अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
३१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
किं कारणम् ? षड्विधहेत्वसम्भवात्, पञ्चविधफलासम्भवाच्च ।
कस्मान् मार्गो विसंयोगस्य कारणहेतुर्नेष्यते ? यस्मात् स उत्पादाविघ्न-
भावेन व्यवस्थापितः, न चासंस्कृतमुत्पत्तिमत् ।
कस्येदानीं तत्फलम् ? कथं वा मार्गस्य फलम् ? तद्बलेन प्राप्तेः ।
षड्विधहेत्वसम्भवादिति । विस्तरः—न सहभूहेतुरस्य सम्प्रयुक्तकहेतुर्वा सम्भ-
वति; तन्न कस्यचिद् धर्मस्यासहभवत्वात्, असम्प्रयोगाच्च । न सभागहेतुरस्य
कश्चिद् भवति, असंस्कृतस्यासदृशत्वात्, समानभूमिकत्वायोगाच्च । अत एव
चास्य न सर्वत्रगहेतुः, अस्य चाक्लिष्टत्वात् । न चास्य विपाकहेतुः, असंस्कृत-
स्याविपाकस्वभावत्वात् । विपाको हि सत्त्वसंख्यातो धातुपतितो धर्मः ।
अनुत्पाद्यत्वादेव चास्यैते हेतवो न भवन्ति । अनुत्पाद्यत्वादेव चास्य कारणहेतुर्न
भवति । अत एवोच्यते—कस्मान्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते ? यस्मात्
स उत्पादाविघ्नभावेन व्यवस्थापितः, न चासंस्कृतमुत्पत्तिमदिति । अनध्वपति-
तत्वाच्चास्य हेतवो न भवन्ति, अध्वपतितस्य हि धर्मस्य हेतुर्व्यवस्थाप्यते । एवं
षड्विधहेत्वसम्भवान्नासंस्कृतस्य हेतुः । पञ्चविधफलासम्भवाच्च नासंस्कृतस्य
फलम् । कस्मात् ? सामान्यतस्तावदध्वविनिर्मुक्तस्य फलप्रतिग्रहणदाना-
समर्थत्वात् । तथा ह्युक्तम्—
“वर्त्तमानाः फलं पञ्च गृह्णन्ति द्वौ प्रयच्छतः” ( अभि० का० २.५९ )
इत्येवमादि । किञ्च न तावदधिपतिफलं भवति ? तद्धि सहोत्पन्नं पश्चादुत्पन्नं
चेष्यते ।
“अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्” (अभि० को० २.५८) इति ।
तच्चानुत्पत्तिमदिति नास्य सहजं पश्चाज्जातं वा फलं भवति, अनुपत्तिमत्त्वादेव ।
न च निष्यन्दफलम्, उत्पत्तिमतो हि सदृशो धर्म उत्पत्तिमन् निष्यन्दफलम् ।
अत एव च न पुरुषकारफलम्; असंस्कृतस्य पुरुषकाराभावात् । यस्य हि बलेन य
उत्पद्यते प्राप्यते वा, स तस्य पुरुषकारफलम् । अत एव च न विसंयोगफलम्,
मार्गस्यैव हि वलेन विसंयोगः प्राप्यः, न चासंस्कृतो मार्ग इति । न चापि
विपाकफलम्; विपाकहेतुवैधर्म्यात् । सास्रवो हि विपाकहेतुः, न चासंस्कृतं
सास्स्रवमिति । अथ वा—पञ्चविधफलासम्भव इति नासंस्कृतस्य फलं
सम्भवति ।
यदि मार्गो विसंयोगस्य कारणहेतुर्नेष्यते कस्येदानीं तत् फलम् ? हेतुमता
हि फलेन भवितव्यम्, कथं वा केन वा प्रकारेण तत् फलम् ? आह—
यत्तावदुक्तं कस्येदानीं तत्फलमिति, मार्गस्य । यदप्युक्तं कथं वा तत् फलमिति,
निर्देशः ] द्वितीयं कोशस्थानम् ३१९
प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति ? तस्यामेव सामर्थ्यान्न विसंयोगः ।
अन्यथा ह्यस्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे । कथमस्य प्राप्तौ सामर्थ्यम् ?
उत्पादनात् । कथं विसंयोगे ? प्रापणात् । तस्मान्न तावदस्य कथञ्चिदपि हेतुः ।
फलं चास्य विसंयोगः ।
अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः ? उत्पत्त्यनावरणभावेन कारण-
हेतुः । न चास्य फलमस्ति; अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् ।
नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् । उक्तं तु पर्यायेण हेतु-
रिति सौत्रान्तिकाः ।
कथमुक्तम् ?
फलं तद्बलेन । मार्गबलेन प्राप्तेरित्यर्थः । अथ वैवं पदसम्बन्धः—कस्य तत्
फलमिति, मार्गस्य तत् फलम् । कथं वा तत्फलमिति, तद्बलेन प्राप्तेरिति ।
प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति । तस्यागेव प्राप्तौ तस्य मार्गस्य
सामर्थ्यान्न विसंयोगः । किम् ? मार्गस्य फलमित्यधिकृतम् । तत्रासामर्थ्यादिति ।
एवं तत्र विसंयोगे मार्गस्यासामर्थ्यादित्यर्थः । तस्मान्न च तावदस्य मार्गः
कथञ्चिदपि हेतुः । षण्णां हेतूनामन्यतमोऽपि हेतुरस्य मार्गो न भवति । फलं
चास्य विसंयोगः । प्राप्यं फलं न जन्यमित्यभिप्रायः । पञ्चविधो हि हेतुरिति
केचिदिच्छन्ति—कारकाः, ज्ञापकः, व्यञ्जकः, ध्वंसकः, प्रापकश्चेति । कारको
हेतुर्बीजमङ्कुरस्य, ज्ञापको धूमोऽग्नेः, व्यञ्जको दीपो घटस्य, ध्वंसको मुद्गरो
घटस्य, प्रापको रथो देशान्तरप्रापणीयस्येति । तदेवं मार्गः प्रापकोऽस्य, न
जनको हेतुः । प्राप्यं च विसंयोगफलं न जन्यमिति दर्शितं भवति ।
अथासत्यधिपतिफल इति । विस्तरः-असंस्कृतस्य यदि फलं सपादधिपतिफलं
स्यात्; तस्य कारणहेतुत्वेन व्यवस्थापनात् । “नासंस्कृतस्य ते” इति वचनात्
तदप्यस्य निवारितमिति परिच्छिन्ने चोदकः पृच्छति-अथासत्यधिपतिफले
कथमसंस्कृतं कारणहेतुः । उत्पत्त्यनावरणभावेन कारणहेतुः, उत्पत्त्यनावरणभाव-
वचनात् । संस्कृतमेव प्रतीदमसंस्कृतं कारणहेतुर्व्यवस्थाप्यते, नामंस्कृतं प्रतीति
दर्शितं भवति । कस्मादस्य संस्कृतवत् फलं न व्यवस्थाप्यते ? इत्यत आह—
न चास्य फलमस्ति; अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वादिति । अध्व-
संगृहीतस्यैव हि धर्मस्य फलप्रतिग्रहणदानसामर्थ्यमस्ति, नान्यस्य । वक्ष्यति
हि—“वर्त्तमानाः फलं पञ्च गृह्णन्ति द्वौ प्रयच्छतः” ( अभि० को० २.५९ )
इति । उक्तं तु पर्यायेणहेतुरिति । पर्यायेणोक्तम्, न स्वशब्देनेत्यर्थः ।
दसंस्कृतमा-->तस्मादसंस्कृतमा-Line 20:लम्बनप्रत्ययो न प्राप्नोति । उत्पादायेत्यवधारणादिति । ये हेतवो ये प्रत्ययाLine 21:रूपस्योत्पादाय तेऽप्यनित्याः, न तु येऽनुत्पादाय । द्विविधा हि प्रत्ययाः—Line 22:जनकाश्च, अजनकाश्च । आलम्बनप्रत्ययश्चाजनकः; आलम्बनमात्रत्वात् । आल-Line 23:म्बनप्रत्ययो हि निरुध्यमाने धर्मे कारित्रं करोति, वर्त्तमाने हि चित्तचैत्तैर्ग्रहणात् ।Line 24:“निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः” ( अभि० को० २.६३ ) इति वचनात् ।Line 25:ननु च हेतवोऽपीति विस्तरः । हेतुरपि जनकश्चाजनकश्च । तस्मादसंस्कृत-Line 26:स्यानावरणभावमात्रेण अजनकस्यापि कारणहेतुत्वाप्रतिषेधः । उक्त आलम्बन-Line 27:प्रत्ययः सूत्र इति । “चतस्रः प्रत्ययताः” इत्यत्र सूत्रे । न तु प्रतिषिद्धः। धर्मताया`
Line 28
निर्देशः ] द्वितीयं कोशस्थानम् ३२१
“विसंयोगः कतमः ? यः प्रतिसंख्यानिरोधः” इत्युच्यते, तदिदमितरेतराश्रयं
व्याख्यानमसमर्थं तत्स्वभावद्योतने, तस्मादन्यथा तत्स्वभावो वक्तव्यः ?
आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः । एतावत् तु शक्यते वक्तुम्—नित्यं
कुशलं चास्ति द्रव्यान्तरम् । तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति सर्वमेवा-
संस्कृतद्रव्यमिति ।
सौत्रान्तिकाः—न हि तद् रूपवेदनादिवत् भावान्तरमस्ति, किं तर्हि ?
स्प्रष्टव्याभावमात्रमाकाशम् । तद्यथा ह्यन्धकारे प्रतिघातमविन्दन्त आकाशमित्याहुः ।
उत्पन्नानुशयजन्मनिरोधे १ प्रतिसंख्याबलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः ।
विनैव प्रतिसंख्या प्रत्ययवैकल्यादनुत्पादो यः सोऽप्रतिसंख्यानिरोधः । तद्यथा
निकायसभागाशेषस्यान्तारामरणे ।
सर्वमेवासंस्कृतमिति । न केवलं
निकायान्तरीयाः पुनराहुः - अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यम्,
अतोऽसौ प्रतिसंख्यानिरोधः।
यस्तु पुनः दुःखस्यानुत्पादः स उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्
प्रज्ञायाः सामर्थ्यमस्ति, अतोऽसावप्रतिसंख्यानिरोध इति? सोऽपि तु नान्तरेण
प्रतिसंख्यां सिध्यतीति प्रतिसंख्यानिरोध एवासौ।
य एवोत्पन्नस्य पश्चादभावः स एव स्वरसं१ निरोधादप्रतिसंख्यानिरोध
इत्यपरे। अस्यां तु कल्पनायामनित्योऽप्रतिसंख्यानिरोधः प्राप्नोति; अविनष्टे
तदभावात्।
ननु च प्रतिसंख्यानिरोधोऽप्यनित्यः प्राप्नोति; प्रतिसंख्यापूर्वकत्वात्। न
वै स प्रतिसंख्यापूर्वकः, न हि पूर्वं प्रतिसंख्या पश्चादनुत्पन्नस्यानुत्पादः। किं
तर्हि? पूर्वमेव स तेषामनुत्पादोऽस्ति। विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते
तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोत्पद्यन्त इति।
एतदत्र प्रतिसंख्यायाः सामर्थ्यं यदुत आयत्यां निबन्धाननुत्पत्तिप्रति-
बन्धभावः।
यदि तर्हि अनुत्पाद एव निर्वाणम्, इदं सूत्रपदं कथं नीयते—"पञ्चे-
निर्देशः ] द्वितीयं कोशस्थानम् ३२३
मानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतानि अतीतानागतप्रत्युत्पन्नस्य
दुःखस्य प्रहाणाय संवर्तन्ते" इति ? प्रहाणं हि निर्वाणम्, अनागतस्यैव चानुत्पादः,
नातीतप्रत्युत्पन्नस्येति ?
अस्त्येतदेवम् ; किन्तु तदालम्बनक्लेशप्रहाणात् दुःखस्य प्रहाणमुक्तं
भगवता—"यो रूपे च्छन्दरागस्तं प्रजहीतः। च्छन्दरागे प्रहीणे एवं वस्त्रद् रूपं
प्रहीणं भविष्यति परिज्ञातम्, विस्तरेण यावद् विज्ञानम्" ( )
इति । एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते ।
अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत ? अत्राप्येष नयः ।
अथ वायमभिप्रायः—भवेदतीतः क्लेशः पौर्वजन्मिकः, प्रत्युत्पन्नः क्लेश ऐह-
जन्मिको यथा तृष्णाविचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं
स्त्यनुत्पाद इति कथमिदमुक्तं सूत्रे—अतीतानागतप्रत्युत्पन्नस्य दुःखस्य प्रहाणाय
संवर्त्तन्त इति । तत्सूत्रपदं कथं नीयते ? यस्य पुनर्द्रव्यान्तरं निर्वाणं तस्यातीत-
प्रत्युत्पन्नयोरपि तदासेवनादिभिर्निर्वाणं प्राप्यत इति सुनीतपदं सूत्रं भवतीति ।
तदालम्बनक्लेशप्रहाणादिति । अतीतप्रत्युत्पन्नदुःखालम्बनक्लेशप्रहाणादित्यर्थः ।
यो रूपे छन्दराग इति । छन्दोऽनागतेऽर्थे प्रार्थना, रागस्तु प्राप्तेऽर्थेऽध्यवसानम् ।
विस्तरेण यावद् विज्ञानमिति । यो वेदनायां, संज्ञायां संस्कारेषु विज्ञाने छन्द-
रागस्तं प्रजहीत । छन्दरागे प्रहीणे एवं वस्त्रद्विज्ञानं प्रहीणं भविष्यति ।
एवं त्रैयध्विकस्यापि दुःखस्येति । छन्दरागप्रहाणमेव रूपादिदुःखप्रहाणम्, तस्य
चानागतस्य च्छन्दरागस्यानुत्पादो भवति । अतस्त्रैयध्विकस्यापि दुःखस्य
प्रहाणं युज्यत इति दर्शयति । एष एव नय इति । 'यद्यतीतानागतप्रत्युत्पन्नस्य
क्लेशस्य प्रहाणाय' इति पाठः, तत्राप्येष एव नय इति । यः क्लेशे रागे द्वेषे
वा च्छन्दरागस्तं प्रजहीतेति विस्तरः । तदालम्बनक्लेशप्रहाणादपि क्लेशस्य
प्रहाणम्, न स्वभावत एवेति त्रैयध्विकस्यापि क्लेशस्य प्रहाणं युज्यत इत्यर्थः ।
अथ वेति । विस्तरः—पूर्वजन्मनि भवः पौर्वजन्मिकः । इह जन्मनि भव ऐह-
जन्मिकः । तदेवमेकक्षणिकः क्लेश पर्युदस्तो भवति । कथमेतत् प्रत्येत्तव्यम्–पौर्व-
जन्मिकः सर्वक्लेशः सम्बध्यते ऐहजन्मिकश्च, न पुनरेकक्षणिकः ? इत्यत आह—
अन्यत्राप्येवन्दर्शनादेवं१ प्रत्येत्तव्यम्१ । यथा तृष्णाविचरितेष्विति । विस्तरः ।
अष्टादश तृष्णाविचरितानि कथमतीतेऽध्वन्येकस्मिन् क्षणे योज्यन्त इत्यतोऽतीतं
१-१. अयं पाठो जा० पुस्तके एव दृश्यते ।
३२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
जन्माधिकृत्योक्तम्, एवं यावत् प्रत्युत्पन्नम् । तेन च क्लेशद्वयेनास्यां सन्ततौ बीज-
भाव आहितोऽनागतेऽस्योत्पत्तये¹ । तस्य प्रहाणात् तदपि प्रहीणं भवति, यथा
विपाकक्षयात् कर्म क्षीणं भवति ।
अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावात् अत्यन्तमनुत्पादः
प्रहाणम्; अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् । न हि निरुद्धे निरोधाभि-
मुखे च यत्नः सार्थको भवतीति ।
यद्यसंस्कृतं नास्त्येव यदुक्तं भगवता—"केचिद्धर्माः संस्कृताथासंस्कृता²
वा, विरागस्तेषामग्र आख्यायते" इति, कथमसतामसन्नग्रो भवितुमर्हति ?
न वै नास्त्येवासंस्कृतमिति ब्रूमः । एतत्तु तदीदृशं यथाऽस्माभिरुक्तम् ।
तद्यथा—'अस्ति शब्दस्य प्रागभावः', 'अस्ति पश्चादभावः' इत्युच्यते । अथ च
जन्माधिकृत्योक्तम्—"अष्टादश तृष्णाविचरितानि । अस्मीति भिक्षवः सतीत्यम-
स्मीति भवति, एवमस्मीत्यन्यथास्मीति सदस्मीत्यसदस्मीति भवति । भविष्यामी-
त्यस्य भवति, न भविष्यामीत्यं भविष्याम्येवं भविष्याम्यन्यथा भविष्यामीत्यस्य
भवति । स्यामित्यस्य भवति, इत्थं स्यामेवं स्यामन्यथा स्यामित्यस्य भवति ।
अपि स्यामित्यस्य भवति, अपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्यस्य
भवति । एवं यावत् प्रत्युत्पन्नम् । तथेहापि पौर्वजन्मिकः कृत्स्नः क्लेशप्रवाह
ऐहजन्मिकश्च सम्वध्यते नैकक्षणिक इति । तदेवं प्रसाध्यताभिप्रायं ब्रवीति । तेन
च क्लेशद्वयेनेति । विस्तरः—पौर्वजन्मिकेनैहजन्मिकेन चेति क्लेशद्वयेनास्यां
सन्ततौ प्रत्युत्पन्नायां बीजभावो वासनालक्षणं सामर्थ्यमाहितोऽनागतेऽस्योत्पत्तये ।
तस्य बीजभावस्य प्रहाणात् तदपि क्लेशद्वयं प्रहीणं भवति । यथा विपाकक्षयाद्
विपाकोपभोगात्तु कर्म क्षीणं भवतीत्युपचर्यते, तद्वत् ।
अनागतस्य तर्हि कथं प्रहाणं व्यवस्थाप्यते, न हि तेन सन्ततौ बीजभाव
आहितो यस्य प्रहाणात् प्रहाणं भवेत् ? इत्यत आह—अनागतस्य पुनर्दुःखस्य
क्लेशस्य वा बीजाभावादत्यन्तमनुत्पादः प्रहाणमिति । बीजभावश्च प्रतिसंख्याबलेन
भवति । न हि निरुद्धेऽतीते निरोधाभिमुखे च प्रत्युत्पन्ने यत्नः प्रतिपक्षोत्पादने
यत्नः सार्थकः सप्रयोजनमित्यर्थः ।
विरागस्तेषामग्र इति । रागक्षयो विरागः प्रतिसंख्यानिरोध इत्यर्थः ।
कथमसतामसन्नग्रो भवितुमर्हतीति । कथमसतामाकाशादीनामसंस्कृता-
१. गतस्योत्पत्तये—का० । २. संस्कृता वा०—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् ३२५
पुनर्नाभावो भावः सिध्यति। एवमसंस्कृतमपि द्रष्टव्यम्।
अभावोऽपि¹ कश्चित् प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव
इत्यन्येषां सोऽग्न इति प्रशंसां लब्धुमर्हति, विनेयानां तस्मिन्नुपच्छन्दनार्थम्।
यद्यप्यसंस्कृतमभावमात्रं स्यात्, निरोध आर्यसत्यं न स्यात्। न हि तत्
किञ्चिदस्तीति ?
कस्तावदयं सत्यार्थः ? ननु चाविपरीतार्थः। उभयमपि चैतद्विपरीतं दृष्टमा-
र्यैर्यदुत दुःखं दुःखमेवेति, दुःखाभावश्चाभाव एवेति कोऽस्यार्यसत्यत्वे विरोधः।
कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् ? उक्तं यथार्थसत्यं द्वितीयस्य
चानन्तरं² दृष्टमुद्दिष्टं³ चेति तृतीयं भवति।
यद्यसंस्कृतमभावमात्रं स्याद्, आकाशनिर्वाणालम्बनविज्ञानमसद्धालम्बनं
स्यात्। एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः।
यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत, किं स्यात् ? किं च पुनः स्यात् ? वैभा-
षिकपक्षः पालितः स्यात्। देवता एनं पालयिष्यन्ति पालनीयं चेत् मंस्यते।
अभूतं तु परिकल्पितं स्यात्। किं कारणम् ? न हि तस्य रूपवेदनादिवत् स्वभाव
उपलभ्यते, न चापि चक्षुरादिवत् कर्म।
'अमुष्य च वस्तुनोऽयं निरोधः' इति षष्ठीव्यवस्था कथं प्रकल्प्यते, नहि
तस्य तेन सार्धं कश्चित् सम्बन्धः, हेतुफलादिभावासम्भवात्; प्रतिषेधमात्रं तु
युज्यते-अमुष्याभाव इति ?
नामसन्नसंस्कृतो विरागोऽग्रो भवितुमर्हतीति ? अस्योत्तरं ब्रवीति—अभावोऽपि
कश्चिदिति विस्तरः। द्वितीयस्य चेति। द्वितीयस्य समुदयसत्यस्यानन्तरं दृष्टं
स्वयं प्रज्ञया उद्दिष्टं परेभ्यो देश नया त्रयाणां पूरणं तृतीयं भवति। किं स्यादिति।
को दोषः स्यादित्यर्थः। किञ्च पुनः स्यादिति। को गुणः स्यादित्यर्थः। किञ्च
पुनः स्यादिति गुणपरिपश्न आह—वैभाषिकपक्षः पालितः स्यादिति। यत् तूक्तं—
किं स्यात् को दोषः स्यादित्यत्रोच्यते—अभूतं तु परिकल्पितं स्यादिति। दोषः
स्यादित्यर्थः। रूपवेदनादिवदिति। प्रत्यक्षतः। चक्षुरादिवदिति। कर्मतोऽनु-
मानतः इत्यर्थः। असकृद् व्याख्यातमेतत्। वस्तुन इति। रागादिवस्तुनः।
हेतुफलादिभावसम्भवादिति। आदिशब्देन स्वस्वाम्यवयवावयविसम्बन्धादयो
१. ०पि च—का०। २. अनन्तरं—का०। ३. मुद्दिष्टं—का०।
३२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
भावान्तरत्वेऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाद् य निरोधः प्राप्यते स
तस्येति व्यपदिश्यते ।
तस्यैतर्हि १ प्राप्तिनियमे को हेतुः ? “दृष्टधर्मनिर्वाणप्राप्तो भिक्षुः” इत्युक्तं
सूत्रे । तत्र कथमभावस्य प्राप्तिः स्यात् ? प्रतिपक्षलाभेन क्लेशपुनर्भवो-
त्पादात्यन्तविरुद्धाश्रयलाभात् प्राप्तं निर्वाणमित्युच्यते ।
आगमश्चाप्यभावमात्रं द्योतयति । एवं ह्याह— “यत् खल्वस्य दुःखस्या-
शेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमोऽस्तङ्गमः
अन्यस्य च दुःखस्याप्रतिसन्धिरनुत्पादोऽप्रादुर्भावः । एतत् कान्तमेतत् प्रणीतं
यदुत सर्वोपाधिप्रतिनिःसर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाणम्” इति ।
किमेवं नेष्यते—नास्मिन् प्रादुर्भाव २ इत्यतोऽप्रादुर्भाव इति ? असमर्थामेतां
सप्तमीं पश्यामः । किमुक्तं भवति ? नास्मिन् प्रादुर्भवतीति यदि सतीत्यभिसम्बध्यते,
नित्यमेवाप्रादुर्भावप्रसङ्गः; निर्वाणस्य नित्यत्वात् ।
अथ प्राप्त इत्यभिसम्बध्यते; यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव
गृह्यन्ते । न हि वस्तुनो निरोधे हेतुः फलमवयवावयवीत्येवमादि ।'
तस्यैतर्हि प्राप्तिनियम इति । विस्तरः—तस्य निरोधस्य योऽयं प्राप्तिनियमः—
अस्यैव निरोधस्य प्राप्तिर्नान्यस्येति, तस्मिन् प्राप्तिनियमे को हेतुः ? न हि
निरोधस्य प्राप्त्या सार्धं कश्चित् सम्बन्धोऽस्ति; हेतुफलादिभावासम्भवात् ।
दृष्टधर्मनिर्वाणं प्राप्त इति । प्रत्यक्षे जन्मनि निर्वाणप्राप्तः सोपधिशेषनिर्वा-
णस्थ इत्यर्थः । यद्यभावः कथमस्य प्राप्तिः स्यात्, प्रतिपक्षलाभेनेति । विस्तरः—
आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोत्पादेऽत्यन्तविरुद्धस्याश्रयस्य लाभात् प्राप्तं
निर्वाणमित्युच्यते । अभावमात्रत्वमिति । मात्रशब्दो द्रव्यान्तरत्वनिवृत्त्यर्थः । यत्
खल्वस्येति । विस्तरः—प्रहाणं यावदप्रादुर्भाव
इत्येतत् स्फुटमित्युदाहरणमुक्तम् ।
नास्मिन् प्रादुर्भाव इत्यतोऽप्रादुर्भाव इत्यधिकरणसाधनमिति दर्शयन्ति, न तु
अप्रादुर्भूतिरप्रादुर्भाव इति भावसाधनमित्यर्थः । यत एव तत्प्राप्तिः परिकल्प्यते
१. तस्य तर्हि—का० ।
२-२. प्रादुर्भवतीत्यतो—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् ३२७
सम्मुखीभूते प्राप्ते वा दुःखस्येप्यतामप्रादुर्भावः । अयं च दृष्टान्त एवं सुपनीतो
भवति—
“प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः” ( ) इति ।
यथा प्रद्योतस्य निर्वाणमभावः, एवं भगवतोऽपि चेतसो विमोक्ष इति ।
अभिधर्मेऽपि चोक्तम्—“अवस्तुका धर्माः कतमे ? असंस्कृता धर्माः”
इति । अवस्तुकाः = अशरीराः, अस्वभावा इत्युक्तं भवति ।
नास्यायमर्थः । कस्तर्हि ? पञ्चविधवस्तु । १. स्वभाववस्तु, यथोक्तम्—
“यद्वस्तु प्रतिलब्धं समन्वगतः स तेन वस्तुना” इति । २. आलम्बनवस्तु,
यथोक्तम्—“सर्वधर्मज्ञेया ज्ञानेन यथावस्तु” इति । ३. संयोगवस्तु,
यथोक्तम्—“यस्मिन् वस्तुनि अनुनयः संयोजनेन सम्प्रयुक्तः प्रतिघसंयोजने-
नापि तस्मिन्” इति । ४. हेतुवस्तु, यथोक्तम् “सवस्तुका धर्माः कतमे ?
संस्कृता धर्माः” इति । ५. परिग्रहवस्तु, यथोक्तम्—“क्षेत्रवस्तु गृहवस्तु” इति ।
तदत्र हेतुवस्तुशब्देनोक्तः । तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः ।
तस्य तु हेतुफले न विद्येते इति । गतं तावदेतत् ॥ ५५ ॥
अथैषां फलानां कतमत् फलं कस्य हेतोः ?
विपाकफलमन्त्यस्य
विपाकहेतुरन्तेऽभिहितत्वात् १ अन्त्यः, तस्य विपाकफलम् ।
पूर्वस्याधिपजं२ फलम् ।
कारणहेतुः पूर्वमुक्तत्वात् पूर्वः, तस्याधिपजं फलम् । अनावरणभाव-
यतो मार्गात् प्रहाणप्राप्तः परिकल्प्यते, तस्मिन् सति मार्गे प्राप्ते वा दुःखस्येप्यता-
मप्रादुर्भावः, किमन्येन निर्वाणेन परिकल्पितेन ! विमोक्षस्तस्य चेतस इति ।
निरुपधिशेषनिर्वाणकाले भगवतः । यथावस्तु यथालम्बनम् । संयोगस्य वस्तु
संयुज्यते । सवस्तुका धर्मा इति सहेतुकाः । परिग्रहवस्तु । परिगृह्यत
इति परिग्रहः, स एव वस्तु परिग्रहवस्तु ॥ ५५ ॥
अन्तेऽभिहितत्वादात ! कारिकाया अन्ते विपाकहेतुः पठितः । तस्य
विपाकफलमेव ।
पूर्वः कारणहेतुः श्लोकादौ पठितत्वात्, तस्य “अधिपजं फलम्” । अधिपति-
१. ०रन्त्ये०—का० । २. पूर्वस्याधिपतं—का० ।
३२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
मात्रेणावस्थितस्य किमाधिपत्यम् ? एतदेवाधिपत्यम्¹। अङ्गीभावोऽपि ²वास्ति
कारणहेतोः, तद्यथा—“पञ्चसु विज्ञानकायेषु दशानामायतनानां भाजनलोके च
कर्मणाम् । श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानस्योत्पत्तौ³ पारम्पर्येणाधिपत्यम्; श्रुत्वा
द्रष्टुकामतोत्पत्तेः” ( ) इत्येवमादि योज्यम् ।
सभागसर्वत्रगयोर्निष्यन्दः
रधिपः, तस्माज्जातमधिपजम्, अधिपतिफलमित्यर्थः । पूर्वस्याधिपतमिति
केचित् पठन्ति । अधिपतेरिदं फलमाधिपतमिति । आधिपत्यमिति तु प्राप्नोति;
“दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः” (पा० सू० ४.१.८५) इत्यपवादात् । अथा-
पवादविषयेऽप्युत्सर्गसनावेश इति भवेत्, भवेदेतद् रूपम् । एतदेवाधिपत्यमिति ।
यदनावरणभावमात्रावस्थानम् । अङ्गीभावोऽपि वास्तीति । प्रधानभावोऽपि,
जनकभावोऽपीत्यर्थः । तदनेन द्विविधस्यापि कारणहेतोः कारकस्य वा,
अध्युपेक्षकस्य वाधिपतिकलमस्तीति दर्शितं भवत्यन्यत्रासंस्कृतात् । यस्माद्
वक्ष्यति—“अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्” (अभि० को० २.५८)
इति । दशानामायतनानामिति । चक्षूरूपायतनयोर्यावत् कायस्प्रष्टव्यायतनयोः ।
‘चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत् कायं प्रतीत्य स्प्रष्टव्यानि
चोत्पद्यते कायविज्ञानम्’ इति वचनात् । कारणहेतुरेव चायम् । न हि चक्षु-
रादीन्यायतनानि चक्षुर्विज्ञानादीनां सहभूहेत्वादयः पञ्च हेतवः सम्भवन्ति, मन-
आयतनं तु मनोविज्ञानस्य सभागहेत्वादि सम्भवति । धर्मायतनमपि सहभू-
सम्प्रयुक्तकहेत्वादि सम्भवतीति न कारणहेतुरेवेत्यवधार्यते । तस्माद् दशाना-
मित्युकम्, न द्वादशानामिति । भाजनलोके च कर्मणाम् । किम् ? अङ्गीभावो-
ऽस्ति । कारणहेतोरित्यधिकृतम्, भाजनलोको हि कुशलाकुशलकर्मजनितोऽ
प्यव्याकृतोऽपि न विपाकफलमिष्यते, “सत्त्वाख्यो विपाकः” (अभि० को०
२.५७) इति लक्षणात् । तस्मात् कारणहेतोरेतदधिपतिकलम् ।
श्रोत्रादीनामपि । न केवलं चक्षुषोऽस्ति, किम् ? चक्षुर्विज्ञानस्योत्पत्तौ पारम्पर्ये-
णाधिपत्यम् न साक्षाद्, यथा चक्षुषः । कथं ज्ञायते ? इत्याह—श्रुत्वा द्रष्टुकाम-
तोत्पत्तेः । द्रष्टुकामतायां च चक्षुर्विज्ञानमुत्पद्यत इत्यभिप्रायः । एवमादि योज्य-
मिति । घ्रात्वा द्रष्टुकामतोत्पत्तेरित्यादि योज्यम् ।
“सभागसर्वत्रगयोर्निष्यन्दः” । फलमिति वर्तते । सभागसर्वत्रगहेत्वोरेव
निष्यन्दफलमित्यवधार्यते । पुरुषकारफलमपि हि तयोरनन्तरं सम्भवति ।
१. एतदेव—का० । २. चम्ति—का० । ३. ०विज्ञानोत्पत्तौ—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् ३२९
सदृशफलत्वादनयोर्निष्यन्दफलम् ।
पौरुषं द्वयोः ॥ ५६ ॥
सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् । पुरुषभावान्यतिरेकात् पुरुषकारः
पुरुष एव, तस्य फलं पौरुषम् ।
कोऽयं पुरुषकारो नाम ? यस्य धर्मस्य यत् कारित्रम् । पुरुषकार इव हि
पुरुषकारः । तद्यथा—काकजङ्घा ओषधिः, मत्तहस्ती मनुष्य इति ।
किमन्येषामप्यस्ति पुरुषकारफलम् ? उताहो द्वयोरेव ? अन्येषामप्यस्त्यन्यत्र
विपाकहेतोः; यस्मात् सहोत्पन्नं' समनन्तरोत्पन्नं वा पुरुषकारफलं भवति । न
चैव२ विपाकः ।
“पौरुषं द्वयोः” इति । पुरुषकारफलमेव सहभूसंप्रयुक्तकहेत्वोरित्य-
वधारणम् । पुरुषकारस्य फलं पौरुषम्, पुरुषकारफलमित्यर्थः । पुरुषभावा-
व्यतिरेकात्
३३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् । यथा कर्षकाणां सस्यमित्यपरे ॥ ५६ ॥
किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् ?
विपाकोऽव्याकृतो धर्मः
अनिवृताव्याकृतो हि धर्मः विपाकः । असत्त्वाख्योऽपि स्याद् । अत
आह—
सत्त्वाख्यः
औपचयिकोऽपि स्यात्, नेःष्यन्दिकोऽपि ? अत आह—
व्याकृतोद्भवः ।
कुशलाकुशलं हि विपाकं प्रति व्याकरणाद् व्याकृतम् । तस्माद्य उत्तरकालं
भवति न युगपद्¹ नाप्यन्तरं² स विपाकः । एतद् विपाकस्य लक्षणम् ।
कस्मादसत्त्वाख्योऽर्थः कर्मजो न विपाकः ? साधारणत्वात् । अन्योऽपि
हि तत् तथैव परिभोक्तुं समर्थः । असाधारणस्तु विपाकः । न ह्यन्यकृतस्य
कर्मणोऽन्यो विपाकं प्रतिसंवेदयते ।
अधिपतिफलं कस्मात् प्रतिसंवेदयते ? साधारणकर्मभूतत्वात् ।
निःष्यन्दो हेतुसदृशः
वा समनन्तरोत्पन्नो वेत्यधिकृतम् ॥ ५६ ॥
“विपाकोऽव्याकृतो धर्मः” इति । विस्तरः—अव्याकृत एव सत्त्वाख्य एव
व्याकृतोद्भव एवेत्यवधारणम् । अव्याकृत इति अनिवृत्ताव्याकृतो विवक्षितः ।
सत्त्व इति आख्या यस्य सः “सत्त्वाख्यः” । सत्त्वसन्तानज इत्यर्थः ।
व्याकृतादुद्भवतीति “व्याकृतोद्भवः”। औपचयिकनैष्यन्दिकौ तु न व्याकृता-
दुद्भवतः । ननु च इन्द्रियमहाभूतोपचयो ध्यानविशेषसमापन्नस्य भवति,
असावपि व्याकृतादुद्भवति, स विपाकः प्राप्नोति, निर्माणचित्तं चापि, तथैव
समाधिभूतचित्तत्वात् ? नैष दोषः; व्याकृतोद्भवः इत्युच्छब्दः उत्तरकालार्थः ।
व्याकृतात् कुशलादकुशलाद्वा य उत्तरकालमेव भवति युगपन्नाप्यनन्तरं स विपाक
इति । समाधिजस्तूपचयः समाधिना सह चानन्तरं च भवति । निर्माणचित्तं
त्वनन्तरमेव च भवति । विपाकश्च समानभूमिक एवाभिप्रेत इत्येतच्चोभयं
भिन्नभूमिकमपि भवतीति न विपाकस्य प्रसङ्गः । निष्यन्दो हेतुसदृश इति ।
१. सह—का० । २. नान्तरं—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् ३३१
हेतोर्यः सदृशो धर्मः स निष्यन्दफलम्, तद्यथा—सभागासर्वत्रगहेत्वोः ।
यदि सर्वत्रगहेतोरपि समानं फलम्, कस्मान्न सभागहेतोरेवेष्यते ? यस्मात्
भूमितः क्लिष्टतया चास्य सादृश्यम्, न तु प्रकारतः । यस्य तु प्रकारतोऽपि
सादृश्यं सोऽभ्युपगम्यत एव सभागहेतुः ।
अत एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः
क्रियते । प्रथमा कोटिः-असर्वत्रगः सभागहेतुः, द्वितीया—अन्यनैकायिकः सर्वत्र-
गहेतुः, तृतीया-एकनैकायिकः सर्वत्रगहेतुः, चतुर्थी-एतानाकारान् स्थापयित्वेति ।
कुशलक्लिष्टानिवृत्ताव्याकृतसादृश्यमधिकृत्य । यद्येवम्, कुशलसास्रवस्य हेतो-
रनास्रवं निष्यन्दफलं प्राप्नोति, कुशलसादृश्यात् ? न; निकायसादृश्याभावात् ।
समाननिकायो हि सभागहेतुरिष्यते, न सर्वः ।
भूमितः क्लिष्टतया चास्य सादृश्यमिति । अस्य सर्वत्रगहेतोः सादृश्यं भूमितः
क्लिष्टतया च । केन सह ? स्वफलेन । कथमिति ? भूमितस्तावत् सर्वत्रगहेतुः
कामावचरो यावद्भावाग्रिकः । तत्फलमपि कामावचरं यावद्भावाग्रिकमिति ।
क्लिष्टतया च सर्वत्रगहेतुरपि क्लिष्टः, तत्फलमपि क्लिष्टम् । न तु प्रकारतः
सादृश्यं यथा सभागहेतोः । यस्य तु प्रकारतोऽपि सादृश्यम् । यस्य सर्वत्रगहेतोः
स्वफलेन सह प्रकारतोऽपि सादृश्यम् । स सर्वत्रगहेतुरभ्युपगम्यत एव सभाग-
हेतुरिति । भूमिक्लिष्टत्वसादृश्याद्धि सर्वत्रगहेतुर्भवति, सभागहेतुश्च स भवति;
प्रकारतोऽपि सादृश्यात् ।
अत एव चतुष्कोटिकः क्रियते । उभयस्वभावतया तृतायकोटिसम्भवात् ।
प्रथमा कोटिरसर्वत्रगः सभागहेतुरिति । रागादिकः सभागहेतुः । स हि सभाग-
हेतुरेव स्वनैकायिकस्य क्लेशस्य, न तु सर्वत्रगहेतुः; असर्वत्रगस्वभावत्वात् ।
द्वितीयान्यनैकायिकः सर्वत्रगहेतुरिति । सत्कायदृष्ट्यादिकः सर्वत्रगः । स हि
सर्वत्रगहेतुरेव सर्वत्रगस्वभावत्वात्, अन्यनैकायिकक्लिष्टहेतुत्वाच्च । न सभाग-
हेतुः; अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात् । तृतीयाैकनैकायिकः सर्वत्रग-
हेतुरिति । सत्कायदृष्ट्यादिकः सर्वत्रगः । स ह्येकनैकायिकस्य क्लेशस्य
सभागहेतुः, एकनैकायिकक्लिष्टसादृश्यात् । सर्वत्रगहेतुश्च सः, तस्य सर्वत्र-
गत्वादेकनैकायिकक्लिष्टहेतुत्वयोगेन सर्वत्रगहेतुत्वयोगाच्च । चतुर्थ्येतानाकारान्
स्थापयित्वेति । त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्यर्थः । तद्यथा क्लिष्टा
धर्माः कुशलानां न सभागहेतुः; सादृश्यात् । न सर्वत्रगहेतुरत एव कुशलानां
चाक्लिष्टत्वात् ।
३४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
विसंयोगः क्षयो धिया ॥ ५७ ॥
क्षयः = निरोधः । धीः = प्रज्ञा । तेन प्रतिसंख्यानिरोधो विसंयोग-
फलमित्युक्तं भवति ॥ ५७ ॥
यद्बलाज्जायते यत्तत् फलं पुरुषकारजम् ।
तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्याना-
स्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि ।
एवं कुशलाः क्लिष्टानां योज्यम् । क्लिष्टा अपि क्लिष्टानां न सभागहेतुः,
नापि सर्वत्रगहेतुर्भवन्ति, तद्यथा रागादयोऽन्यनैकायिकानां न सभागहेतुरन्य-
नैकायिकत्वात्, न सर्वत्रगहेतुरसर्वत्रत्वाद् रागादीनामिति । सर्वत्रगा अपि धर्माः
क्लिष्टानामेकनैकायिकानामपि न सभागहेतुर्न सर्वत्रगहेतुः । यद्यनागतास्ते
भवन्तीति योज्यम् ।
“विसंयोगः क्षयो धिया” इति । धिया प्राप्यमाणो निरोधो विसंयोगफल-
मित्यर्थः । तेनेति । तेन कारणेन यस्मात् क्षयो निरोधः, धी प्रज्ञा, तेन कारणेन
प्रतिसंख्यानिरोधो विसंयोगफलमित्युक्तं भवतीत्याचष्टे ॥ ५७ ॥
“यद्बलाज्जायते” इति विस्तरः । यस्य बलं यद्बलमिति षष्ठीसमासः । यस्य
बलाज्जायते यत्संस्कृतम्, तत्फलम्, तस्य पुरुषकारजम् । पुरुषकाराज्जातं पुरुष-
कारजम् । पुरुषकारफलमित्यर्थः ।
उदाहरणं कथयति—तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यान-
भूमिकस्य वा प्रयोगचित्तस्योपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यान-
भूमिको वा समाधिः । फलं पुरुषकारजमित्यधिकृतम् । सास्रवस्य धर्मस्याना-
स्रवः । ध्यानचित्तस्य निर्माणचित्तं तदेव फलं भवति । आदिशब्देनान्यदपि ।
तद्यथा कामावचरान्मरणचित्ताद् रूपावचरः प्रथमोऽन्तराभवक्षण इत्येवमादि
विजातीयोदाहरणं निष्पन्दफलविवेचनार्थम् । अधरभूमिकस्य हि प्रयोगचित्त-
स्योपरिभूमिकः समाधिर्न निष्पन्दफलम् । भिन्नभूमिकं हि न हेतुसदृशम् । नापि
सास्रवस्यानास्रवमिति वक्तव्यम् । न तु सर्वं निष्पन्दफलं पुरुषकारफलं भवति ।
यद्धि यस्य बलाज्जायते सदृशं समानभूमिकमनन्तरं च भवति, तत्तस्य पुरुष-
कारफलं निष्पन्दफलं च भवति । चतुष्कोटिकं चात्र भवति—अस्ति पुरुषकार-
फलमेव न निष्पन्दफलम्, यथोदाहृतम्; अस्ति निष्पन्दफलमेव न पुरुषकार-
फलम्, सभागसर्वत्रगहेत्वोर्व्यवहितं फलम्; अस्त्युभयम्, समनन्तरोत्पन्नं
सभागसर्वत्रगहेत्वो फलम्; अस्ति नोभयम्, तद्यथा विपाकहेतोर्विपाकफलम् ।
प्रतिसंख्यानिरोधोऽपि पुरुषकारफलमिष्यते ।
निर्देशः ] द्वितीयं कोशस्थानम् ३३३
प्रतिसंख्यानिरोधस्तु यद्बलात् प्राप्यत इति वक्तव्यम् ।
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ ५८ ॥
पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् ।
पुरुषाधिपतिफलयोः किं नाना कारणम् ? कर्तुः पुरुषकारफलम् ।
अकर्तुरप्यधिपतिफलमेव, तद्यथा—शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं
च । अन्येषामधिपतिफलमेव ॥ ५८ ॥
अथैषां हेतूनां कतमो हेतुः कस्मिन् काले फलं प्रतिगृह्णाति ? ददाति वा ?
वर्त्तमानाः फलं पञ्च गृह्णन्ति
नातीताः प्रतिगृहीतत्वात्, नाप्यनागता निष्पुरुषकारत्वात् । कारणहेतु-
रप्येवम् । स तु नावश्यं सफल इति नोच्यते ।
न चासौ हेतुबलाज्जायते नित्यत्वादित्यतः कारिकायामनुक्तं तदुपसंगृह्णते—
प्रतिसंख्यानिरोधस्तु यद्बलात् प्राप्यत इति वक्तव्यमिति । प्रतिसंख्याबलेन हि
प्रतिसंख्यानिरोधः प्राप्यते । तस्मात् स प्रतिसंख्यायाः पुरुषकारफलं भवति ।
“अपूर्वः” इति विस्तरः । अपूर्वः पूर्वोत्पन्नादन्यः । कः पुनरसौ ? सहोत्पन्नः
पश्चादुत्पन्नश्च न हि पूर्वं फलं पश्चाद्धेतुर्भवति । संस्कृत एव धर्मोऽधिपतिफलम्,
नासंस्कृतः । संस्कृतस्यैव नासंस्कृतस्य फलप्रतिग्रहप्रदानसमर्थत्वात् । सर्वस्येति ।
जनकस्याविघ्नभावावस्थायिनश्च । कर्तुः पुरुषकारफलमिति । “यदबलाज्जायते
यावत् फलं पुरुषकारजम्” इति वचनात् ।
अकर्तुरप्यधिपतिफलमेवेति । “अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्”
इति वचनात् । अन्येषामधिपतिफलमेवेति । अशिल्पिनामविघ्नभावावस्थायिनां
तच्छिल्पमधिपतिफलमेव न पुरुषकारफलम् । तदेवं चतुःकोटिकं भवति—
१. अस्ति पुरुषकारफलमेव नाधिपतिफलम्, तद्यथा विसंयोगफलम् । २. अस्त्य-
धिपतिफलमेव न पुरुषकारफलम्, उदासीनस्य हेतोर्व्यवहितञ्च फलम् ।
३. अस्त्युभयम्, सहोत्पन्नानन्तरोत्पन्नश्च कारकस्य हेतोः । ४. अस्ति नोभयम्,
तद्यथा आकाशमप्रतिसंख्यानिरोधश्चेति ॥ ५८ ॥
“वर्त्तमानाः फलं पञ्च” इति । वर्त्तमाना एव फलम् ।
“गृह्णन्ति” इत्यवधारणम् । प्रतिगृह्णन्तीति । आक्षिपन्ति हेतुभावेनाव-
तिष्ठन्त इत्यर्थः । कारणहेतुरप्येवमिति । वर्त्तमान एव फलं प्रतिगृह्णाति नातीतो
नानागतो वा । स तु नावश्यं सफल इति नोच्यते । तथा हि—असंस्कृतं
..."
Wait, look at the quotes:
“द्वौ प्रयच्छतः” इति। वर्त्तमानावधिकृतम् । सहभूसम्प्रयुक्तकहेतुवर्त्तमानावेव
Wait, look at "सहभूसम्प्रयुक्तकहेतुवर्त्तमानावेव":
Is it "हेतुवर्त्तमानावेव" or "हेतू वर्त्तमानावेव"?
Look at 'तु': there is no dirgha 'तू'?
It looks like 'तु' (short u) or 'तू'? It curves down: 'तु'.
And then "वर्त्तमानावेव".
Line 15:
"फलं प्रयच्छतः । युक्तं तावद् यदतीताविति । निष्पन्दफलेन सफलावेतावुक्तौ;"
Wait, look at:
"युक्तं तावद् यदतीताविति ।"
Wait, is it "यदतीताविति"?
In the image: "युक्तं तावद् यदतीताविति ।"
Wait, look at the text in the middle of line 15:
"युक्तं तावद् यदतीताविति ।" - wait, is it faint?
Ah! The text in the middle of line 15 is partially faint/damaged!
"फलं प्रयच्छतः । युक्तं तावद् यदतीताविति । निष्पन्दफलेन सफलावेतावुक्तौ;"
Look at "युक्तं तावद् यदतीताविति ।": the print is slightly lighter
द्वितीया—कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिसन्दधानस्य ।
तृतीया—असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु । चतुर्थी—एतानाकारान्
स्थापयित्वा ।
अकुशलस्य तु प्रथमा कोटिः—कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्
विजहाति । द्वितीया—कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । एवं
तु वक्तव्यम्—स्यात्त एव परिहीयमाणस्य । तृतीया—कामावीतरागस्य शेषास्व-
वस्थासु । चतुर्थी—एतानाकारान् स्थापयित्वा ।
एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् ।
अनिवृताव्याकृतस्य पश्चात्पादकः । यस्तावत् ददाति प्रतिगृह्णात्यपि सः ।
स्यात् प्रतिगृह्णाति न ददात्यर्हत्पश्चिमाः स्कन्धाः । सालम्बननियमेन तु क्षणशः ।
चरन्ति । प्राप्तयस्तु तेषां मृदुमृदूनां समुदाचरन्ति । ताः सर्वपश्चिमादिका
यास्तदा विजहाति, तासां प्राप्तीनां प्राप्तीर्निरोधयतीत्यर्थः । ताः प्राप्तयोऽन्त्या-
वस्थाः कुशलः सभागहेतुः फलं प्रतिगृह्णाति, फलं परिग्रहं करोति । न ददाति
स्वनिष्यन्दफलम् । कुशलस्य क्षणान्तरस्य जन्यस्याभावात् । द्वितीया कोटिः ।
ददाति न प्रतिगृह्णातीति । कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिलभते ।
या प्राप्तीः सर्वपूर्वं प्रतिलभते ताः कुशलः सभागहेतुः फलं ददातीति । प्राप्तिं
स्वनिष्यन्दं जनयति, न तु प्रतिगृह्णाति; पूर्वमेव प्रतिगृहीतत्वात् । अयं तु
सावद्यो द्वितीयकोटिनिर्देशः । कुशलमूलप्रतिसन्धानकाले हि नवप्रकाराणामपि
कुशलमूलानां प्राप्तयोऽतीतानागतप्रत्युत्पन्नाः समं प्रतिलभ्यन्ते । तासां या
अतीताः प्राप्तयः स कुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति; प्रतिगृही-
तत्वाधिति युक्तमेतत् । यास्तु वर्त्तमानास्तथैव प्रतिलब्धाः प्राप्तयः स कुशलः
सभागहेतुः कथमवधार्यते—फलं ददात्येव न प्रतिगृह्णातीति, स हि प्रति-
गृह्णाति न ददाति चेति ! एवमविशेषितत्वात् सावद्योऽयं द्वितीयकोटिनिर्देशः ।
तस्मादाचार्य आह—एवं तु वक्तव्यं स्यात् । ता एव प्रतिसन्दधानस्येति । ता एव
प्राप्तयः कुशलः सभागहेतुः फलं ददात्येव स्वनिष्यन्दफलदानात् । न प्रतिगृह्णाति
पूर्वप्रतिगृहीतत्वात् । तृतीया कोटिः । फलं प्रतिगृह्णाति ददाति चेति । असमु-
च्छिन्नकुशलमूलस्य शेषास्ववस्थास्विति । द्वे अवस्थे हित्वा—यस्यामवस्थायां
कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति, यस्यां चावस्थायां
कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिलभते । यथास्मदादीनां कुशलाः
प्राप्तयः फलं प्रतिगृह्णन्ति ददति चेति । विसभागक्षणान्तराव्यवहित इति
३३६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः ।
प्रथमा कोटिः—यदा १ कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं सम्मु-
खीकरोतीति । द्वितीया—विपर्ययात् । तृतीया—कुशलचित्तानन्तरं कुशलमेव ।
चतुर्थी—एतानाकारान् स्थापयित्वा ।
वक्तव्यम् ? न वक्तव्यम्; विसभागक्षणान्तरव्यवधानेऽपि प्राप्तिलक्षणस्य सभाग-
हेतोः फलप्रतिग्रहणदानसम्भवात् । चतुर्थ्येतानाकारान् स्थापयित्वा । तद्यथा—
ऊर्ध्वभूमेः परिहीणस्य ऊर्ध्वभूमिकानां या प्राप्तयस्ताः कुशलः सभागहेतुर्न
फलं प्रतिगृह्णाति, पूर्वं प्रतिगृहीतत्वात् । न ददाति, तद्भूमिपरिहीणस्य तद्-
भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात् । एवं समुच्छिन्नकुशलमूला-
वस्थायामपि वक्तव्यम् ।
अत्राचार्यः सङ्घभद्र आह—“नैतद् युज्यते यदुक्तम् । एवं तु वक्तव्यं स्यात्—
ता एव प्रतिसन्धानस्येति । कस्मात् ? न हि यास्ताः सर्वपश्चाद्विहीनास्ता-
सामेव तन्निष्यन्दफलम् । याः प्रतिसन्दधानः सर्वप्रथमं प्रतिलभत इति पूर्वं-
निरुद्धास्यापि हि तत्प्रतिसन्तानस्य स निष्यन्दः” इति । अथ कथं फलग्रहणात्
कृत्स्न एव तत् सभागहेतुर्गृहीतः स्यादिति तदर्थमेवेदमूच्यते । तस्मात् यथा-
न्यास एव साध्विति ।
तदेवमुभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयानिति ? अत्रा-
भिधर्मपाठ एव श्रेयानिति पश्यामः ।
ननु चोक्तम्—अविशेषितत्वात् कुशलप्रतिसन्धानकाले प्रतिलब्धा वर्त्तमानाः
प्राप्तयः फलं ददति प्रतिगृह्णन्त्यपि । ननु ददत्येव न प्रतिगृह्णन्तीति दोष इति ?
नैष दोषः; कुशलमूलानि प्रतिसन्दधान इति कुशलमलप्राप्त्युत्पद्यमानावस्था-
यामेतदुच्यते; न वर्त्तमानावस्थायाम् । तत्र न काश्चिदपि कुशलमलप्राप्तयो
वर्त्तमाना भवन्ति । ताः कथं फलं प्रतिगृह्णन्ति ददति चेति शक्यते वक्तुम् ।
अतीतास्तु स्वसन्ताने कुशलमूलप्राप्तय. सर्वा अपि सभागहेतुभूताः स्वनिष्यन्द-
फलं तदानीं ददत्येव समनन्तरनिर्वर्त्तनन्यायेन, न प्रतिगृह्णन्ति पूर्वं प्रति-
गृहीतत्वात् । इत्यनया युक्त्याऽभिधर्मपाठमेव समर्थयामः ।
ननु चैवमविशेषिते पाठेऽनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचन-
प्रसङ्गः, ता अपि हि तदानीमतीतप्राप्तिवत् प्राप्यन्ते ? नैष दोषः; अनागतानां
सभागहेतुत्वाभावात्, सभागहेतोश्चेहाधिकृतत्वात् । एवमपि न प्राप्तय एव
वक्तव्याः, या एव सर्वप्रथमं प्रतिलभत इति । एवं तु वक्तव्यं स्यात्—यान्
१. का० पुस्तके नास्ति ।
निर्देशः ] द्वितीयं कोशस्थानम् ३३७
सर्वप्रथमं प्रतिलभत इति । यान् कुशलान् धर्मानित्यर्थः । चित्तचैत्ता अपि हि
कुशलप्रतिसन्धाने प्रथमतः प्रतिलभ्यन्ते, न केवलं तत्प्राप्तयः ? अस्त्येतत्;
किन्तु प्राचीनामेव कुशलप्रतिसन्धाने आवश्यकत्वादेवं वचनम् । कुशल-
प्राप्तयो हि सम्यग्दृष्ट्या विचिकित्सयापि वा कुशलप्रतिसन्धानेऽवश्यमुत्पद्यन्ते ।
चित्तचैत्तास्तु विचिकित्सया कुशलप्रतिसन्धाने न तावदुत्पद्यन्त इति प्राप्तय
एवोत्पद्यन्त इति वर्णयन्ति ।
अकुशलस्येति विस्तरः । अकुशलोऽपि समानोऽनुगन्तव्यः । —अस्त्य-
कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरेण। प्रथमा कोटिः—काम-
वैराग्यमनुप्राप्नुवन् या प्राप्तीः सर्वपश्चाद् विजहाति, ताः अकुशलः सभागहेतुः
फलं प्रतिगृह्णाति न ददाति । कथं कृत्वा ? इह क्लेशो नवप्रकारः, मार्गोऽपि
नवप्रकारः । तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते ।
यावदधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते । तत्प्राप्तयोऽपि तथैव प्रहीयन्ते ।
कामवैराग्यमनुप्राप्नुवन् या मृदुमृदूनामकुशलानां प्राप्तीः सर्वपश्चाद्विजहाति,
ताः अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति, अकुशलप्राप्तिक्षणान्तरा-
भावात् । द्वितीया—कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभतेऽकुशलानां
प्राप्तीः, ता अकुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति, पूर्ववद् वक्तव्यम् ।
अत्राचार्यो ब्रवीति—एवं तु वक्तव्यं स्यात् । ता एव परिहीयमाणस्येति । ता
एव याः कामवैराग्यमनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद् विजहातीति, ता हि प्रति-
गृहीतत्वान्न प्रतिगृह्णन्ति । ददत्येव तु केवलं फलम् । पूर्वपाठे तु द्वितीया कोटिर्न
सम्भवति, यथोक्तं प्राक् ।
अत्राचार्यसङ्घभद्रस्तथैव प्रत्याचष्टे—नैतद् युज्यत इति । पूर्वेण गमानेनेतत्
सर्वं प्रपञ्चयितव्यम् ।
तृतीया—कामावीतरागस्य शेषास्ववस्थास्विति । द्वे अवस्थे हित्वा । एते एव
यथोक्ते प्रथमद्वितीयावस्थे शेषास्ववस्थासु । यथास्माकम् । या अकुशलानां
प्राप्तयस्ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति ददाति च । चतुर्थी—एता-
नाकारान् यथोक्तान् स्थापयित्वा । तद्यथा कामवीतरागस्यापरिहाणधर्मणो या
अकुशलानां प्राप्तयः, सोऽकुशलः सभागहेतुर्न फलं प्रतिगृह्णाति, पूर्वं प्रतिगृही-
तत्वात् । न ददाति, तस्य प्राप्त्यभावात् ।
एवं निवृत्ताव्याकृतस्यापि इति विस्तरः । एवं निवृत्तानिवृत्तयोश्चतुः-
कोटकविधानम् । अर्हत्त्वप्राप्तितोऽर्हत्त्वपरिहाणितश्च यथायोगं योज्यम् । अस्ति
निवृत्ताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददाति इति विस्तरः । प्रथमा
कोटिः—अर्हत्त्वं प्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति, स निवृत्ताव्याकृतः
अभि० को० २२