सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 578, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 578

निर्देशः 1 ] तृतीयं कोशस्थानम् ५५९
शक्तिनियमान्नैवं भविष्यति । शब्दपाकजोत्पत्तिवत् ।
चित्रो हि गुणधर्मः, द्रव्यं तु नैवम् । समानजातीयेभ्यः एव हि द्रव्येभ्यः
समानजातीयानां दृष्ट उत्पादः, तद्यथा—वीरणेभ्यः कटस्य, तन्तुभ्यः पटस्येति ।
इदमयुक्तं वर्तते ।
किमत्रायुक्तम् ? यदसिद्धं साधनायोदाह्रियते ।
किमत्रासिद्धम् ? अन्यो वीरणेभ्यः कटः, अन्यश्च तन्तुभ्यः पट इति ।
त एव हि ते तथासन्निविष्टास्तां संज्ञां लभन्ते, पिपीलिकापङ्क्तिवत् ।
कथं गम्यते १ ? एकतन्तुसंयोगे पटस्यानुपलम्भात् । को हि तदा सतः
पटस्योपलब्धौ प्रतिबन्धः !
स्यादिति । तन्त्वादिभ्योऽपि कटाद्युत्पत्तिः स्यादित्यर्थः । शक्तिनियमादिति ।
यथा बीजादीनां सामर्थ्यनियमान्नानियमो भविष्यति । शब्दपाकजोत्पत्तिवत् ।
यथा शब्दोऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते, अथ च न यतः कुतश्चिद्
गन्धरसादेर्विजातीयादुत्पद्यते, अभिघातादीनामेव विजातीयानां तदुत्पादने
सामर्थ्यात्; तथा पाकजा रूपादयो विजातीयादग्न्यादेरुत्पद्यन्ते, अथ च न यतः
कुतश्चिद् विजातीयाच्चक्षुरादेरुत्पद्यन्ते, अग्न्यादेरेव तदुत्पादने सामर्थ्यात् ।
वैशेषिक आह—चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश्चोत्पद्यते ।
स्वजातीयेभ्यस्तावद् :परसगन्धस्पर्शादयः कारणपूर्वा रूपरसगन्धस्पर्शादिभ्यः
एवोत्पद्यन्ते, विजातीयेभ्योऽपि संयोगविभागपाकजादयः कर्मादिभ्यः । तदेवं
गुणधर्मो द्रव्यधर्मं प्रत्यनुदाहरणम् ।
त एव हि ते तथेति विस्तरः । वीरणादय एव हि ते तथा तेन प्रकारेण
कटादिरूपेण सन्निविष्टा व्यवस्थितास्तां कटसंज्ञां लभन्ते ।
यथा पिपीलिकास्तथासन्निविष्टाः पंक्तिरिति संज्ञां लभन्ते, न च ताभ्योऽन्यत्
पंक्तिद्रव्यमस्ति भवतामपि सिद्धान्ते ।
कथं गम्यते तानि वीरणादीनि तथासन्निविष्टानि कटादिसंज्ञां लभन्ते, न
पुनस्तेभ्यो द्रव्यान्तराणीति ? अत आह—एकतन्तुसंयोगे पटस्यानुपलम्भात् ।
आरब्धकार्ये ह्येकस्मिन् तन्तौ चक्षुःसंस्पर्शाभ्यां संयुक्ते तत्समवेतः, पटोऽपि च
ताभ्यां सन्निकृष्ट इत्यसावपि तथैवोपलभ्येत । यदि ब्रूयात्—प्रतिबन्धात्तस्यानुप-
लब्धिरिति ? अत आह—को हि तदा सतः विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध
इति । नास्ति प्रतिबन्ध इत्यभिप्रायः । तस्मान्न पटो नाम द्रव्यान्तरमस्तीति ।
स्यान्मतम्, एकैकस्मिंस्तन्तौ प्रदेशेन पटो वर्तते, न सर्वात्मना वर्तत इति ?
१. गम्येत—का० ।