अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 583, कुल 1258 में से
संदर्भ में पढ़ें५६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अत एव च¹ तस्मिन् कृत्स्नकायस्थैर्यापगमात्² दुःखेन्द्रियनिरोध³ उक्तः सूत्रे ।
तृतीये ध्याने आश्वासप्रश्वासाः । ते च वायव एव । इति यस्यां
ध्यानसमापत्तौ यथाभूत आध्यात्मिकोऽपक्षालः, तस्यां ध्यानोपपत्तौ तथाभूतो बाह्य
इति ।
कस्मात् पृथिवीसंवर्तनी न भवति ? पृथिव्येव हि भाजनाख्या, तस्यां
तेजोजलवायुभिर्विरोधः, न पृथिव्येति ।
अथ चतुर्थध्याने कथं न संवर्तनी ?
न चतुर्थेऽस्त्यनिञ्जनात् ।
चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेज्यमुक्तं⁴ भगवता । अतो-
ऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी ।
शुद्धावासप्रभावादित्यपरे । न⁵ तैः शक्यमारूप्यान् प्रवेष्टुम्, नाप्यन्यत्र
गन्तुमिति ।
नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्नोति ?
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ १०१ ॥
अत एव चेति विस्तरः। आश्रयमृदुकरणात्। तस्मिन् द्वितीये समापत्तिध्याने
कृत्स्नस्य कायस्थैर्यस्यापगमाद् दुःखेन्द्रियनिरोध उक्तः। "सुखस्य च प्रहाणाद्
दुःखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षा-
स्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति” ( ) इति वचनात् ।
आध्यात्मिकापक्षालरहितत्वादिति। ये वितर्कविचारादयोऽष्टावाध्यात्मिका-
पक्षालाः—"वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम्” (अभि० को० ८.११)
इति, तद्रहितत्वादित्यर्थः। आनेज्यमिति। "एजू कम्पने" (मा० धा० १.१४६)
इत्यस्य धातोरेतद् रूपम्—आनेज्यमिति। यदा त्वानिञ्ज्यमिति पाठः, तदा
इगेः⁶ प्रकृत्यन्तरस्यैतद् रूपं द्रष्टव्यम्। न तैः शुद्धावासकायिकैः शक्यमारूप्यान्
प्रवेष्टुं विपश्यनाचरितत्वात्। शमथचरिताश्चारूप्याः। नाप्यन्यत्र गन्तुमधरां
भूमि विशेषगामित्वात् ॥ १०१ ॥
१. का० पुस्तके नास्ति । २. ०क्रौर्या०—क० ।
३. ०न्द्रियस्य०—का० । ४. दानेअमु०—का० ।
५. नहि—का० । ६. द्र०—मा० धा० १.९१ ।