अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 592, कुल 1258 में से
संदर्भ में पढ़ें¹निर्देशः ] चतुर्थं कोशस्थानम् ५७३
तस्मान्नास्ति भावानां विनाशहेतुः । स्वयमेव तु भङ्गुरत्वाद् विनश्यन्त
उत्पन्नमात्राद्¹ विनश्यन्तीति सिद्ध एषां क्षणभङ्गः । क्षणभङ्गाच्च गत्यभावः ।
गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् । गत्यभावे च
“संस्थानं कायविज्ञप्तिः” इति सिद्धम् ।
“नास्ति संस्थानं द्रव्यतः” इति सौत्रान्तिकाः । एकदिङ्मुखे हि भूयसि
वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते, तमेवापेक्ष्याल्पीयसि ह्रस्वमिति, चतुर्दिशं
भूयसि चतुरस्रमिति, सर्वत्र समे वृत्तमिति । एवं सर्वम् । तद्यथा—अलातमेकस्यां
दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते, सर्वतो
दृश्यमानं मण्डलमिति । न² द्रव्यसत्² संस्थानम् । यदि हि स्यात्—
द्विग्राह्यं स्यात्,
चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वैतं द्वाभ्यामस्य
ग्रहणं प्राप्नुयात् । न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति ।
यथा वा स्प्रष्टव्ये दीर्घादिग्रहणम्, तथा वर्णे³ऽपि संभाव्यताम् ।
भङ्गुरत्वादिति विस्तरः । भङ्गशीलत्वात् स्वयं विनश्यन्तोऽन्येनाजनित-
विनाशाः । सन्त उत्पन्नमात्रादेकक्षणलब्धात्मानो भवन्तो विनश्यन्ति ।
तृणज्वालावदिति । यथा तृणज्वालायाः क्षणिकत्वेऽपि देशान्तरेषु निरन्तरो-
त्पत्तौ गत्यभिमानः—तृणं दहन्तीति, ज्वाला गच्छन्तीति, तद्वत् । साधनं च—
‘अविद्यमानगतयो देशान्तरे निरन्तरमुत्पद्यमाना रूपादयो भावाः; क्षणिकत्वात्,
तृणज्वालावत्’ । संस्थानं कायविज्ञप्तिरिति । वैभाषिकवचनम् ॥ ३ ॥
एकदिङ्मुख इति । एका दिक् मुखमस्येति एकदिङ्मुखं तस्मिन् । भूयसि
बहुतरे । एवं सर्वमित्यूर्ध्वमेकदिङ्मुखे भूयसि उत्पन्न उन्नतमिति प्रज्ञप्यते,
अधो भूयस्यवनतमिति । एषा दिक् । तद् यथा अलातमिति । ‘न द्रव्यसत् संस्था-
नम्; वर्णग्रहणात् पक्षग्रहणत्वात्, अलातचक्रवद्’ इति । अथवा—‘न द्रव्य-
संस्थानम्; अन्यरूपग्रहणात् पक्षग्रहणत्वाद्धान्यराशिवद्’ इति ।
द्वाभ्यामस्य ग्रहणं प्राप्नुयादित्युकते वैभाषिको ब्रूयात्—न दीर्घत्वादेः काये-
न्द्रियेण ग्रहणम्, किं तर्हि ? स्प्रष्टव्यावयवेष्वेव तथासंनिविष्टेषु दीर्घादि-
ग्रहणं भवति, अतो न द्वाभ्यामस्य ग्रहणं प्राप्नोति ? अत इदमुच्यते—यथा वा
१. उत्पन्नमात्रा—का० । २-२. न तु खलु जात्यन्तरमस्ति—का० ।
३. वर्णे—का० ।