सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] द्वितीयं कोशस्थानम् २७५
कारणं सहभूश्चैव सभागः सम्प्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ ४९ ॥
उपांशौ, कदाचित् प्रामुख्य इति । तद् यथापि सूर्योपनिषदो देवा इति, उपांशु-
प्रयोग उपनिषत्प्रयोग इति । यदि प्रतिविशेषो नास्ति किमर्थं हेतूनां प्रत्ययानां
च पृथङ्निर्देशः ? अन्येनार्थविशेषेण हेतुनिर्देशोऽन्येन प्रत्ययनिर्देशः । हेतुनिर्देशे
ह्यविघ्नभावसहभूत्वसदृशत्वादिरर्थविशेष उक्तः । प्रत्ययनिर्देशे तु हेतुसमन्तर-
त्वादिभिरपरोऽर्थविशेष उक्त इति । अथ कतमस्मिन् सूत्रे षड् हेतवः उक्ताः ?
सर्वो ह्यभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानमिति । अन्तर्हितं तत् सूत्रमिति
वैभाषिकाः । तथा हि-एकोत्तरिकागम आ शताद्धर्मनिर्देश आसीत्, इदानीं त्वा
दशकाद् दृश्यन्त इति कथयन्ति ।
अपि तु सन्ति प्रतिनियतहेतुवाचकानि सूत्राणि तान्युदाहरिष्यामः ।
“चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्” इति कारणहेतुः । जनना-
विघ्नभावेन ह्येष व्यवस्थाप्यते ।
“इमानि त्रीणि मार्गाङ्गानि सम्यग्दृष्टिमनुपरिवर्त्तन्ते । तैः सह जाता वेदना
संज्ञा चेतना च” इति सहभूहेतुः । अन्योन्यानुपरिवर्त्तनैककृत्यार्थेन ह्येष
व्यवस्थाप्यते ।
“समन्वागमोऽयं पुद्गल कुशलैरपि धर्मैरकुशलैरपि यावदस्ति चास्याणुसह-
गतं कुशलमूलमसमुच्छिन्नं यतोऽस्य कुशलमूलादन्यद् कुशलमूलमुत्पत्स्यते ।
एवमयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यति” इति सभागहेतुः । एष ह्यतीत-
प्रत्युत्पन्नानां धर्माणां स्वफलनिर्वर्त्तनार्थेन व्यवस्थाप्यते ।
“इयमुच्यते दर्शनमूलिका श्रद्धा वेत्यज्ञानसम्प्रयुक्ता । यद्विजानाति तत्
प्रजानाति” इति सम्प्रयुक्तकहेतुः । एकालम्बनकृत्यार्थेन ह्येष व्यवस्थाप्यते ।
“मिथ्यादृष्टेः पुरुषपुद्गलस्य यच्च कायकर्म तद्दृष्टेर्यच्च वाक्कर्म या चेतना
यः प्रणिधिर्ये च संस्कारास्तदन्वयाः, सर्वेऽप्येते धर्मा अनिष्टत्वाय संवर्तन्तेऽ-
कान्तत्वायाप्रियत्वायामनआपत्वाय । तत् कस्य हेतोः ? दृष्टिर्ह्यस्य पापिका
यदुत मिथ्यादृष्टिः” इति सर्वत्रगहेतुः । एष हि सभागविसभागक्लिष्टधर्म-
प्रबन्धजनकार्थेन व्यवस्थाप्यते ।
'इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं
प्रतिसंवेदयन्ते । सञ्चेतनीयस्य कर्मणः कृतस्योपचितस्य विपाकः” इति विपाक-
हेतुः । एष हि विसदृशफलाक्षेपकत्वेन व्यवस्थाप्यते ।
इत्यत एते षड् हेतवः सूत्रत एव प्रसिद्धा इति “षड्विधो हेतुरिष्यते”
-वैभाषिकैरित्यभिप्रायः ॥ ४९ ॥

२८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
षडिमे हेतवः—कारणहेतुः, सहभूहेतुः, सभागहेतुः, सम्प्रयुक्तक-
हेतुः, सर्वत्रगहेतुः, विपाकहेतुरिति । तत्र—
स्वतोऽन्ये कारणं हेतुः
संस्कृतस्य हि धर्मस्य स्वभाववर्ज्याः सर्वधर्माः कारणहेतुः, उत्पादं¹ प्रति¹
अविघ्नभावावस्थानात् ।
ननु च येऽस्याजानत उदपत्स्यन्तास्रवा जानतोऽस्य ते नोत्पद्यन्त इति
ज्ञानमेषां विघ्नमुत्पत्तौ करोति, सूर्यप्रभा² चञ्च ज्योतिषां³ दर्शनस्येति कथं स्वभाव-
वर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति ?
उत्पद्यमानस्याविघ्नभावेनावस्थानादिति³ ज्ञातव्यम् ।
“स्वतोऽन्ये” इति । आत्मनोऽन्य इत्यर्थः । स्वात्मनि वृत्तिविरोधात् स्वात्मा
न हेतुः । सर्वधर्माः संस्कृतासंस्कृता कारणहेतुरिति । कारणमेव हेतुः कारणहेतुः ।
यो हेतुविशेषसंज्ञया नोच्यते, सामान्यं हेतुभावं परिगृह्योच्यते, स कारणहेतुः ।
अन्येषु हि विशेषसंज्ञानिरुक्तेषु हेतुषु यो न विशेषितः कारणं च । तस्य तदेव
विशेषणं भवति । यथा रूपायतनमुक्तमिति । उत्पादं प्रत्यविघ्नभावावस्थानादिति ।
यस्मादुत्पादं प्रत्युत्पत्तिमतां स्वतोऽन्ये धर्मा अविघ्नभावेनावतिष्ठन्ते, तस्मात्
कारणहेतुरित्युच्यते ।
ननु च येऽस्याजानत इति विस्तरः । ज्ञानञ्चेन्नोदपत्स्यत । उदपत्स्यन्तास्र-
वास्त इति । विस्तरो लृङोऽर्थः । तेनाह—अस्याजानत अनुत्पन्नदर्शनभावना-
मार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादयः सास्रवा उदपत्स्यन्त । जानत
उत्पन्नदर्शनभावनामार्गस्यास्य पुद्गलस्य तद्वध्यास्ते रागादयो नोत्पद्यन्ते ।
ततः किम् ? इत्याह—ज्ञानमेषां विघ्नमुत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतम् ।
सूर्यप्रभा च ज्योतिषां दर्शनस्य । विघ्नमुत्पत्तौ करोतीत्यधिकृतम् । एवं सति
कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति । यस्मादास्रवोत्पत्तौ न
ज्ञानं कारणहेतुः । ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा । एवं हि वक्तव्यं स्यात्—
आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः, ज्योतिर्दर्शनोत्पत्तौ च
स्वभावसूर्यप्रभावर्ज्याः सर्वधर्माः कारणहेतुरिति । उत्पद्यमानस्याविघ्नभावावस्था-
नादिति । समग्रेषु हेतुप्रत्ययेष्वनन्तरभावी धर्म उत्पद्यमान उच्यते । तस्योत्पद्य-
१-१. उत्पादं प्रत्य०—का० ।
२-२. सूर्यप्रभावज्ज्योतिषां—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २८१
भवेत् तावदुत्पत्तौ विघ्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम्। तद्यथा
अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः—‘स्वामिना स्मः
सुखिताः' इति।
यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुम्, तस्य कथं हेतुभावः, तद्यथा
निर्वाणस्यानुत्पत्तिधर्माणां¹ च सर्वोत्पत्तौ, नारकादीनां चारूप्यस्कन्धोत्पत्तौ² ?
असन्तोऽपि ह्येते तथैव विघ्नं कर्तुमसमर्थाः स्युः। असमर्थेऽपि हि भोजके
तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः।
मानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठन्ते, न सर्वस्येत्यवगन्तव्यम्।
ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवन्ति, प्राप्त्याद्यभावेन प्रत्यय-
सामग्र्यभावात्। ज्योतिर्दर्शनमपि प्रत्ययनैकल्यादेव नोत्पद्यमानमिति योज्यम्।
अतस्तदवस्थमिदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्तीति।
तद्यथाऽनुपद्रोतारं भोजकमिति विस्तरः। अनुपद्रवकरं ग्रामपतिमभिसन्धाय
मनुष्या ब्रूयुः—स्वामिना स्मः सुखिता इति। कस्मात् त एवं वक्तारो भवन्ति ?
यस्मादसावुपद्रवकरणे समर्थ उपद्रवं न करोति।
तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च। किम्? कथं हेतुभावः सर्वोत्पत्तौ।
नारकादीनाञ्च नारकतिर्यग्योन्यादिकानामारूप्यस्कन्धोत्पत्तौ कथं हेतुभावः।
नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेदुपदेशादिनेत्यभिप्रायः। असन्तोऽपि
ह्येवेति। असन्तोऽपि ह्येते निर्वाणदयस्तथैव, यथा सन्तो विद्यमाना विघ्नं
कर्तुमसमर्थाः स्युः। अतोऽसतां सतां चैषा निर्वाणादीनां विघ्नकरणे निर्विशिष्ट-
त्वम्। असत्तुल्यास्त इत्यर्थः। असमर्थेऽपीति। उपद्रवं कर्तुमसमर्थेऽपि भोजके
ग्रामीणास्तथा वक्तारो भवन्ति—‘स्वामिना स्मः सुखिताः' इति। स एवात्र दृष्टान्तो
यः प्राक्तनः। अतोऽनेनैव दृष्टान्तेन विघ्नयितुमसमर्थानामपि निर्वाणादीनाम-
विघ्नभावावस्थानात् कारणहेतुभावः सिद्धः। कस्मात् पुनरसत्तुल्यानां निर्वाण-
दीनां कारणहेतुत्वमिष्यते, न पुनरसतां शशविषाणादीनाम्? असद्दृष्टान्ता-
भावात्। न ह्यसन्तं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः—स्वामिना स्मः
सुखिता इति, न वा शशविषाणेन स्मः सुखिता इति। अचोद्यमेतत्। सामान्य-
नैव निर्देश इति। यश्च प्रधानः कारणहेतु, यश्चाप्रधानः सर्वमधिकृत्योक्तम्—
“स्वतोऽन्ये कारणं हेतुः” इति।
१. ॰धर्मकाणां—का० ।
२. सत्त्वस्कन्धो०—का० ।

२८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
यस्तु प्रधानः कारणहेतुः, स उत्पादनेऽपि समर्थः, यथा चक्षूरूपे
चक्षुर्विज्ञानस्य, आहारः शरीरस्य, बीजादयोऽङ्कुरादीनामिति ।
यस्त्वेवं चोदयति—अनावरणभावेन चेत् सर्वं धर्महेतवो भवन्ति, कस्मान्न
सर्वस्योत्पादो युगपद्भवति, प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति ?
तस्येदमचोद्यम्; यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते, न
कारकभावेनेति ।
सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे । तद्यथा—निर्वाणस्यापि
चक्षुर्विज्ञानम् ।
कथं कृत्वा ? तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशलम्; यतः
क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरम्परया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् ।
एवमन्यस्यापि प्रतिपत्तव्यम् । एषा हि दिक् ।
उक्तः कारणहेतुः ॥
यो हि प्रधानो जनकः स कारणहेतुः। स सुतरामविघ्नभावेनावतिष्ठते, न
केवलमितरः । आहारः शरीरस्योत्पादनेऽपि समर्थ इत्यधिकृतम्; “आहारस-
मुदयात् कायसमुदयः" इति वचनात् । रसादिपरिणामयोगात् । बीजादयोऽङ्-
कुरादीनामिति । बीजाङ्कुरनालगण्डप्रसवादीनामुत्पादने समर्था इत्येवम् ।
यस्त्वेवं चोदयतीति । विस्तारः—कारणे सति कार्येण भवितव्यमिति मत्वा
चोदयति—कस्मान्न सर्वस्योत्पादो युगपद् भवति । यथा च प्राणातिपातकारकः
प्राणातिपातभाग् भवति, तथा सर्वेऽपि कस्मान्न तद्भाजो भवन्तीति । न
कारकभावेनेति । न मुख्यवृत्त्यास्य कारणत्वमिति दर्शयति । तेन सर्वस्य तावद्
युगपदुत्पादो न प्राप्नोति; प्रत्ययसामग्र्यभावेनानुत्पद्यमानत्वात् । प्राणातिपात-
भागश्च न भवति; अकारकत्वात् । यस्तु कारकः स प्राणातिपातभागेव भवति ।
मनोविज्ञानमुत्पद्यते कुशलाकुशलमिति । कुशलं मनोविज्ञानमिति निर्वाणा-
लम्बनत्वात् । निर्वाणालम्बनात् कुशलादकुशलाद्वा मनोविज्ञानमुत्पद्यते ।
ततश्चक्षुर्विज्ञानमिति । एवं परम्परया तस्यापि निर्वाणस्य प्रत्ययीभावादस्ति
सामर्थ्यम् । क्व ? चक्षुर्विज्ञान इत्यधिकृतम् । एवमन्यस्यापि प्रतिपत्तव्यमिति ।
नारकादीनामप्यारूप्यस्कन्धोत्पत्तौ सामर्थ्यम् । कथम् ? अमी बत नारक-
प्रेतादयः परमदुःखिता इति नारकाद्यालम्बनं मनोविज्ञानं कुशलमुत्पद्यते,
यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगादारूप्यसमापत्तिः, उपपत्ति-
श्चोपपद्यत इति ।

निर्देशः ] द्वितीयं कोशस्थानम् २८३
सहभूर्ये मिथःफलाः ।
मिथः पारम्पर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथाकथम् ।
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ ५० ॥
चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः । चित्तं चित्तानुवर्तिनां धर्माणां,
तेऽपि तस्य । संस्कृतलक्षणानि लक्ष्यस्य, सोऽपि तेषाम् ।
एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् । विनापि चान्योन्य-
फलत्वेन धर्मोऽनुलक्षणानां सहभूहेतुः, न तानि तस्येत्युपसंख्यातव्यम् ॥ ५० ॥
के पुनरेते चित्तानुवर्त्तिनो धर्माः ?
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
चित्तानुवर्त्तिनः
सर्वे चित्तसम्प्रयुक्ताः, ध्यानसंवरः, अनास्रवसंवरः, तेषां च ये जात्या-
दयः, चित्तस्य च । एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते ।

  • कथमेते चित्तमनुपरिवर्त्तन्ते ? समासतः
    “सहभूर्ये मिथफलाः” इति । हेतुरिति वर्त्तते । सहभूहेतुस्ते धर्मा भवन्ति
    ये धर्माः मिथःफलाः, ये परस्परफला इत्यर्थः । सहभूहेतुः सहभुव इति नोक्तम् ।
    कस्मात् ? सन्ति हि धर्माः केचित् सहभुवो न तु सहभूहेतुः, तद्यथा—नीला-
    द्युपादायरूपं भूतैः सहभूर्भवति, न चान्योन्यं सहभूहेतुः । अतो मिथःफला
    इत्यर्थपरिग्रहः । इदञ्च सावशेषं लक्षणम्, अतो वक्ष्यति—विनापि चान्यो-
    न्यफलत्वेच धर्मोऽनुलक्षणानां सहभूहेतुः, न तानि तस्येत्युपसंख्यातव्यमिति ।
    उपसंख्यानकरणञ्च महाशास्त्रताप्रदर्शनार्थम् । सोपसंख्यानं हि व्याकरणादि
    महाशास्त्रं दृश्यते ।
    “भूतवत्” इति । तद् यथार्थे वतिप्रत्ययः । एवञ्च कृत्वा सर्वमेव संस्कृतं
    सहभूहेतुर्यथायोगमिति । यस्मात् संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः, सोऽपि
    तेषाम्, अतः यथायोगं यथासम्भवं सर्वं संस्कृतं सहभूहेतुः, संस्कृतस्य लक्षण-
    वत्त्वात्, लक्ष्यलक्ष्योश्च सहभूहेतुत्वात् । न तु सर्वं सर्वस्य; अपरलक्षणेर-
    सहभूहेतुत्वादिति यथायोगग्रहणम् ॥ ५० ॥
    तेषाञ्च ये जात्यादयश्चित्तस्य चेति । तेषाञ्च चित्तसम्प्रयुक्तानां चेतनादीनां
    ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश्चत्वारो धर्माश्चित्तानुपरिवर्तिन
    उच्यन्ते ।

२८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रियं-
कालफलादिशुभतादिभिः ॥ ५१ ॥
कालस्तावच्चित्तेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन चतुर्थेन¹।
फलादिभिरेकफलविपाकनिःष्यन्दतया । पूर्वकस्त्वेकशब्दः सहार्थे
वेदितव्यः ।
शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया ।
एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते ।
“कालफलादिशुभतादिभिः” इति। कालेन च फलादिभिश्च शुभतादिभि-
श्वेति कालफलादिशुभतादिभिः ।
कालस्तावदिति । विस्तरः—चित्तेन सहैते एकोत्पादा एकस्थितय एकनिरो-
धाश्च, तद्भावः, तया एकोत्पादस्थितिनिरोधतयेति । एकमध्वानं पतिताः एकाध्व-
पतिताः, तद्भावः, तेन एकाध्वपतितत्वेन चतुर्थेनेति । कालतश्चित्तमनुपरिवर्त्तन्ते ।
एकफलतयैकविपाकतयैकनिष्यन्दतया च चित्तमनुपरिवर्त्तन्ते । फलमिह पुरुष-
कारफलं विसंयोगफलं च, विपाकफलनिष्यन्दयोः पृथग् गृहीतत्वात् । अधि-
पतिफलं तु सर्वसाधारणत्वान्न गण्यते । अयं चैकशब्दः संख्याने साधारणे वा
एकफलतयेत्यादि । पूर्वकस्त्वेकशब्दः सहार्थे । चित्तेन सहोत्पादस्थितिनिरोध-
तयेत्यर्थः । न ह्यत्र संख्यानार्थः सम्भवति । न हि यश्चित्तस्योत्पादः स एव
चित्तानुपरिवर्त्तिनाम्, यो वा तेषां स चित्तस्येति ।
एवं दशभि कारणैरिति । कालतश्चतुर्भिरेकोत्पादतयैकस्थितितयैकनिरोध-
तयैकाध्वपतितत्वेन चेति । ननु चैकोत्पादस्थितिनिरोधतयेत्येतेनैवैकाध्वपति-
तत्वमुक्तम् ? न सर्वमुक्तम् । अनुत्पत्तिधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन
एकाध्वपतिता भवन्ति, नैकोत्पादस्थितिनिरोधा इति । तस्मादेकाध्वपतितत्वं
चतुर्थं कारणमुच्यते । एकफलविपाकनिष्यन्दतयेति त्रिभिः ।
कुशलाकुशलाव्याकृततया चेति पुनस्त्रिभिरिति दशभिः । पर्यायवृत्ति जाति
वा प्रत्येवमुक्तम्—दशभिरिति । न ह्येकत्र चित्ते दश कारणानि भवन्ति ।
न हि कुशले चेतस्यकुशलाव्याकृते कारणे भवतः, न चाकुशलाव्याकृते चित्ते
अनुत्पत्तिधर्मिणि । एकविपाकनिष्यन्दतयैकफलनिष्यन्दताभ्यामनाव्याकृतत्वेन चेति
चतुर्भिः । उत्पत्तिधर्मिणि त्वेभिरेव चतुर्भिरेकोत्पादस्थितिनिरोधताभिश्चेति
सप्तभिः । अनास्रवेऽप्येवम् । अव्याकृततां तु केवलमपनीय कुशलता प्रक्षेप्सव्या ।
अकुशले तु कुशलसास्रवे चानुत्पत्तिधर्मिण्यकुशलतया कुशलतया च यथावस्त्वे-
१. च—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २८५
तत्र सर्वाल्पं¹ चित्तमष्टपञ्चाशतो¹ धर्माणां सहभूहेतुः । दशानां महा-
भूमिकांनां चत्वारिंशत्तल्लक्षणानाम्, अष्टानां च स्वलक्षणानुलक्षणानाम् ।
तस्य पुनश्चतुःपञ्चाशद् धर्माः सहभूहेतुः, स्वान्यनुलक्षणानि स्थापयित्वा ।
चतुर्दशेत्यपरे । दश महाभूमिकाः स्वान्येव च लक्षणानीति ।
तदेतन्न वर्णयन्ति । प्रकरणग्रन्थो ह्येवं विरुध्येत—“स्याद् दुःखसत्यं
काध्वपतितत्वेनैकफलविपाकनिष्यन्दताभिश्चेति पञ्चभिः । उत्पत्तिधर्मिणि तु
तस्मिन्नेभिरेव पञ्चभिरेकोत्पादस्थितिनिरोधताभिश्चेत्यष्टाभिः ।
सर्वाल्पं चित्तमिति । सर्वेभ्यो यदल्पपरिवारं चित्तं तत् सर्वाल्पमित्युच्यते ।
तत् पुनः कतमत् ? द्वितीयध्यानात् प्रभृत्यूर्ध्वमनिवृत्ताव्याकृतं चित्तम् । तत्र
वितर्कविचारौ न स्तः। न चापि कुशलादिमहाभूमिकाः, केवलमहाभूमिका एव
दश भवन्ति । तल्लक्षणानामिति । दशमहाभूमिकलक्षणानाम् । न तदनुलक्षणा-
नाम्, विप्रकृष्टत्वात् । स्वानुलक्षणानां तु भवति, संनिकृष्टत्वात् । आह-अष्टानां
च स्वलक्षणानुलक्षणानामिति । स्वान्यनुलक्षणानि स्थापयित्वेति । लक्षणेष्वनु-
लक्षणानां व्यापारः, न विशिष्टे च चित्ते । न्यूनानि तानि । राजायते हि चित्तं
लक्षणानुलक्षणानाम् । अतश्चित्तमनुलक्षणानां सहभूहेतुः, न तु तानि चित्तस्य ।
लक्षणानां तु चित्तेऽस्ति व्यापार इति तानि चित्तस्य सहभूहेतुर्भवन्ति ।
चतुर्दशेत्यपर इति । यथानुलक्षणानां नास्ति धर्मे व्यापारः, किं र्तहि ?
धर्मस्य लक्षणेषु, अतो न तेषां हेतुभावो धर्म इष्यते । तथा संप्रयुक्तेष्वेव
तल्लक्षणानां व्यापारो न चित्त इति न तानि चित्तस्य सहभूहेतुः । चित्तं तु
तेषां राजकल्पमिति सहभूहेतुर्भवतीत्यपरेषामभिप्रायः । प्रकरणग्रन्थो ह्येवं
विरुध्येत, दशानां महाभूमिकाना यानि चत्वारिंशल्लक्षणानि, तानि यदि
चित्तस्य सहभूहेतुर्नेष्येरन् । यस्मात् प्रकरणेऽप्युक्तम्-“चत्वार्यार्यसत्यानि दुःखसत्यं
यावन्मार्गसत्यम् । एषां कति सत्कायदृष्टिहेतुकानि न सत्कायदृष्टिहेतुः, कति
सत्कायदृष्टिहेतुर्न सत्कायदृष्टिहेतुकानि, कति सत्कायदृष्टिहेतुकानि न सत्काय-
दृष्टेश्च हेतुः, कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टिहेतुः ?--
इति प्रश्ने कृते विसर्जनं करोति-द्वे नैव सत्कायदृष्टिहेतुके न सत्काय-
दृष्टिहेतुः, निरोधसत्यं मार्गसत्यं च । द्वयोर्भेदः ।
कथमिति ? दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टिहेतुः, स्यात्
१-१. सर्वल्प०-का० ।

२८६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सत्कायदृष्टिहेतुकम्, न सत्कायदृष्टिहेतुः । सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां
जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं सत्काय-
दृष्टिहेतुकम्१, सत्कायदृष्टेश्च हेतुः, यदेतत् स्थापितम्" ( ) इति ।
सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः। स्यान्नैव सत्कायदृष्टिहेतुकं न सत्काय
दृष्टेर्हेतुरिति त्रिकोटिकम् । द्वितीया कोटिर्नास्ति । तत्र सत्कायदृष्टिहेतुकं
न सत्कायदृष्टेर्हेतुः, अतीतप्रत्युत्पन्नान् दुःखदर्शनप्रहातव्याननुशयांस्तत्सम्प्रयुक्तं
च दुःखसत्यं स्थापयित्वा। अतीतप्रत्युत्पन्नान् समुदयदर्शनप्रहातव्यान् सर्वत्र-
गाननुशयान् तत्सम्प्रयुक्तं च दुःखसत्यं स्थापयित्वा । अनागतं च सत्कायदृष्टि-
सम्प्रयुक्तं दुःखसत्यं स्थापयित्वा ।
सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थाप-
यित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुर्यदेतत्
स्थापितमिति । नैव सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरक्लिष्टं दुःखमत्यम् ।
यथा दुःखसत्यम्, एवं समुदयसत्यम्" इति प्रकरणग्रन्थः । तस्यार्थं विवृण्महे—ये
अतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयाः सत्कायदृष्ट्यादयः, ते स्था-
पिताः । तैर्दशभिरनुशयैः सम्प्रयुक्तं दुःखसत्यं वेदनादिकं स्थापितम् । किमत्रा-
स्थापितम् ? एत एवानागता दशानुशयास्तत्सम्प्रयुक्तं च वेदनादिकं दुःखसत्यं
वर्जयित्वानागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यम्। तद्धि स्थापयिष्यते, "अनागतं
च सत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वा" इति वचनात् । तत्प्राप्ति-
जात्यादयश्चास्थापिता वर्जयित्वा सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां जात्या-
दीन् । ते हि स्थापयिष्यन्ते, "सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां जातिं
जरां स्थितिमनित्यतां च स्थापयित्वा" इति वचनात् । तदेवं तावदनागतोऽनुश-
यस्तत्सम्प्रयुक्तं च स्थापितादन्यत् । तदन्यत् क्लिष्टमित्युच्यते सत्कायदृष्टिहेतु-
कम् । सत्कायदृष्टिहेतुरस्येति सत्कायदृष्टिहेतुकम् । सभागहेतुना सर्वत्रगहेतुना
चातीतप्रत्युत्पन्नसत्कायदृष्टिहेतुकत्वात्, न तु सत्कायदृष्टेर्हेतुः। न ह्यनागतो
धर्मः सभागहेतुः सर्वत्रगहेतुर्वा व्यवस्थाप्यते । न च सहभूहेतुः सम्प्रयुक्तक-
हेतुर्वात्र सम्भवति । न हि सत्कायदृष्टिः सत्कायदृष्ट्या सह भवति सम्प्रयुज्यते
वा; एकस्मिन् कलापे द्वितीयसत्कायदृष्ट्यभावात् । न चाप्यन्तग्राहदृष्ट्या-
दिभिः सह भवति सम्प्रयुज्यते वा; पृथक्कलापत्वात् । विप्रयुक्तास्तेषामतीतप्रत्यु-
त्पन्नानां दुःखदर्शनहेयानां प्राप्तयो जात्यादयश्चास्थापिताः । ते स्थापितकादन्ये
क्लिष्टाश्च । तेऽपि सर्वत्रगहेतुना पूर्वोत्पन्नसत्कायदृष्टिहेतुकाः, न तु ते सत्काय-
१. ॰हेतुकं न सत्कायदृष्टेर्हेतुः—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २८७
दृष्टेर्हेतुः । कस्मात् ? प्राप्तयस्तावद् वृक्षप्रपाटिकावत् स्वसर्वत्रगेभ्यो बहिरव-
स्थितत्वान्न सर्वत्रगा व्यवस्थाप्यन्ते । सर्वत्रगत्वाभावाच्च न सत्कायदृष्टेः सर्वत्र-
गहेतुः । सर्वत्रगजात्यादयोऽपि यद्यपि सर्वत्रगाः इष्टाः; “प्राप्तिवर्ज्याः सहभुवो
येऽप्येभिस्तेऽपि सर्वगाः” (अभि० को० ५.१३) इति सिद्धान्तवचनात् ।
न तु ते चित्तचैत्तवत् पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः, स्वलक्ष्यव्यापार-
परत्वेनाप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगत्वे सति पुरुषकाराभावात् ।
सर्वत्रगव्यवस्थापनं तु तेषां जात्यादीनां स्वसन्तानसर्वत्रगहेतुत्वात् । तस्मान्न ते
सत्कायदृष्टेर्हेतुरिति शास्त्रार्थतो लक्ष्यते ।
सभागहेतुस्तर्हि कस्मान्न भवति ? सभागहेतुव्यवस्था हि पुरुषकारापेक्षयापि ।
यस्य हि धर्मस्य जनने यः पुरुषकारवान् धर्मः स तस्य सभागहेतुः । इदमेव च
ज्ञापकम्—यथेष्टं सभागहेतुव्यवस्थेति

२८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
ये तर्हि “तत्सम्प्रयुक्तानाम्१” इत्येतन्न पठन्ति, तैरप्येतत् पठितव्यम्—
अर्थतो वैवं बोद्धव्यमिति काश्मीराः ।
क्लिष्टा अनुशयतत्सम्प्रयुक्ततत्समुत्थजात्यादिस्वभावा अस्थापिताः । ते सर्वत्र-
गहेतुना सत्कायदृष्टिहेतुकाः, न तु ते सत्कायदृष्टेर्हेतुः, सर्वत्रगहेतुत्वासम्भ-
वादितरहेत्वयोगाच्च । सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुर्यदेतत् स्थापितमिति ।
ये अतीप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयास्तत्सम्प्रयुक्तं च दुःखसत्यं यच्च
एकान्तरे जात्यादिकं तत् सभागहेतुना सर्वत्रगहेतुना च पूर्वसत्कायदृष्टिहेतुकम् ।
ये च सत्कायदृष्टिजात्यादयस्तत्सम्प्रयुक्तजात्यादयश्च ते सहभूहेतुना पूर्वोक्ताभ्यां
च हेतुभ्यां तद्धेतुकाः । ये पुनः सत्कायदृष्टिसम्प्रयुक्तास्ते सम्प्रयुक्तहेतुना च
पूर्वोक्तैश्च हेतुभिस्तद्धेतुकाः । सत्कायदृष्टेश्च ते तथैव हेतुः । येऽप्यतीतप्रत्युत्पन्नाः
समुदयदर्शनप्रहातव्याः सर्वत्रगास्तत्सहभुवश्च वेदनादयो जात्यादयश्च पक्षान्तरे,
ते सर्वत्रगहेतुनैव सत्कायदृष्टिहेतुकाः, सत्कायदृष्टेश्च हेतुः । पूर्वोत्पन्ना हि सत्काय-
दृष्टिस्तेषां हेतुः, ते च पूर्वोत्पन्ना सत्कायदृष्टेरिति । असंक्लिष्टं तु दुःखसत्यं
कुशलमनिवृताव्याकृतं न न सत्कायदृष्टिहेतुकं न च सत्कायदृष्टेर्हेतुः, पञ्च-
विधहेतुत्वासम्भवात् । जनको ह्यत्र हेतुरधिक्रियते, न कारणहेतुः, साधारण-
त्वात् । विपाकहेतोश्चेहायोंगः, सत्कायदृष्टेर्निवृताव्याकृतत्वेनाविपाकत्वात् ।
तत्र यदेतदुक्तम्- ‘सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां जातिं जरां स्थिति-
मनित्यतां च स्थापयित्वा' इति, तद्विरुध्येत; यदि हि सत्कायदृष्टिसम्प्रयुक्तधर्म-
जात्यादयो न सहभूहेतुर्भवेयुः, न ते स्थाप्येरन् । ये हि स्थापितास्ते सत्काय-
दृष्टिहेतुकाः, सत्कायदृष्टेश्च हेतुरिति ।
ये तर्हि तत्सम्प्रयुक्तानामित्येतन्न पठन्ति । तेषां कथं प्रकरणग्रन्थो विरुध्येते-
त्यध्याहार्यम् । ते हि सत्कायदृष्टेर्जातिं जरां स्थितिमनित्यतां च स्थाप

निर्देशः ] द्वितीयं कोशस्थानम् २८९
यत्तावत् सहभूहेतुना हेतुः, सहभवपि तत् । स्यात्तु सहभूर्न सहभूहेतुना
हेतुः धर्मस्यानुलक्षणानि, तानि चान्योन्यम् । चित्तानुपरिवर्त्त्यनुलक्षणानि¹
चैवं² चित्तस्य, तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित्
सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुः; अनेकफल-
विपाकनिष्यन्दत्वात् । न चैत्ताः³ सहचरिष्णवः; पूर्वमप्युत्पत्तेः पश्चादपीति ।
सर्वमप्येतत् स्यात्; किन्तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न
सहभवपि तदिति । चैत्तादि । चित्तस्य हि चैत्तास्तानि च लक्षणानि
सहभूहेतुः सहभूनि च तानि भवन्ति । धर्मस्यानुलक्षणानीति । विस्तरः-धर्मस्य
जातिजात्यादीनि सहभूनि, न सहभूहेतुना हेतुः; विप्रकृष्टत्वात् । जात्यादिषु
हितेषां व्यापारो न धर्मे । तानि चान्योन्यम् । तानि चानुलक्षणान्यन्योन्यं सह-
भूनि; जात्यादिषु व्यापारात् । न सहभूहेतुना हेतुः । धर्मस्तु तेषां सहभूहेतु-
र्भवति, प्राधान्यात् । स हि राजेव यात्रायां सभृत्यस्तद्भृत्यवर्गं सर्वं स्वकलाप-
माकर्षन्निव प्रवर्त्तते । चित्तानुपरिवर्त्त्यनुलक्षणानि चेति । चित्तानुपरिवर्त्तिनां
चैत्तध्यानास्रवसंवरणानाम् अनुलक्षणानि च तथैव चित्तस्य सहभूनि, न तु
सहभूहेतुना हेतुः । एवशब्दोऽर्थप्रदर्शनार्थः । तानि चान्योन्यमनुपरिवर्त्त्यनु-
लक्षणानि सहभूनि, न तु सहभूहेतुना हेतुः । सप्रतिघं चोपादायरूपमन्योन्य-
मष्टद्रव्यकादिषु परमाणुषु रूपशब्दगन्धरसस्प्रष्टव्यात्मकं सहभू, न तु सहभू-
हेतुना हेतुः । सप्रतिघग्रहणमप्रतिघनिरासार्थम् । अप्रतिघं हि ध्यानानास्रवं
संवररूपं सप्तविधाविज्ञप्तिस्वभावं परस्परं सहभूः, सहभूहेतुना च हेतुरिति ।
सर्वं च भूतैरिति । सप्रतिघं चाप्रतिघं चोपादायरूपं यथास्वभूतैः सहभूः, न तु
सहभूहेतुना हेतुः । प्राप्तयश्च सहजाः प्राप्तिमतो धर्मस्य सहोत्पादेऽपि न सहभूहेतुः ।
पूर्वपश्चात्कालजात् प्राप्तीनाम् । असहभूतत्वादेव सहभूहेतुत्वाप्रसङ्ग इति । सहज
इति विशेषणम् । कस्माद् ? इत्याह-अनेकफलविपाकनिष्यन्दत्वादिति । यस्मातासां
प्राप्तिमता सह नैकं फलं पुरुषकारफलं वृक्षप्रपाटिकावत् पृथक्स्रोतस्त्वात् ।
नाप्येकं विपाकफलम्, “नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च” ( अभि०
को० ४.६६ ) इति वचनात् । न चाप्येकनिष्यन्दफलम्; प्राप्तीनां हि प्रायश
एव निष्यन्दफलं पृथक्सन्तानत्वात् । चित्तानुपरिवर्तिनामेवैकं फलं विपाक-
निष्यन्दफलं चेष्यते, न प्राप्तीनाम् । न चैत्ताः सहचरिष्णवः सहचरणशीलाः ।
सर्वमप्येतत् स्यादिति । यत्तावत् सहभूहेतुना हेतुरिति विस्तरेण यदुक्तम् ।
१. चित्तानुपरि०-का० । २. चैवं-का० । ३. चैताः-का० ।
अभि० को० १९

२९० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
न दृष्ट इति वक्तव्यमेतत्—कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति ?
तद्यथा प्रदीपप्रभयोरङ्कुरच्छायायोश्च ।
सम्प्रधार्यं तावदेतत्—किं प्रभायाः प्रदीपो हेतुः, आहोस्विद् पूर्वोत्पन्नैव
सामग्री सप्रभस्य प्रदीपस्य सच्छायास्याङ्कुरस्योत्पत्तौ हेतुरिति ?
इतस्तर्हि भावाभावयोस्तद्वत्त्वात् । एतद्धि हेतुहेतुमतो लक्षणमाचक्षते
हैतुकाः—यस्य भावाभावयोः यस्य भावाभावौ नियमतः, स हेतुः, इतरो हेतु-
मानिति । सहभुवां च धर्माणा मेकस्य भावे सर्वेषां भावः, एकस्याभावे सर्वेषाम-
भाव इति युक्तो हेतुफलभावः ।
स्यात्तावत् सहोत्पन्नानाम्, परस्परं तु कथम् ? अत एव कारणात्¹ ।
बीजादीनामिति । आदिशब्देनाङ्कुरनालकाण्डादीनां ग्रहणम् । एष न्यायो न दृष्टः
इति । सहोत्पन्नयोर्हेतुफलभावलक्षणो न्यायो न दृष्टः। पूर्वं हि बीजं पश्चादङ्कुरः,
पूर्वमभिघातः पश्चाच्छब्द इति ।
तद्यथा प्रदीपप्रभयोरङ्कुरच्छायायोश्च । किम् ? हेतुफलभाव इति वर्तते । प्रदीपः
सप्रभ एवोत्पद्यते, न निष्प्रभः। अंकुरस्यातपे उत्पद्यमानस्यैव छाया भवति ।
अथ च प्रदीपः प्रभायाः सहोत्पन्नाया हेतुर्भवति, छायायाश्चाङ्कुरः, तद्वत् ।
सम्प्रधार्यं तावदिति । विस्तरः—असिद्धो दृष्टान्त इति परस्याभिप्रायः। यस्मात्
पूर्वोत्पन्नैव वर्तिस्नेहादिका सामग्री सप्रभस्य प्रदीपस्योत्पत्तौ हेतुः। प्रदीपस्य
प्रभायाश्च नैव सामग्री हेतुः, न तु प्रदीपः प्रभाया हेतुरिष्यते। एवं सच्छायास्या-
ङ्कुरस्योत्पत्तौ पूर्वोत्पन्नैव सामग्री बीजातपादिका वाच्या ।
नियमत इति। यस्य धर्मस्य भावे यस्य धर्मस्य भावो नियमेन न यदृच्छया,
स हेतुः, इतरो हेतुमान् । कार्यधर्म इत्यर्थः । सहभुवां च धर्माणां, तद्यथा
भूतानां चतुर्णां चित्तचैत्तानुपरिवर्तिनां लक्ष्यलक्षणानां च । एकस्य भावे सर्वेषां
भाव एकस्य चाभावे सर्वेषामभाव इति युक्तो हेतुफलभावः ।
स्यात्तावत् सहोत्पन्नानामिति विस्तरः । सहोत्पन्नानां हेतुफलभाव इष्यते ।
तद्यथा—चक्षुः सहोत्पन्नमपि चक्षुर्विज्ञानेन तदुत्पत्तौ हेतुर्भवति । परस्परं तु
कथम् ? न हि चक्षुर्विज्ञानं तस्य चक्षुषो हेतुर्भवतीति आह—अत एव कारणाद् ।
भावाभावयोस्तद्वत्त्वादित्यर्थः। चैत्तादीनां भावे चित्तस्य भावादभावे चाभा-
१. एवाह—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २९१
एवं तद्विनाभाविनो¹ऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं
चित्तानुलक्षणादीनां च चित्तादिभिः ?
त्रिदण्डान्योन्यबलावस्थानवत् तर्हि सहभुवां हेतुफलभावः सिध्यति ।
मीमांस्यं तावदेतत्—किमेषां सहोत्पन्नबलेनावस्थानम्, आहोस्वित् पूर्व-
सामग्रीवशात् तथैवोत्पाद इति ? अन्यदपि च तत्र किञ्चिद्भवति—सूत्रकम्,
शङ्कुको वा, पृथिवी वा धारिका । एषामपि नामान्येऽपि सभागहेतुत्वादयो
भवन्तीति सिद्धः सहभूहेतुः ॥ ५१ ॥
सभागहेतुः कतमः ?
सभागहेतुः सदृशः
वात् चित्तस्य हेतवो भवन्तीति । एवं तर्हीति । विस्तरः—यद्येकस्य भावे सर्वेष
भावः, सर्वेषां चाभाव एकस्येत्यतोऽन्योन्यं हेतुफलभावः ? “कामेऽष्टद्रव्यकः”
(अभि० को० २.२२) इत्यविनाभाविनोऽपि रूपरसगन्धस्प्रष्टव्यस्वभावस्योपा-
दाय़रूपस्यान्योन्यमेष प्रसङ्गः । अन्योन्यसहभूहेतुप्रसङ्ग इत्यर्थः । भूतैश्च सार्धमुपा-
दाय़रूपस्य सहभूहेतुत्वप्रसङ्गः । चित्तानुलक्षणादीनां चेति । आदिशब्देन चित्तानु-
परिवर्त्यनुलक्षणानां च । चित्तादिभिरिति । अत्राप्यादिशब्देन चित्तानुपरिवर्त्ति-
भिश्चान्योन्यहेतुप्रसङ्गः । तेनैव चादिशब्देन प्राप्तिभिः सहजाभिः प्राप्तिमतामेष
प्रसङ्ग इति वक्तव्यम् ।
त्रिदण्डान्योन्यबलावस्थानवदिति । अन्योन्यबलेनावस्थानमन्योन्यबलाव-
स्थानम्, त्रिदण्डस्यान्योन्यबलावस्थानं त्रिदण्डान्योन्यबलावस्थानम्, तद्वत्
त्रिदण्डान्योन्यबलावस्थानवत् । यथा त्रिदण्डस्य दण्डत्रयस्यान्योन्यबलेनाव-
स्थानम्, एवं सहभुवां चित्तचैत्तादीनां हेतुफलभावः सिध्यति ।
मीमांस्यं तावदेतदिति । विस्तरः—परीक्ष्यमेतत्, न सिद्धोऽयं दृष्टान्त इत्य-
भिप्रायः । सहोत्पन्नास्त्रयो दण्डास्तेषां बलम्, तेन सहोत्पन्नबलेन किमेषां दण्डा-
नामवस्थानम्, आहोस्वित् पूर्वसामग्रीवशात् तथोत्पादः । आहोस्विद् यथैवैषाम-
वस्थितः पूर्वभूतभौतिकसमुदायलक्षणसामग्रीवशात् सहभावस्तथैव पश्चादपि
परस्पराश्रितानामुत्पाद इति । अन्यदपि च तत्र किञ्चिद् भवति । नान्योन्यबल-
मेवेति दर्शयति । किं तद् ? इत्याह—सूत्रकं दण्डत्रयं निवेशितम्, शङ्कुको वा
कोलको वेत्यर्थः । पृथिवी वा धारिका अधस्तात् । एषामपि नामेति । एषामपि
सहभुवामन्येऽपि सभागसर्वत्रविपाककारणा हेतवः सूत्रकादिस्थानीया भवन्तीति
सिद्धः सहभूहेतुः ॥ ५१ ॥
१. ०विनिर्भाविणो—का० ।

२९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सदृशा धर्माः सदृशानां धर्माणां सभागहेतुः, तद्यथा—कुशलाः पञ्च
स्कन्धाः कुशलानामन्योन्यं क्लिष्टाः क्लिष्टानाम्, अव्याकृताः अव्याकृतानाम्,
रूपमव्याकृतं पञ्चानाम्।
चत्वारस्तु न रूपस्येत्यपरे, न्यूनत्वात्।
कललं कललादीनां दशानामवस्थानाम्, अर्बुदादयोऽर्बुदादीनामेकैकापहा-
सेनैकस्मिन् निकायभागे ।
अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम्।
बाह्येष्वपि यवो यवस्य, शालिः शालेरिति विस्तरेण योज्यम्।
क्लिष्टाः क्लिष्टानामिति । क्लिष्टाः, अकुशलाः, निवृत्ताव्याकृताश्च ।
क्लिष्टत्वसामान्येन सभागहेतुत्वमेषाम्। तेनाकुशला अकुशलानां सभागहेतुः,
निवृत्ताव्याकृता निवृत्ताव्याकृतानाम् । अकुशला निवृत्ताव्याकृतानाम् ।
निवृत्ताव्याकृताश्चाकुशलानां सभागहेतुरिति दर्शितं भवति । अव्याकृता अव्या-
कृतानामिति । अनिवृत्ताव्याकृता अनिवृत्ताव्याकृतानामित्यर्थः ।
रूपमव्याकृतमव्याकृतो रूपस्कन्धः, पञ्चानां स्कन्धानां सभागहेतुः। चत्वारस्तु
स्कन्धा वेदनादयो न रूपस्य सभागहेतुर्विशिष्टत्वात् । न हि विशिष्टो न्यूनस्य
सभागहेतुर्गृह्यते; “समविशिष्टेभ्यः” इति वचनात्। कुशलाकुशलं तु रूप-
माभिसंस्कारिकत्वात् समं विशिष्टं चेति चत्वारस्तस्य सभागहेतुर्भवन्ति ।
कललं कललादीनामिति । पञ्च गर्भावस्थाः—कललार्बुदपेशीघनप्रशाखा-
वस्थाः, पञ्च जातावस्थाः—बालकुमारयुवमध्यवृद्धावस्थाः । इत्येते दश दशानाम-
वस्थानां सभागहेतुः । कललं कललात्तस्य यावद् वार्धस्य । अर्बुदमर्बुदस्य यावद्-
वार्धस्य । एवं यावद्वार्धं वार्धस्यैव । एकैकापहासेन एकैकपरिहारेण एकस्मिन्
निकायभागे वक्तव्यम् । अन्येषु समानजातीयेषु निकायभागेषु यदा मनुष्य-
जन्मनो मनुष्यजन्मैवोत्पद्यते तदा दशाप्यवस्था दशानामप्यवस्थानाम् । वृद्धाव-
स्थापि यावद्दशानामवस्थान्तराणाम् । सा हि वृद्धावस्था क्षणान्तरे तज्जन्म-
वृद्धावस्थायाः सभागहेतुः । अन्त्या तु जन्मान्तरकललादीनां दशानामप्य-
वस्थानां सभागहेतुरित्यवगन्तव्यम् ।
बाह्येष्वपि यवो यवस्येति विस्तरः। यवो यवस्य सभागहेतुर्न शालेः, शालिः
शालेरेव न यवस्य—इत्यनेन तुल्येऽप्यव्याकृतत्वे स्वसन्तान एव सभागहेतुत्वम्,
नान्यसन्ताने, जननशक्त्यभावादिति दर्शयति ।

र्देशः ] द्वितीयं कोशस्थानम् २९३
ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुम्, तेषामेष ग्रन्थ इच्छाविधा-
नाय सम्प्रवर्त्तते—“अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिः”
) इति ।
किं पुनः सर्वे सदृशाः सभागहेतुः ? नेत्याह । किं तर्हि ?
स्वनिकायभुवः
स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः ।
पञ्च निकायाः—दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः ।
नव भूमयः—कामधातुरष्टौ च ध्यानारूप्याः ।
तत्र दुःखदर्शनहेया दुःखदर्शनहेयानां सभागहेतुः, नान्येषाम् । एवं यावद्
भावनाहेया भावनाहेयानाम् ।
तेऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां
यावद् भवाग्रभूमिकास्तद्भूमिकानामेव नान्येषाम् ।
तेऽपि न सर्वे, किं तर्हि ?
अग्रजाः ।
पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः । अनागता नैव सभाग-
हेतुः । एवमतीते :
कुत एतत् ? आह—शास्त्रात् । “सभागहेतुः कतमः ?
पूर्वोत्पन्नानि कुशलमूलानि पश्चादुत्पन्नानां कुशलमूलानां तत्सम्प्रयुक्तानां च
धर्माणां स्वधातौ सभागहेतुना हेतुः । एवमतीतानि अतीतप्रत्युत्पन्नानाम् ।
अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिरिति । हेतुप्रत्ययः,
अधिपतिप्रत्ययश्चेत्यर्थः । अयुगपद्भावान्न सहभूहेतुः, अत एवाचित्तचैत्तत्वाच्च
न सम्प्रयुक्तकहेतुः, असर्वत्रगत्वान्न सर्वत्रगहेतुः, अव्याकृतत्वान्न विपाकहेतुः,
पारिशेष्यात् सभागहेतुरेवेत्यवगम्यते । यदि सदृशाः सदृशानां सभागहेतुः,
एवं पश्चादुत्पन्नोऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति, सहोत्पन्नोऽपि सहोत्-
पन्नस्य, अनुत्पन्नोऽप्यनुत्पन्नस्य ? इत्यत आह—तेऽपि न सर्वे । किं तर्हि ?
“अग्रजाः”। अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः । अनागता
न सभागहेतुरित्यर्थादुक्तं भवति । एवमतीतान्यतीतप्रत्युत्पन्नानामिति । पूर्वो-

अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्” ।
इदमपि शास्त्रम्—“यो धर्मो यस्य धर्मस्य हेतुः कदाचित् स धर्मस्तस्य
धर्मस्य न हेतुः ? आह—कदाचिद्” इति ?
सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोष एषः ;
यस्तु मन्यते—अनागतोऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे
नियतीभूतो भवति, अतस्तां चरमावस्थामभिसन्धायोक्तम्—“न कदाचिन्न
हेतुः” इति ?
तस्यायमपरिहारः; यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुर-
भूत्वा पश्चाद् भवति ।
इहापि च प्रश्ने—यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्म-
स्तस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यात्—न कदाचिदिति ।
त्पन्नान्यतीतानि पश्चादुत्पन्नातीतानामिति विभज्य व्याख्येयम् । अतीतप्रत्युत्प-
न्नान्यनागतानां सभागहेतुः, न त्वनागतान्यनागतानामित्युक्तम् । अतो गम्यते-
नास्त्यनागतः सभागहेतुरिति । न कदाचिदिति । न कदाचिन्न हेतुरित्यधि-
कृतम्, हेतुरेवेत्यर्थः । तस्मादस्त्यनागतः सभागहेतुरित्यभिप्रायः ।
सहभूविति । विस्तरः—सहभूसम्प्रयुक्तकविपाकहेतुष्वभिसन्धिरभिप्रायः,
तेन वचनम्, तस्मात् । सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः, न
कदाचिन्न हेतुरिति वचने । बाहुलिको ह्येष निर्देश इष्यते ।
चरमावस्थामभिसन्धायेति । अन्त्यामनागतावस्थामभिप्रेत्येत्यर्थः । अध्व-
त्रयेऽपि हेतुर्भवतीति तस्याभिप्रायः ।
तस्यायमपरिहार इति विस्तरः । तस्य वादिनोऽयमपरिहारः । कस्मात् ?
यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चाद् भवति, न नित्यं
सभागहेतुरित्यर्थः । बह्वीनामनागतावस्थानामेका चरमावस्था सभागहेतुत्वे
नियतीभूता । तदन्या बह्व्यस्तत्रानियतीभूताः सन्ति । तत्र च सामान्येनोक्तम्-
न कदाचिन्न हेतुरिति । एवं कृत्वायमपरिहारः । एकस्यामपि ह्यवस्थायां स
न सभागहेतुरिति शक्यमेव वक्तुं स्यात् ।
यो धर्मो यस्य धर्मस्य समनन्तर इति । समनन्तरप्रत्यय इत्यर्थः । शक्यमनया
कल्पनयेति । स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो
भवति । अतः शक्यं तां चरमावस्थामभिसन्धायेत्यनया कल्पनया वक्तुम्—

निर्देशः ] द्वितीयं कोशस्थानम् २९५
कस्मादेवमाह ? यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसन्दर्शनार्थम्—
यथा तत्र तथेहापि कर्तव्यम्, यथा चेह तथा तत्रेति ।
एवं सति को गुणो लभ्यत इत्यकौशलमेवात्र शास्त्रकारस्यैवं¹
सम्भाव्यते¹ । तस्मात् पूर्वक एवैष² परिहारः साधुः ।
यत् तर्हीदमुक्तम्—“अनागतानां सत्कार्यदृष्टि तत्सम्प्रयुक्तं च दुःखसत्यं
स्यान्न कदाचित् समनन्तर इति । कस्मादेवमाह—यदि स धर्मो नोत्पन्नो भव-
तीति । यदि स धर्मोऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्यर्थः ।
चरमावस्थायामाह—द्विमुखसन्दर्शनार्थमिति । विस्तरः—यथा तत्र यो धर्मो
यस्य धर्मस्य हेतुः, कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः । आह—न कदा-
चिदिति । तथेहापि कर्तव्यम् । यो धर्मो यस्य धर्मस्य समनन्तरः, कदाचित् स
धर्मस्तस्य धर्मस्य न समनन्तर इति । आह—न कदाचिदिति कर्तव्यम् । यदि स
धर्मो नोत्पन्नो भवतीति । यथा चेह तथा तत्रेति । कथम् ? यो धर्मो यस्य धर्मस्य
समनन्तरः कदाचित् स धर्मः तस्य धर्मस्य न समनन्तरः । आह—यदि स
धर्मो नोत्पन्नो भवतीति, एवं तत्र कर्तव्यम् । कथम् ? यो धर्मो यस्य धर्मस्य
हेतुः कदाचित् स धर्मः तस्य धर्मस्य न हेतुः । आह—यदि स धर्मो नोत्पन्नो
भवतीति । यदि स धर्मोऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्यर्थः ।
अत्राचार्य आह—एवं सति को गुण इति विस्तरः । इति द्विमुखसन्दर्शनेन
कश्चिद् गुणो लभ्यते । नैव ह्युत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा
मुख्यवृत्त्या भवतीत्यकौशलमेवात्र शास्त्रकारस्यैवं सम्भाव्यते । क्वचित् सावकाशं
ब्रुवतः, क्वचिन्निरवकाशम् । सावकाशं तावद् यदिदमुक्तम्—यो धर्मो यस्य
धर्मस्य हेतुः कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः । आह—न कदाचिदिति ।
कथं न कदाचिन्न हेतुरित्येवमुक्त्वा पुनर्वर्णयति—चरमावस्थायां सभागहेतुरिति ।
निरवकाशम्—यदि स धर्मो नोत्पन्नो भवति न समनन्तरः, उत्पन्नस्तु समनन्तर
इति । अयमत्राभिप्रायार्थं ऐकान्तिकमर्थं व्यवस्थाप्य पुनरन्यथाकरोतीति
तस्मात् पूर्वक एवैष परिहारः साधुरिति । सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धि-
वचनाददोष इति ।
यत्तर्हीदमुक्तमिति । विस्तरः—कुत एतदायातम् ? अनागतो नैव सभाग-
हेतुरित्युक्तम् । तद् यद्यनागतो नैव सभागहेतुः, कस्मादनागता सत्कार्यदृष्टिः
१-१. शास्त्रकारस्यैव सम्भाव्यंत—का० ।
२. एवात्र—का० ।

स्थापयित्वा यत् तदन्यत् क्लिष्टं दुःखसत्यं तत् सत्कायदृष्टिहेतुकं न सत्कायदृष्टे-
र्हेतुः, यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः” इति ?
अनागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्तव्यम्,
अर्थतो^१ वैवं^२ बोद्धव्यमिति ।
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते—"सर्वधर्माश्चतुष्के नियताः—हेतौ
फले आश्रये आलम्बने नियताः” इति ? हेतुरत्र सम्प्रयुक्तकहेतुः, सहभूहेतुश्च ।
स्थापिता । यदि स्थापितं तत् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरिति
व्याख्यातम् । तत्र कथमनागता सत्कायदृष्टिः सत्कायदृष्टेर्हेतुः । न तावत्
सहभूहेतुः सम्प्रयुक्तकहेतुर्वा सम्भवति; असहभूतत्वात् । न विपाकहेतुः, अव्या-
कृतत्वात् । न कारणहेतुः, साधारणत्वेनागण्यमानत्वात् । पारिशेष्यात् सभाग-
हेतुः सर्वत्रगहेतुर्वा भवन्ती भवेत् । इह च सभागहेतुरेव सर्वत्रगहेतुः । अतो
यद्यनागता सत्कायदृष्टिः सत्कायदृष्टेर्न सभागहेतुः, कस्मादसौ तृतीयकोट्यर्थं
स्थापितेति ?
वैभाषिक आह—अनागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वेत्येव-
मेतत् कर्तव्यमिति । सत्कायदृष्टिसम्प्रयुक्तमेव स्थापयितव्यम्, न तु सत्काय-
दृष्टिः । तद्धि वेदनादिकं सहभूहेतुना सम्प्रयुक्तकहेतुना वा सत्कायदृष्टिहेतुकं
सत्कायदृष्टेश्च हेतुः, न सभागहेतुना । विनष्टको ह्ययमनागतां सत्कायदृष्टिमिति
पाठः । पश्चात्पदस्थेन तच्छब्देन सह न पठितव्यः । सम्प्रयुक्तदुःखसत्य-
विशेषणार्थं तु समस्तैतत् पदद्वयं पठितव्यम्—अनागतसत्कायदृष्टिसम्प्रयुक्तक-
मिति । अर्थतो वैवं बोद्धव्यं यथैवं न क्रियेत पाठः । भाष्याक्षेपनिर्वृत्तः पाठो न
तन्त्रमित्यभिप्रायः ।
प्रज्ञप्तिभाष्यं कथं नीयते—सर्वधर्माश्चतुष्के नियता इति । हेतौ नियता यस्य
धर्मस्य यो धर्मो हेतुः । स धर्मस्तस्य धर्मस्य न कदाचिन्न हेतुः । त्रिष्वपि
कालेषु हेतुरित्यर्थः । एवं फले नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि
योज्यम् । एवमाश्रये नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म आश्रयश्चक्षु-
रादिरिति योज्यम् । एवमालम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म
आलम्बनं रूपादिरिति योज्यम् । तेन धर्माणां हेतौ नियतत्वात् त्रिष्वपि
कालेषु सभागहेतुर्भवतीति चोदकाभिप्रायः । सर्वहेत्वनभिसन्धेरदोष इति
दर्शयन् वैभाषिक आह—हेतुरत्र सम्प्रयुक्तकहेतुः सहभूहेतुश्च । न सभागहेतुः
सर्वत्रगहेतुर्वा; अनागतावस्थायामव्यवस्थापितत्वात् । न विपाकहेतुः, अनानि-


१. ऽसमर्थतोऽपि—का० । २. चैवं—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २९७
फलम् — पुरुषकारफलम्, अधिपतिफलं च । आश्रयश्चक्षुरादिरालम्बनं रूपादिक-
मिति द्रष्टव्यम् ।
ननु चैवं सति सभागहेतुरभूत्वा हेतुर्भवतीति प्राप्तम् ?
इष्यत एवावस्थां प्रति न द्रव्यम् । अवस्थाफलं हि सामग्रयम्, न द्रव्य-
फलम् ।
किं पुनः स्याद्--यदि विपाकहेतुवदनागतोऽपि सभागहेतुः स्यात् ?
शास्त्रे तस्य ग्रहणं स्यात् ।
य एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः ? नैतदस्ति; निष्य-
न्दफलेन हि सफलः सभागहेतुः । तच्चानागतस्यायुक्तम्; पूर्वपश्चिमताभावात् !
ङ्ज्यस्य कर्मणः कस्यचिद् गत्यन्तरेऽपि विपाकादानात् । फलं पुरुषकारफल-
मधिपतिफलं च । तयोश्चन्द्रमण्डलकदंष्ट्रयोः फलत्वात् । वैभाषिकाणामेत-
न्मतम्—अनागतं विद्यमानमुत्पद्यत इति । तस्मादयं प्रसञ्जयति ।
ननु चैवं सति सभागहेतुरभूत्वा अनागतावस्थाया हेतुर्भूवात वर्तमाना-
वस्थायामिति । प्राप्तं प्रसक्तमित्यर्थः ।
इष्यत एवावस्थां प्रति न द्रव्यमिति । इष्यत एव सभागहेतोः सभागहेतु-
त्वावस्था—पूर्वं नासीदिदानीं भवतीति । न तु द्रव्यस्वलक्षणम्—पूर्वं नासीदि-
दानीं भवतीति । अवस्थाफलं हि सामग्र्यं न द्रव्यफलमिति । हेतुप्रत्ययसामग्र्या
वर्तमानावस्थाफलं न द्रव्यम् । यस्मादनागतोऽपि स धर्मा द्रव्यतोऽस्ति, न
पुनः प्रत्युत्पन्न एवेति । चोदक आह—किं पुनः स्यादिति विस्तरः । वैभाषिक
आह—शास्त्रे तस्य ग्रहणं स्यादिति । तस्यानागतस्य सभागहेतोः । न चास्ति
ग्रहणम् । न हि तत्र शास्त्रमुक्तम्—अनागतानि कुशलमूलान्यनागतानां कुशल-
मूलानां सभागहेतुरिति । चोदक आह—य एव हीति विस्तरः । चोदकस्याय-
मभिप्रायः–यद्यप्यनागतोऽस्ति सभागहेतुर्न त्वसौ फलदानग्रहणक्रियायां समर्थः ।
य एव हि फलदानग्रहणक्रियासमर्थः फलाक्षेपक्रियासमर्थश्च तस्यैव सभागहेतो-
रतीतस्य वर्तमानस्य च ग्रहणात् अदोषः, अनागतस्य सभागहेतोरग्रहणम्;
तस्य फलदानग्रहणक्रियायामसामर्थ्यात् । तस्मादस्त्यनागतः सभागहेतुः ।
अथ च शास्त्रे नोक्त इति ? वैभाषिक आह—नैतदस्तीति विस्तरः । नैतद्
युज्यते । निष्यन्दफलेन हि सफलः सभागहेतुः । "सभागसर्वत्रगयोर्निष्यन्दः",
( अभि० को० २.५६ ) "निष्यन्दो हेतुसदृशः" ( अभि० को० २५७ )
इति वचनात् । तच्चानागतस्यायुक्तम् । तन्निष्यन्दफलमयुक्तम् । कस्मात् ?

ति ।
Wait, in L4: "पूर्वपश्चिमताऽभावात् ?" -> look at L4 in the image:
"पूर्वपश्चिमाताऽभावात् ?" No, "पूर्वपश्चिमाताऽभावात्" or "पूर्वपश्चिमाऽभावात्"?
In L4: "पूर्वपश्चिमाताऽभावात्" - wait, let's zoom in!
"पू र्व प श्चि म ता ऽ भा वा त् ?"
Letters:
पू (pū)
र्व (rva)
प (pa)
श्चि (ści)
म (ma)
ता (tā)
ऽ (avagraha)
भा (bhā)
वा (vā)
त् (t)
?
Wait, between म and ऽ:
It has ता! "पूर्वपश्चिमताऽभावात् ?"
Wait, look at line 4:
"पूर्वपश्चिमाताऽभावात् ?" No, it's "म" then "ता": "पूर्वपश्चिमताऽभावात् ?".

Let's check L7:
"न त्वेवं¹ विपाकहेतुः²; विना² पौर्वापर्येणान्योन्यहेतुफलता सम्प्रसज्यते;"
Wait, in L7, after विपाकहेतुः² is it semicolon or comma?
It is a semicolon ';'.
Wait, after विना²:
"विना² पौर्वापर्येणान्योन