिकत्वाद्वि
स्वयं विनष्टो घण्टाशब्दस्तत्प्रतिबन्धत्वादन्यस्यानुत्पत्तौ न दृश्यते, न तेन
विनाश इति । तस्मादनुमानसाध्योऽयमर्थः । न प्रत्यक्षसिद्ध इत्यभिप्रायः ।
तस्मादनैकान्तिकमेतत् । यस्य पाते यः कश्चिद्विनाशः स तत्कृत इति ।
किं पुनरत्रानुमानमिति । अत्राहेतुको विनाश इत्येतस्मिन्नर्थे किमनुमान-
मिति । उक्तं तावदकार्यत्वादभावस्येति । 'अहेतुको विनाशः; अकार्यत्वादाकाश-
वत् । अकार्यश्चासो अभावस्वभावत्वादत्यन्ताभाववत्' ॥ २ ॥
“न कस्यचिद्धेतोः” इति । न कस्यचिदकस्मादित्यर्थः । उत्पादवदिति ।
विपरीतोपमानम् । यथोत्पाद आत्मलाभलक्षणः सहेतुक एव, नाहेतुकस्तद्वि-
नाशः स्यात् । न चैवं भवति । कथम् ? इत्याह—क्षणिकानां च बुद्धिशब्दार्चिषां
दृष्ट आकस्मिको विनाशः । तदेवमनुमानापतितो धर्मः स्वरूपविपर्ययः । 'आक-
स्मिकः काष्ठादीनां विनाशः; विनाशस्वभाव्यात्, बुद्ध्यादिविनाशवद्' इति ।
यस्तु मन्यत इति । वैशेषिकः । पूर्वा बुद्धिरुत्तरया बुद्ध्या उत्पन्नाया
विनाश्यते । अन्या तु बुद्धिः पूर्वया बुद्ध्या विनाश्यते । एवं शब्दोऽपि वाच्यः ।
आह—न युक्तमेतत् । कस्मात् ? बुद्ध्योरसमवधानात् अयुगपद्भावादित्यर्थः ।
न ह्यसन्तं नाश्यं हेतुर्विनाशयतीति । कथं गम्यते बुद्ध्योरसमवधानमिति ?
अत आह—न हि संशयनिश्चयज्ञानयोर्युक्तं समवधानमिति विस्तरः । स्वसंवेद्य-
१-१. तदयुक्तम्—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५७१
एवं सुखदुःखयोः, रागद्वेषयोर्वा । यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धि-
शब्दावुत्पद्येते, तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् ।
अन्त्ययोश्च कथम् !
योऽपि अर्चिषामवस्थानहेत्वभावाद्, धर्माधर्मवशाद् वा विनाशं मन्यते ?
स² चायुक्तः², न ह्यभावः कारणं भवितुमर्हति । न चाप्युत्पादविनाशहेत्वोर्धर्मा-
धर्मयोः क्षण³ एव³ क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः ।
शक्यश्चैष कारणपरिकल्पः सर्वत्र संस्कृते कर्तुमित्यलं विवादेन ।
मेतत् । यदा संशयज्ञानं न तदा निश्चयज्ञानम्, यदा निश्चयज्ञानं न तदा
संशयज्ञानमिति । एवं सुखदुःखयो रागद्वेषयोश्चासमवधानमिति योज्यम् । यथा
च विरुद्धयोरसमवधानम्, एवमविरुद्धयोरपि ज्ञानयोरसमवधानं भवतीति ।
यदा चेति विस्तरः । अथापि समवधानं स्यादिति, तथाप्यपटुबुद्धिशब्दौ पटू न
हिंस्याताम्; दुर्बलसमानजातीयत्वात् । न हि दुर्बलसमानजातीयो बलवन्तं
हिंसन् दृष्टः । असमानस्तु दुर्बलोऽपि हिंस्यात् । तद्यथा—उदकं तेजः ।
योऽप्यर्चिषामवस्थानहेत्वभावादिति । अवस्थानहेत्वभावाद् भावानां विनाश
इति स्थविर-वसुबन्धुप्रभृतिभिरयं हेतुरुक्तः; स चायुक्तः । न ह्यभावः कारणं
भवितुमर्हतीति । धर्माधर्मवशाद्वेति वैशेषिकः । तं प्रत्याह—न चाप्युत्पादविनाश-
हेत्वोरिति । उत्पादविनाशहेत्वोरधर्मस्य । क्षण एव क्षण इति । मुख्ये क्षणे,
नौपचारिके क्षण इत्यर्थः । अथ वा क्षण एव क्षण इति । क्षणे क्षण एवेत्यर्थः ।
वृत्तिलाभप्रतिबन्धौ । वृत्तिलाभो वृत्तिप्रतिबन्धश्च क्षणे क्षणे भवितुं नार्हतः ।
कथं कृत्वा ? यस्यार्चिषः उत्पत्तावनुग्रहो भवति चैत्रस्य मैत्रस्य वा, तस्य धर्म
उपलब्धवृत्तिः तदुत्पादयतीत्येवमुत्पादहेतुः । विनाशहेतुरपि, यदि तद्विनाश-
स्तस्यानुग्रहं करोति अन्धकारावस्थायाम् । एवमधर्मोऽपि यस्यार्चिषूत्पत्ताव-
पकारो भवति, तस्याधर्मोपलब्धवृत्तिस्तदुत्पादयति । विनाशहेतुरपि, यदि
तद्विनाशस्तस्याप्यपकारं करोति अन्धकारावस्थायामिति तयोर्वृत्तिलाभाद-
र्चिषामुत्पत्तिर्भवति । न च वृत्तिलाभं तयोरप्रतिबध्य ताभ्यामेव तस्मिन्नेव क्षणे
तेषां विनाश इति । क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ न द्वयोर्युज्येते ।
शक्यश्चैष कारणपरिकल्प इति विस्तरः । धर्माधर्मविनाश इति कारण-
परिकल्प इति । सर्वत्र संस्कृते द्वयणुकादौ अनित्येषु रूपादिषु कर्मणि च शक्यते
कर्तुम् । अतो न वक्तव्यमेतत्—अग्निसंयोगात् काष्ठादीनां विनाश इत्येवमादि ।
ततश्च सर्वसंस्कृतस्य क्षणिकसिद्धिः; धर्माधर्मयोस्तद्विनाशकारणान्तरानपेक्ष-
१. का० पुस्तके नास्ति । २-२. तदप्ययुक्तम्—का० । ३-३. क्षणे—का० ।
अभि० को० २ : १३
यदि च काष्ठादीनामग्नयादिसंयोगहेतुको विनाशः स्यात्, एवं सति
पाकजानां गुणानां पक्वतरतोत्पत्तौ—
हेतुः स्याच्च विनाशकः ।
हेतुरेव च विनाशकः स्यात्। कथं कृत्वा ? घासाद्यग्निसम्बन्धाद्¹ गुणाः
पाकजा उत्पन्नाः, तत एव तादृशाद्वा पुनः पक्वतरतोत्पत्तौ तेषां विनाश इति
हेतुरेव तेषां विनाशकः स्याद्, हेत्वविशिष्टो वा ।
न च युक्तम्—यत एव यादृशाद्वा तेषां भावः, तत एव तादृशाच्च तेषां
पुनर्भाव इति । ज्वालान्तरेषु च² तावद्धेतुभेदेऽपि³ परिकल्पनां³ परिकल्पयेयुः ।
क्षारहिमशुक्तसूर्योदकभूमिसम्बन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः !
यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते, किं तत्राग्निसंयोगाः कुर्वन्ति ? तेजोधातुं
प्रभावतो वर्धयन्ति, यस्य प्रभावादपां सङ्घातः क्षामक्षामो जायते, यावदतिक्षामतां
गतोऽन्ते न पुनः सन्तानं सन्तनोति । इदमत्राग्निसंयोगाः कुर्वन्ति ।
स्यादित्यलं विवादेन ।
तत एव तादृशाद्वेति । अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्तां
जनयति, स एव रक्तां निवर्त्य रक्ततरतां जनयतीति कल्प्यते । हेतुरेव
विनाशकः स्यात् ।
अथ ज्वालानां क्षणिकत्वादन्यस्तत्संयोगो जनकः, अन्योऽपि विनाशक इति
कल्प्यते ? हेत्वविशिष्टो विनाशकः स्यात्, न च युक्तमिति सर्वम् । ज्वालान्तरेषु
च तावद्धेतुभेदेऽपि परिकल्पनां परिकल्पयेयुर्वैशेषिकाः । क्षणिकत्वात् ज्वालाना-
मन्या जनिका अन्या विनाशिका इति । क्षार-यावद्-भूमिसम्बन्धात्तु पाकज-
विशेषोत्पत्तौ कां कल्पनां कल्पयेयुः । न हि तेषां क्षारादयः क्षणिकाः । तत्र हेतुरेव
विनाशकः स्यात् ।
यत्तर्हि आप इति विस्तरः । यद्यग्निसंयोगेऽप्यापो न विनाश्यन्ते, कथं
तर्ह्यापः क्वाथ्यमानाः क्षीयन्त इत्यभिप्रायः । तेजोधातुरिति । तदविनिर्भागि-
संवर्धनम् । यस्य प्रभावादपां संघातः⁴ क्षामक्षामो जायत इति । कारणविशेषात्
कार्यविशेष इति क्षामक्षामतरो जायते । यावदतिक्षामतां गतोऽन्ते न पुनः
सन्तानं सन्तनोतीति । कार्यं करोति । न त्वभावं करोतीत्यर्थः ।
१. ०सम्बन्धा—का० । २. का० पुस्तके नास्ति ।
३-३. ०भेदकल्पनां—का० । ४. संहतः—मुद्रितः पाठः ।
¹निर्देशः ] चतुर्थं कोशस्थानम् ५७३
तस्मान्नास्ति भावानां विनाशहेतुः । स्वयमेव तु भङ्गुरत्वाद् विनश्यन्त
उत्पन्नमात्राद्¹ विनश्यन्तीति सिद्ध एषां क्षणभङ्गः । क्षणभङ्गाच्च गत्यभावः ।
गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् । गत्यभावे च
“संस्थानं कायविज्ञप्तिः” इति सिद्धम् ।
“नास्ति संस्थानं द्रव्यतः” इति सौत्रान्तिकाः । एकदिङ्मुखे हि भूयसि
वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते, तमेवापेक्ष्याल्पीयसि ह्रस्वमिति, चतुर्दिशं
भूयसि चतुरस्रमिति, सर्वत्र समे वृत्तमिति । एवं सर्वम् । तद्यथा—अलातमेकस्यां
दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते, सर्वतो
दृश्यमानं मण्डलमिति । न² द्रव्यसत्² संस्थानम् । यदि हि स्यात्—
द्विग्राह्यं स्यात्,
चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वैतं द्वाभ्यामस्य
ग्रहणं प्राप्नुयात् । न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति ।
यथा वा स्प्रष्टव्ये दीर्घादिग्रहणम्, तथा वर्णे³ऽपि संभाव्यताम् ।
भङ्गुरत्वादिति विस्तरः । भङ्गशीलत्वात् स्वयं विनश्यन्तोऽन्येनाजनित-
विनाशाः । सन्त उत्पन्नमात्रादेकक्षणलब्धात्मानो भवन्तो विनश्यन्ति ।
तृणज्वालावदिति । यथा तृणज्वालायाः क्षणिकत्वेऽपि देशान्तरेषु निरन्तरो-
त्पत्तौ गत्यभिमानः—तृणं दहन्तीति, ज्वाला गच्छन्तीति, तद्वत् । साधनं च—
‘अविद्यमानगतयो देशान्तरे निरन्तरमुत्पद्यमाना रूपादयो भावाः; क्षणिकत्वात्,
तृणज्वालावत्’ । संस्थानं कायविज्ञप्तिरिति । वैभाषिकवचनम् ॥ ३ ॥
एकदिङ्मुख इति । एका दिक् मुखमस्येति एकदिङ्मुखं तस्मिन् । भूयसि
बहुतरे । एवं सर्वमित्यूर्ध्वमेकदिङ्मुखे भूयसि उत्पन्न उन्नतमिति प्रज्ञप्यते,
अधो भूयस्यवनतमिति । एषा दिक् । तद् यथा अलातमिति । ‘न द्रव्यसत् संस्था-
नम्; वर्णग्रहणात् पक्षग्रहणत्वात्, अलातचक्रवद्’ इति । अथवा—‘न द्रव्य-
संस्थानम्; अन्यरूपग्रहणात् पक्षग्रहणत्वाद्धान्यराशिवद्’ इति ।
द्वाभ्यामस्य ग्रहणं प्राप्नुयादित्युकते वैभाषिको ब्रूयात्—न दीर्घत्वादेः काये-
न्द्रियेण ग्रहणम्, किं तर्हि ? स्प्रष्टव्यावयवेष्वेव तथासंनिविष्टेषु दीर्घादि-
ग्रहणं भवति, अतो न द्वाभ्यामस्य ग्रहणं प्राप्नोति ? अत इदमुच्यते—यथा वा
१. उत्पन्नमात्रा—का० । २-२. न तु खलु जात्यन्तरमस्ति—का० ।
३. वर्णे—का० ।
स्मृतिमात्रं तत्र स्पर्शसाहचर्याद्¹ भवति । स तु साहचर्यात् भवति, न तु
साक्षाद् ग्रहणम्, यथा—अग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति, पुष्पगन्धं च
घ्रात्वा तद्वर्ण इति ?
युक्तमत्राव्यभिचारत्वादन्सेनान्यस्मरणम्²; न तु किञ्चित् स्प्रष्टव्यं क्वचित्
संस्थाने नियतम्, यतोऽत्र³ स्मरणं नियमेन स्यात् ।
तथा⁴ सत्यपि साहचर्यनियमे संस्थाने⁵ स्मरणं⁵ नियमेन स्यात् । वर्णेऽपि
स्यात् । वर्णवद् वा संस्थानेऽप्यनियमेन स्यात् ।
स्प्रष्टव्य इति विस्तरः । कोऽर्थः ? यथा स्प्रष्टव्ये दीर्घह्रस्वादिग्रहणम्, न च स्प्रष्ट-
व्यायतनसंगृहीतं संस्थानम्; तथा वर्णेऽपि सम्भाव्यतां दीर्घादिग्रहणम्, न च
रूपायतनसंगृहीतसंस्थानम् । अर्थान्तरभूतं स्यादित्यर्थः ।
पुनर्वैभाषिक आह—स्मृतिमात्रं तत्र इति विस्तरः । स्मृतिमात्रं तत्र
संस्थाने स्पर्शसाहचर्यात् श्लक्ष्णत्वादिभिः स्पर्शैः सहचरभावाद् भवति ।
न तु साक्षाद्ग्रहणं दीर्घादिसंस्थानस्य । यथाग्निरूपं दृष्ट्वा तस्याग्नेरुष्णतायां
स्मृतिर्भवति साहचर्यात् । पुष्पस्य च चम्पकस्य च गन्धं घ्रात्वा तद्वर्णेऽपि स्मृति-
साहचर्यम् ।
आह—युक्तमत्रेति विस्तरः । युक्तमत्राग्नावव्यभिचारात् उष्णतायाश्च
रूपस्य च । अन्येनान्यस्मरणम् । अग्निरूपेणोष्णतायाः, पुष्पगन्धेन च तद्वर्णस्य ।
न तु किञ्चिदिति विस्तरः । न तु किञ्चित् स्प्रष्टव्यं श्लक्ष्णत्वादि क्वचिदिति
संस्थाने दीर्घादौ नियतम्; यतोऽत्र संस्थाने स्प्रष्टव्यं स्पृष्ट्वा स्मरणं नियमेन
स्यात् । यत्र ह्यग्निरूपम्, तत्र तदुष्णतया भवितव्यम् । यत्र च चम्पकगन्धः, तत्र
तद्रूपेण भवितव्यम् । न तु यत्र श्लक्ष्णत्वं कर्कशत्वं वा, तत्र दीर्घत्वेन ह्रस्वत्वेन
वा भवितव्यम् । तस्मात् तदुष्णतारूपयोर्नियमेन युज्यते । संस्थानेन तु नियमेन
स्मरणं न प्राप्नोति ।
तथा सत्यपि साहचर्यनियमे स्प्रष्टव्यं संस्थानयोः संस्थाने स्मरणं नियमेन
स्यात् । वर्णेऽपि स्यात् । स्मरणं नियमेनेति वर्तते । तदेवं स्प्रष्टव्यं स्पृष्ट्वा स्मरे-
दित्यर्थः । अथानियमेन वर्णस्मरणं भवति ? वर्णवद्वा संस्थानेऽप्यनियमेन स्यात्—
१. स्प्रष्टव्यसाह०—का० । २. ०नान्यस्य स्मरणम्—का० ।
३. यतस्तत्र—का० । ४. अथा—का० ।
५-५. संस्थान०—का० ।