अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 584, कुल 1258 में से
संदर्भ में पढ़ेंन हि चतुर्थं ध्यानमेकभूमिसम्बद्धम् । किं तर्हि ? विच्छिन्नस्थानान्तरम्;
तास्त्वाकाशवत् । तत्राप्ययं सत्त्व उपपद्येत, च्यवेत वा, स सार्धं विमानेनेति
नास्त्यस्य नित्यत्वम् ॥ १०१ ॥
केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति ? निरन्तरं तावत्—
सप्ताग्निना,
सप्त संवर्तन्यस्तेजसा भवन्ति । ततः—
अद्भिरेका,
सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति ।
एवं गतेऽद्भिः सप्तके पुनः ।
तेजसा सप्तकः,
एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनाना सप्तको
भवति ।
पश्चाद् वायुसंवर्तनी ततः ॥ १०२ ॥
पश्चादेका वायुसंवर्तनी भवति । किं कारणम् ? यथैव हि तेषां सत्त्वानां
समापत्तिविशेषादात्मभावानां स्थितिविशेषः, तथा भाजनानामपामिति ता एता
भवन्ति । एवं¹ च कृत्वा¹—षट्पञ्चाशत् तेजःसंवर्तन्यः, सप्त अप्संवर्तन्यः, एका
एतेन क्रमेणेति । यथोक्तेन । सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी
भवत्यैकाँ। पुनः सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति द्वितीया।
एवं यावत् सप्तम्यद्भिः संवर्तनी।
“एवं गतेऽद्भिः सप्तके पुनः तेजसा सप्तकः” । “ततः” पश्चात् एका वायु-
संवर्तनी भवति, किं कारणम् ? यथा वर्णितम्—बहुना कालप्रकर्षेणाप्संवर्तनी
भवति, ततोऽपि बहुतेरेण वायुसंवर्तनीति, अत इदमुच्यते—यथैव हि तेषामिति
विस्तरः। यथा प्रथमध्यानाद् द्वितीयध्यानसमापत्तिविशेषादात्मभावानां द्वितीय-
ध्यानभूमिकानां स्थितिविशेषः। अर्धमहाकल्पार्धं प्रथमध्यानोपपन्नानामायुः-
प्रमाणम्, कल्पद्वयं द्वितीयध्यानोपपन्नानामिति। तथा भाजनानामपामपि। किम् ?
स्थितिविशेष इति। एवं द्वितीयादपि तृतीयध्यानस्य विशेषो वक्तव्यः। एवं च
कृत्वेति । यस्मादष्टकृत्वस्तेजःसंवर्तनीसप्तका इति षट्पञ्चाशत् तेजःसंवर्तन्यो
१-१. का० पुस्तके नास्ति ।