अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 591, कुल 1258 में से
संदर्भ में पढ़ेंयदि च काष्ठादीनामग्नयादिसंयोगहेतुको विनाशः स्यात्, एवं सति
पाकजानां गुणानां पक्वतरतोत्पत्तौ—
हेतुः स्याच्च विनाशकः ।
हेतुरेव च विनाशकः स्यात्। कथं कृत्वा ? घासाद्यग्निसम्बन्धाद्¹ गुणाः
पाकजा उत्पन्नाः, तत एव तादृशाद्वा पुनः पक्वतरतोत्पत्तौ तेषां विनाश इति
हेतुरेव तेषां विनाशकः स्याद्, हेत्वविशिष्टो वा ।
न च युक्तम्—यत एव यादृशाद्वा तेषां भावः, तत एव तादृशाच्च तेषां
पुनर्भाव इति । ज्वालान्तरेषु च² तावद्धेतुभेदेऽपि³ परिकल्पनां³ परिकल्पयेयुः ।
क्षारहिमशुक्तसूर्योदकभूमिसम्बन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः !
यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते, किं तत्राग्निसंयोगाः कुर्वन्ति ? तेजोधातुं
प्रभावतो वर्धयन्ति, यस्य प्रभावादपां सङ्घातः क्षामक्षामो जायते, यावदतिक्षामतां
गतोऽन्ते न पुनः सन्तानं सन्तनोति । इदमत्राग्निसंयोगाः कुर्वन्ति ।
स्यादित्यलं विवादेन ।
तत एव तादृशाद्वेति । अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्तां
जनयति, स एव रक्तां निवर्त्य रक्ततरतां जनयतीति कल्प्यते । हेतुरेव
विनाशकः स्यात् ।
अथ ज्वालानां क्षणिकत्वादन्यस्तत्संयोगो जनकः, अन्योऽपि विनाशक इति
कल्प्यते ? हेत्वविशिष्टो विनाशकः स्यात्, न च युक्तमिति सर्वम् । ज्वालान्तरेषु
च तावद्धेतुभेदेऽपि परिकल्पनां परिकल्पयेयुर्वैशेषिकाः । क्षणिकत्वात् ज्वालाना-
मन्या जनिका अन्या विनाशिका इति । क्षार-यावद्-भूमिसम्बन्धात्तु पाकज-
विशेषोत्पत्तौ कां कल्पनां कल्पयेयुः । न हि तेषां क्षारादयः क्षणिकाः । तत्र हेतुरेव
विनाशकः स्यात् ।
यत्तर्हि आप इति विस्तरः । यद्यग्निसंयोगेऽप्यापो न विनाश्यन्ते, कथं
तर्ह्यापः क्वाथ्यमानाः क्षीयन्त इत्यभिप्रायः । तेजोधातुरिति । तदविनिर्भागि-
संवर्धनम् । यस्य प्रभावादपां संघातः⁴ क्षामक्षामो जायत इति । कारणविशेषात्
कार्यविशेष इति क्षामक्षामतरो जायते । यावदतिक्षामतां गतोऽन्ते न पुनः
सन्तानं सन्तनोतीति । कार्यं करोति । न त्वभावं करोतीत्यर्थः ।
१. ०सम्बन्धा—का० । २. का० पुस्तके नास्ति ।
३-३. ०भेदकल्पनां—का० । ४. संहतः—मुद्रितः पाठः ।