सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 586, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 586

☸ ॐ नमो बुद्धाय ☸
चतुर्थं कोशस्थानम्
( कर्मनिर्देशः )
अथ यदेतत् सत्त्वभाजनलोकस्य 'बहुधा वैचित्र्यमुक्तं तत् केन कृतम् !
न खलु केनचिद् बुद्धिपूर्वकं कृतम् । किं तर्हि ? सत्त्वानां
कर्मजं लोकवैचित्र्यम्,
यदि कर्मजम्, कस्मात् सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा
जायन्ते, न तेषां शरीराणि ? कर्माण्येव तान्येवञ्जातीयानि व्यामिश्रकारिणां
सत्त्वानाम् यदाश्रयाश्च व्रणभूता जायन्ते, भोगाश्च रम्यास्तत्प्रतीकारभूताः ।
अव्यामिश्रकारिणां तु देवानामुभयेऽपि रम्याः ।
किं पुनस्तत् कर्म ? इत्याह—
चेतना तत्कृतं च तत् ।
सूत्र उक्तम्—"द्वे कर्मणी चेतना कर्म चेतयित्वा च" ( )
इति । यत् तच्चेतयित्वा चेतनाकृतं च तत् ।
ते एते द्वे कर्मणी त्रीणि भवन्ति—काय-वाङ्-मनस्कर्माणि ।
कथमेषां कर्मणां व्यवस्थानम्, किमाश्रयतः ? आहोस्वित् स्वभावत. .
स्फुटार्थाव्याख्यायाम्
चतुर्थं कोशस्थानम्
तीर्थंकरविप्रतिपत्त्या समुत्पादित-सन्देहः पृच्छति—अथ यदेतदिति
विस्तरः ।
तत्र सत्त्ववैचित्र्यं धातु-गति-योन्यादिभेदेन । भाजनवैचित्र्यं मेरु-द्वीपादि-
भेदेन । व्यामिश्रकारिणामिति । कुशलाकुशलकर्मकारिणाम् । अथ कस्मात् तेषा-
माश्रया रम्या न भवन्ति, भोगास्तु रम्या इति ? सति चैवं विषयोपभोगः
सम्भवति । आश्रयरम्यत्वे हि कस्य प्रतीकाराय रम्यविषयोपभोगः स्यात् ।
अव्यामिश्रकारिणामिति । रूपावचराणाम् । कामावचरा अपि देवा अव्यामिश्र-
कारिकल्पा आश्रयविषयरम्याः; रम्यताहेतुकर्मद्वयकारित्वात् ।
चेतयित्वा चेति । 'एवं चेदं करिष्यामीति ।