अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 349, कुल 1258 में से
संदर्भ में पढ़ें३२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
मात्रेणावस्थितस्य किमाधिपत्यम् ? एतदेवाधिपत्यम्¹। अङ्गीभावोऽपि ²वास्ति
कारणहेतोः, तद्यथा—“पञ्चसु विज्ञानकायेषु दशानामायतनानां भाजनलोके च
कर्मणाम् । श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानस्योत्पत्तौ³ पारम्पर्येणाधिपत्यम्; श्रुत्वा
द्रष्टुकामतोत्पत्तेः” ( ) इत्येवमादि योज्यम् ।
सभागसर्वत्रगयोर्निष्यन्दः
रधिपः, तस्माज्जातमधिपजम्, अधिपतिफलमित्यर्थः । पूर्वस्याधिपतमिति
केचित् पठन्ति । अधिपतेरिदं फलमाधिपतमिति । आधिपत्यमिति तु प्राप्नोति;
“दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः” (पा० सू० ४.१.८५) इत्यपवादात् । अथा-
पवादविषयेऽप्युत्सर्गसनावेश इति भवेत्, भवेदेतद् रूपम् । एतदेवाधिपत्यमिति ।
यदनावरणभावमात्रावस्थानम् । अङ्गीभावोऽपि वास्तीति । प्रधानभावोऽपि,
जनकभावोऽपीत्यर्थः । तदनेन द्विविधस्यापि कारणहेतोः कारकस्य वा,
अध्युपेक्षकस्य वाधिपतिकलमस्तीति दर्शितं भवत्यन्यत्रासंस्कृतात् । यस्माद्
वक्ष्यति—“अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्” (अभि० को० २.५८)
इति । दशानामायतनानामिति । चक्षूरूपायतनयोर्यावत् कायस्प्रष्टव्यायतनयोः ।
‘चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत् कायं प्रतीत्य स्प्रष्टव्यानि
चोत्पद्यते कायविज्ञानम्’ इति वचनात् । कारणहेतुरेव चायम् । न हि चक्षु-
रादीन्यायतनानि चक्षुर्विज्ञानादीनां सहभूहेत्वादयः पञ्च हेतवः सम्भवन्ति, मन-
आयतनं तु मनोविज्ञानस्य सभागहेत्वादि सम्भवति । धर्मायतनमपि सहभू-
सम्प्रयुक्तकहेत्वादि सम्भवतीति न कारणहेतुरेवेत्यवधार्यते । तस्माद् दशाना-
मित्युकम्, न द्वादशानामिति । भाजनलोके च कर्मणाम् । किम् ? अङ्गीभावो-
ऽस्ति । कारणहेतोरित्यधिकृतम्, भाजनलोको हि कुशलाकुशलकर्मजनितोऽ
प्यव्याकृतोऽपि न विपाकफलमिष्यते, “सत्त्वाख्यो विपाकः” (अभि० को०
२.५७) इति लक्षणात् । तस्मात् कारणहेतोरेतदधिपतिकलम् ।
श्रोत्रादीनामपि । न केवलं चक्षुषोऽस्ति, किम् ? चक्षुर्विज्ञानस्योत्पत्तौ पारम्पर्ये-
णाधिपत्यम् न साक्षाद्, यथा चक्षुषः । कथं ज्ञायते ? इत्याह—श्रुत्वा द्रष्टुकाम-
तोत्पत्तेः । द्रष्टुकामतायां च चक्षुर्विज्ञानमुत्पद्यत इत्यभिप्रायः । एवमादि योज्य-
मिति । घ्रात्वा द्रष्टुकामतोत्पत्तेरित्यादि योज्यम् ।
“सभागसर्वत्रगयोर्निष्यन्दः” । फलमिति वर्तते । सभागसर्वत्रगहेत्वोरेव
निष्यन्दफलमित्यवधार्यते । पुरुषकारफलमपि हि तयोरनन्तरं सम्भवति ।
१. एतदेव—का० । २. चम्ति—का० । ३. ०विज्ञानोत्पत्तौ—का० ।