सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 347, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 347

३२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
भावान्तरत्वेऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाद् य निरोधः प्राप्यते स
तस्येति व्यपदिश्यते ।
तस्यैतर्हि १ प्राप्तिनियमे को हेतुः ? “दृष्टधर्मनिर्वाणप्राप्तो भिक्षुः” इत्युक्तं
सूत्रे । तत्र कथमभावस्य प्राप्तिः स्यात् ? प्रतिपक्षलाभेन क्लेशपुनर्भवो-
त्पादात्यन्तविरुद्धाश्रयलाभात् प्राप्तं निर्वाणमित्युच्यते ।
आगमश्चाप्यभावमात्रं द्योतयति । एवं ह्याह— “यत् खल्वस्य दुःखस्या-
शेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमोऽस्तङ्गमः
अन्यस्य च दुःखस्याप्रतिसन्धिरनुत्पादोऽप्रादुर्भावः । एतत् कान्तमेतत् प्रणीतं
यदुत सर्वोपाधिप्रतिनिःसर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाणम्” इति ।
किमेवं नेष्यते—नास्मिन् प्रादुर्भाव २ इत्यतोऽप्रादुर्भाव इति ? असमर्थामेतां
सप्तमीं पश्यामः । किमुक्तं भवति ? नास्मिन् प्रादुर्भवतीति यदि सतीत्यभिसम्बध्यते,
नित्यमेवाप्रादुर्भावप्रसङ्गः; निर्वाणस्य नित्यत्वात् ।
अथ प्राप्त इत्यभिसम्बध्यते; यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव
गृह्यन्ते । न हि वस्तुनो निरोधे हेतुः फलमवयवावयवीत्येवमादि ।'
तस्यैतर्हि प्राप्तिनियम इति । विस्तरः—तस्य निरोधस्य योऽयं प्राप्तिनियमः—
अस्यैव निरोधस्य प्राप्तिर्नान्यस्येति, तस्मिन् प्राप्तिनियमे को हेतुः ? न हि
निरोधस्य प्राप्त्या सार्धं कश्चित् सम्बन्धोऽस्ति; हेतुफलादिभावासम्भवात् ।
दृष्टधर्मनिर्वाणं प्राप्त इति । प्रत्यक्षे जन्मनि निर्वाणप्राप्तः सोपधिशेषनिर्वा-
णस्थ इत्यर्थः । यद्यभावः कथमस्य प्राप्तिः स्यात्, प्रतिपक्षलाभेनेति । विस्तरः—
आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोत्पादेऽत्यन्तविरुद्धस्याश्रयस्य लाभात् प्राप्तं
निर्वाणमित्युच्यते । अभावमात्रत्वमिति । मात्रशब्दो द्रव्यान्तरत्वनिवृत्त्यर्थः । यत्
खल्वस्येति । विस्तरः—प्रहाणं यावदप्रादुर्भाव
इत्येतत् स्फुटमित्युदाहरणमुक्तम् ।
नास्मिन् प्रादुर्भाव इत्यतोऽप्रादुर्भाव इत्यधिकरणसाधनमिति दर्शयन्ति, न तु
अप्रादुर्भूतिरप्रादुर्भाव इति भावसाधनमित्यर्थः । यत एव तत्प्राप्तिः परिकल्प्यते
१. तस्य तर्हि—का० ।
२-२. प्रादुर्भवतीत्यतो—का० ।