सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 575, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 575

५५६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
मनुष्याणामन्तरकल्पस्य निर्याणं भवति । कथं भवति ?
इत्याह —
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।
त्रिभिरन्तरकल्पस्य निर्याणं भवति—शस्त्रेण, रोगेण, दुर्भिक्षेण च ।
अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्या अधर्मरागरक्ता भवन्ति विषम-
लोभाभिभूता मिथ्याधर्मपरीताः अमातृज्ञा^१ अपितृज्ञाः^१ । तेषां व्यापाद उत्कर्षं
गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति ।
तद्यथा—इदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठं वा लोष्ठं
वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति, तेऽन्योन्यं सत्त्वं जीविताद् व्यपरोपयन्ति ।
नः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या
ईतिमुत्सृजन्ति, यतस्तेषामसाध्या^२ व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते ।
पुनर्दशवर्षायुषां मनुष्याणां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति, यतो दुर्भिक्षं
जायते—चञ्चुः, श्वेतास्थि, शलाकावृत्तिः ।
कथं च चञ्चुः ? द्वाभ्यां कारणाभ्याम् । य इदानीं समवायः स तदानीं
'चञ्चुः' इत्युच्यते । समुद्गोऽपि चञ्चुः । ते च मनुष्या निघसांदौर्बल्यपरीताः
निर्याणमिति । परिसमाप्तिः । अधर्मरागरक्ता इति । काममिथ्याचाररागा-
ध्यवसिताः । विषमलोभाभिभूता इति । विषमलोभः = परकीयस्वीकरणेच्छा
चौर्याद् बलाद्वा, तेनाभिभूताः । मिथ्याधर्मपरीता इति । विपरीतधर्मपरि-
दीपकाः । अमातृज्ञा अपितृज्ञा इति विस्तरः ।
पुनः कल्पस्य निर्याणकाल इति । इह कल्पस्य निर्याणानि त्रीण्युच्यन्ते—
शस्त्र-रोग-दुर्भिक्षाणि । किमेकस्य दशवर्षायुःकल्पस्य त्रीणि निर्याणानि क्रमेण
भवन्ति, आहोस्विदेकैकस्यैकैकं क्रमेणेति ? एके तावदाहुः—एकैकमिति ।
अपरे पुनराहुः—एकस्य क्रमेण त्रीणि भवन्ति । पूर्वं दुर्भिक्षम्, तदनन्तरो रोगः,
तदनन्तरं शस्त्रमिति । पूर्वकस्तु पक्ष इष्ट इति पश्यामः ।
तैरेव दोषैरिति । अधर्मादिरागादिभिः । अमनुष्याः पिशाचादयः । ईति
व्याध्यादिकामुत्सृजन्ति, ओजो वा हरन्ति, प्रभावतो वा पुष्पफलौषधिप्रभृतीनां
महाभूतानि दूषयन्ति । यतस्तेषामसाध्या व्याधयः प्रादुर्भवन्ति यतो म्रियन्ते ।
१-१. का० पुस्तके नास्ति । २. तेषाम०—का० ।