सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 577, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 577

५५८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
१. सप्तभिः सूर्यैस्तेजःसंवर्तनी भवति । २. वर्षोदकेनाप्संवर्तनी ।
३. वायुप्रकोपाद् वायुसंवर्तनी । ताभिश्च भाजनानां सूक्ष्मोऽप्यवयवो नावशिष्यते ।
अत्र तु केचित् तीर्थकरा इच्छन्ति—"परमाणवो नित्यास्ते तदानीं
शिष्यन्ते" इति ।
कस्मात् त एवमिच्छन्ति ? मा भूद्बीजकः स्थूलानां प्रादुर्भाव इति ।
ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् । संवर्तनीशीर्ष-
वायुर्वा तस्य निमित्तं भविष्यति । "वायुना लोकान्तरेभ्यो बीजान्याह्रियन्ते" इति
महीशासकाः सूत्रे पठन्ति ।
एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति । किं तर्हि ?
स्वेभ्य एवावयवेभ्यः, तेषामपि स्वेभ्य एव, एवं यावत् परमाणुभ्यः ।
किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् ? न किञ्चिदन्यत्र परमाणूप-
सर्पणात्¹।
किं पुनः कारणं त एवमिच्छन्ति ? नहि विजातीयात् सम्भवो युक्त इति ।
कस्माच्च युक्तः ? अनियमो हि स्यात् ।
तीर्थकराः कणभुकप्रभृतयः ।
वायुर्बीजमुक्तमिति । "दृष्टविप्रत्रभावभिन्नेष्वदृग्भिरभिमघ्ननानाः²" इति
वचनात् । तस्य निमित्तमिति । रूपावचरो वायुरविनष्टः । कामावचरस्य विवर्त-
काले प्रथमक्षणोत्पन्नस्य वायोर्निमित्तम् । बीजान्याह्रियन्त इति । पञ्च बीज-
जातानि मूलबीजादीनि । मूलबीजम्, फलबीजम्, बीजबीजम्, अग्रबीजम्,
स्कन्धबीजम् ।
एवमपीति । यद्यप्याह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो
बीजाङ्कुरगण्डादिभ्यो, — । बीजादीनि
हि तेषां निमित्तकारणानि, न समवायिकारणानि, समवायिकारणैश्च भवि-
तव्यम् ? अत आह--किं तर्हि, स्वेभ्य एवावयवेभ्य इति विस्तरः । तद्यथा—
अङ्कुराद्यवयवी अङ्कुराद्यवयवेभ्यः । तेषामप्यङ्कुराद्यवयवानां स्वेभ्य एवावय-
वेभ्यः । तेषामपि स्वेभ्य एवेति । एवं यावत् परमाणुभ्यः ।
अन्यत्र परमाणूपसर्पणादिति । न जनने बीजादीनां सामर्थ्यं किञ्चिदस्ति ।
अङ्कुरादिपरमाणूपसर्पणात्तु तेषां सामर्थ्यमिष्यत इत्यभिप्रायः । अनियमो हि
१. तत्परमाणू०—फा० । २. द्र०—अभि० को० ३.४९; ५०८ तमे पृष्ठे ।